Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ३

संस्कृत

Passage 3.25

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत । तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य स्वं भवति । भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ २५ ॥

पदच्छेद

तस्यtasyaहhaएतस्यetasyaसाम्नःsāmnaḥयःyaḥस्वम्svamवेदvedaभवतिbhavatiहhaअस्यasyaस्वम्svamतस्यtasyaवैvaiस्वरःsvaraḥएवevaस्वम्svamतस्मात्tasmātआर्त्विज्यम्ārtvijyamकरिष्यन्kariṣyanवाचिvāciस्वरम्svaramइच्छेतicchetaतयाtayāवाचाvācāस्वरसम्पन्नयाsvarasampannayāआर्त्विज्यम्ārtvijyamकुर्यात्kuryātतस्मात्tasmātयज्ञेyajñeस्वरवन्तम्svaravantamदिदृक्षन्तेdidṛkṣanteएवevaअथathaउuयस्यyasyaस्वम्svamभवतिbhavatiभवतिbhavatiहhaअस्यasyaस्वम्svamयःyaḥएवम्evamएतत्etatसाम्नःsāmnaḥस्वम्svamवेदveda

अन्वय

तस्य ह एतस्य साम्नः यः स्वम् वेद, अस्य स्वम् ह भवति । तस्य स्वरः एव स्वम् वै [अस्ति] । तस्मात् आर्त्विज्यम् करिष्यन् वाचि स्वरम् इच्छेत । तया स्वरसम्पन्नया वाचा आर्त्विज्यम् कुर्यात् । तस्मात् यज्ञे स्वरवन्तम् दिदृक्षन्ते एव, अथ उ यस्य स्वम् भवति [तम्] । यः एवम् एतत् साम्नः स्वम् वेद, अस्य स्वम् ह भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ३

Read the whole section →