Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ३

संस्कृत

Passage 3.22

एष उ एव साम । वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव साम । अश्नुते साम्नः सायुज्यं सलोकताम् । य एवमेतत्साम वेद ॥ २२ ॥

पदच्छेद

एषःeṣaḥउuएवevaसामsāmaवाक्vākवैvaiसाsāअमःamaḥएषःeṣaḥसाsāचcaअमःamaḥचcaइतिitiतत्tatसाम्नःsāmnaḥसामत्वम्sāmatvamयत्yatउuएवevaसमःsamaḥप्लुषिणाpluṣiṇāसमःsamaḥमशकेनmaśakenaसमःsamaḥनागेनnāgenaसमःsamaḥएभिःebhiḥत्रिभिःtribhiḥलोकैःlokaiḥसमःsamaḥअनेनanenaसर्वेणsarveṇaतस्मात्tasmātउuएवevaसामsāmaअश्नुतेaśnuteसाम्नःsāmnaḥसायुज्यम्sāyujyamसलोकताम्salokatāmयःyaḥएवम्evamएतत्etatसामsāmaवेदveda

अन्वय

एषः उ एव साम [अस्ति] । वाक् वै सा [अस्ति]; अमः एषः [अस्ति] । सा च अमः च इति तत् साम्नः सामत्वम् [अस्ति] । यत् उ एव प्लुषिणा समः [अस्ति], मशकेन समः [अस्ति], नागेन समः [अस्ति], एभिः त्रिभिः लोकैः समः [अस्ति], अनेन सर्वेण समः [अस्ति], तस्मात् उ एव साम [अस्ति] । यः एवम् एतत् साम वेद, [सः] साम्नः सायुज्यम् सलोकताम् अश्नुते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ३

Read the whole section →