Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ४

संस्कृत

Passage 25.2

एकीभवति न पश्यतीत्याहुः । एकीभवति न जिघ्रतीत्याहुः । एकीभवति न रसयतीत्याहुः । एकीभवति न वदतीत्याहुः । एकीभवति न शृणोतीत्याहुः । एकीभवति न मनुत इत्याहुः । एकीभवति न स्पृशतीत्याहुः । एकीभवति न विजानातीत्याहुः । तस्य हैतस्य हृदयस्याग्रं प्रद्योतते । तेन प्रद्योतेनैष आत्मा निष्क्रामति । चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः । तमुत्क्रामन्तं प्राणोऽनूत्क्रामति । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञनो भवति । संजानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ २ ॥

पदच्छेद

एकीभवतिekībhavatiनnaपश्यतिpaśyatiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaजिघ्रतिjighratiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaरसयतिrasayatiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaवदतिvadatiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaशृणोतिśṛṇotiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaमनुतेmanuteइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaस्पृशतिspṛśatiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaविजानातिvijānātiइतिitiआहुःāhuḥतस्यtasyaहhaएतस्यetasyaहृदयस्यhṛdayasyaअग्रम्agramप्रद्योततेpradyotateतेनtenaप्रद्योतेनpradyotenaएषःeṣaḥआत्माātmāनिष्क्रामतिniṣkrāmatiचक्षुष्टःcakṣuṣṭaḥवाvāमूर्ध्नःmūrdhnaḥवाvāअन्येभ्यःanyebhyaḥवाvāशरीरदेशेभ्यःśarīradeśebhyaḥतम्tamउत्क्रामन्तम्utkrāmantamप्राणःprāṇaḥअनूत्क्रामतिanūtkrāmatiप्राणम्prāṇamअनूत्क्रामन्तम्anūtkrāmantamसर्वेsarveप्राणाःprāṇāḥअनूत्क्रामन्तिanūtkrāmantiसविज्ञानःsavijñānaḥभवतिbhavatiसञ्ज्ञानम्sañjñānamएवevaअन्ववक्रामतिanvavakrāmatiतम्tamविद्याकर्मणीvidyākarmaṇīसमन्वारभेतेsamanvārabheteपूर्वप्रज्ञाpūrvaprajñāचca

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ४

Read the whole section →