Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण ४

संस्कृत

Passage 46.21

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति । तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥

पदच्छेद

अथathaअस्याःasyāḥऊरूūrūविहापयतिvihāpayatiविजिहीथाम्vijihīthāmद्यावापृथिवीdyāvāpṛthivīइतिitiतस्याम्tasyāmअर्थम्arthamनिष्ठायniṣṭhāyaमुखेनmukhenaमुखम्mukhamसंधायsaṃdhāyaत्रिःtriḥएनाम्enāmअनुलोमाम्anulomāmअनुमार्ष्टिanumārṣṭiविष्णुःviṣṇuḥयोनिम्yonimकल्पयतुkalpayatuत्वष्टाtvaṣṭāरूपाणिrūpāṇiपिंशतुpiṃśatuआāसिञ्चतुsiñcatuप्रजापतिःprajāpatiḥधाताdhātāगर्भम्garbhamदधातुdadhātuतेteगर्भम्garbhamधेहिdhehiसिनीवालिsinīvāliगर्भम्garbhamधेहिdhehiपृथुष्टुकेpṛthuṣṭukeगर्भम्garbhamतेteअश्विनौaśvinauदेवौdevauआधत्ताम्ādhattāmपुष्करस्रजौpuṣkarasrajau

अन्वय

अथ अस्याः ऊरू विहापयति—द्यावापृथिवी, विजिहीथाम् इति । तस्याम् अर्थम् निष्ठाय मुखेन मुखम् सन्धाय एनाम् अनुलोमाम् त्रिः अनुमार्ष्टि—विष्णुः योनिम् कल्पयतु; त्वष्टा रूपाणि पिंशतु; प्रजापतिः आ सिञ्चतु; धाता ते गर्भम् दधातु । सिनीवालि, गर्भम् धेहि; पृथुष्टुके, गर्भम् धेहि; पुष्करस्रजौ देवौ अश्विनौ ते गर्भम् आ धत्ताम् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण ४

Read the whole section →