Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ३

संस्कृत

Passage 3.18

ते देवा अब्रुवन् । एतावद्वा इदं सर्वं यदन्नम् । तदात्मन आगासीः । अनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माभिसंविशतेति । तथेति तं समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्ति । एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद । य उ हैवंविदं स्वेषु प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवति । अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ १८ ॥

पदच्छेद

तेteदेवाःdevāḥअब्रुवन्abruvanएतावत्etāvatवैvaiइदम्idamसर्वम्sarvamयत्yatअन्नम्annamतत्tatआत्मनेātmaneआगासीःāgāsīḥअनुanuनःnaḥअस्मिन्asminअन्नेanneआभजस्वābhajasvaइतिitiतेteवैvaiमाmāअभिसंविशतabhisaṃviśataइतिitiतथाtathāइतिitiतम्tamसमन्तम्samantamपरिण्यविशन्तpariṇyaviśantaतस्मात्tasmātयत्yatअनेनanenaअन्नम्annamअत्तिattiतेनtenaएताःetāḥतृप्यन्तिtṛpyantiएवम्evamहhaवैvaiएनम्enamस्वाःsvāḥअभिसंविशन्तिabhisaṃviśantiभर्ताbhartāस्वानाम्svānāmश्रेष्ठःśreṣṭhaḥपुरएताpuraetāभवतिbhavatiअन्नादःannādaḥअधिपतिःadhipatiḥयःyaḥएवम्evamवेदvedaयःyaḥउuहhaएवंविदम्evaṃvidamस्वेषुsveṣuप्रतिःpratiḥबुभूषतिbubhūṣatiनnaहhaएवevaअलम्alamभार्येभ्यःbhāryebhyaḥभवतिbhavatiअथathaयःyaḥएवevaएतम्etamअनुभवतिanubhavatiयःyaḥवाvāएतम्etamअनुanuभार्यान्bhāryānबुभूर्षतिbubhūrṣatiसःsaḥहhaएवevaअलम्alamभार्येभ्यःbhāryebhyaḥभवतिbhavati

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ३

Read the whole section →