Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ३

संस्कृत

Passage 3.2

ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायत् । यत्कल्याणं वदति तदात्मने । तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं वदति । स एव स पाप्मा ॥ २ ॥

पदच्छेद

तेteहhaवाचम्vācamऊचुःūcuḥत्वम्tvamनःnaḥउद्गायudgāyaइतिitiतथाtathāइतिitiतेभ्यःtebhyaḥवाक्vākउदगायत्udagāyatयःyaḥवाचिvāciभोगःbhogaḥतम्tamदेवेभ्यःdevebhyaḥआगायत्āgāyatयत्yatकल्याणम्kalyāṇamवदतिvadatiतत्tatआत्मनेātmaneतेteअविदुःaviduḥअनेनanenaवैvaiनःnaḥउद्गात्राudgātrāअत्येष्यन्तिatyeṣyantiइतिitiतम्tamअभिद्रुत्यabhidrutyaपाप्मनाpāpmanāअविध्यन्avidhyanसःsaḥयःyaḥसःsaḥपाप्माpāpmāयत्yatएवevaइदम्idamअप्रतिरूपम्apratirūpamवदतिvadatiसःsaḥएवevaसःsaḥपाप्माpāpmā

अन्वय

ते ह वाचम् ऊचुः-त्वम् नः उद्गाय इति । तथा इति तेभ्यः वाक् उदगायत् । यः वाचि भोगः [अस्ति], तम् देवेभ्यः आगायत् । यत् कल्याणम् वदति, तत् आत्मने [आगायत्] । ते [असुराः] अविदुः-अनेन वै उद्गात्रा [देवाः] नः अत्येष्यन्ति इति । तम् अभिद्रुत्य पाप्मना अविध्यन् । यः सः पाप्मा [आसीत्], सः यत् एव इदम् अप्रतिरूपम् वदति [तत् अस्ति] । सः एव सः पाप्मा [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ३

Read the whole section →