Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण ४

संस्कृत

Passage 46.6

अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति । श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः । तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥

पदच्छेद

अथathaयदिyadiउदकेudakeआत्मानम्ātmānamपश्येत्paśyetतत्tatअभिमन्त्रयेतabhimantrayetaमयिmayiतेजःtejaḥइन्द्रियम्indriyamयशःyaśaḥद्रविणम्draviṇamसुकृतम्sukṛtamइतिitiश्रीःśrīḥहhaवैvaiएषाeṣāस्त्रीणाम्strīṇāmयत्yatमलोद्वासाःmalodvāsāḥतस्मात्tasmātमलोद्वाससम्malodvāsasamयशस्विनीम्yaśasvinīmअभिक्रम्यabhikramyaउपमन्त्रयेतupamantrayeta

अन्वय

अथ यदि उदके आत्मानम् पश्येत्, तत् अभिमन्त्रयेत—मयि तेजः इन्द्रियम् यशः द्रविणम् सुकृतम् [अस्तु] इति । ह वै एषा स्त्रीणाम् श्रीः [अस्ति], यत् मलोद्वासाः [अस्ति] । तस्मात् मलोद्वाससम् यशस्विनीम् अभिक्रम्य उपमन्त्रयेत ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण ४

Read the whole section →