Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ४

संस्कृत

Passage 25.1

स यत्रायमात्माबल्यं न्येत्य संमोहमिव न्येति । अथैनमेते प्राणा अभिसमायन्ति । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति । स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते । अथारूपज्ञो भवति ॥ १ ॥

पदच्छेद

सःsaḥयत्रyatraअयम्ayamआत्माātmāअबल्यम्abalyamन्येत्यnyetyaसम्मोहम्sammohamइवivaन्येतिnyetiअथathaएनम्enamएतेeteप्राणाःprāṇāḥअभिसमायन्तिabhisamāyantiसःsaḥएताःetāḥतेजोमात्राःtejomātrāḥसमभ्याददानःsamabhyādadānaḥहृदयम्hṛdayamएवevaअन्ववक्रामतिanvavakrāmatiसःsaḥयत्रyatraएषःeṣaḥचाक्षुषःcākṣuṣaḥपुरुषःpuruṣaḥपराङ्parāṅपर्यावर्ततेparyāvartateअथathaअरूपज्ञःarūpajñaḥभवतिbhavati

अन्वय

यत्र सः अयम् आत्मा अबल्यम् नि एत्य संमोहम् इव नि एति, अथ एनम् एते प्राणाः अभिसमायन्ति । सः एताः तेजोमात्राः समभ्याददानः हृदयम् एव अन्ववक्रामति । यत्र सः एषः चाक्षुषः पुरुषः पराङ् पर्यावर्तते, अथ [अयम्] अरूपज्ञः भवति ।

Passage 25.2

एकीभवति न पश्यतीत्याहुः । एकीभवति न जिघ्रतीत्याहुः । एकीभवति न रसयतीत्याहुः । एकीभवति न वदतीत्याहुः । एकीभवति न शृणोतीत्याहुः । एकीभवति न मनुत इत्याहुः । एकीभवति न स्पृशतीत्याहुः । एकीभवति न विजानातीत्याहुः । तस्य हैतस्य हृदयस्याग्रं प्रद्योतते । तेन प्रद्योतेनैष आत्मा निष्क्रामति । चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः । तमुत्क्रामन्तं प्राणोऽनूत्क्रामति । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञनो भवति । संजानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ २ ॥

पदच्छेद

एकीभवतिekībhavatiनnaपश्यतिpaśyatiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaजिघ्रतिjighratiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaरसयतिrasayatiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaवदतिvadatiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaशृणोतिśṛṇotiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaमनुतेmanuteइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaस्पृशतिspṛśatiइतिitiआहुःāhuḥएकीभवतिekībhavatiनnaविजानातिvijānātiइतिitiआहुःāhuḥतस्यtasyaहhaएतस्यetasyaहृदयस्यhṛdayasyaअग्रम्agramप्रद्योततेpradyotateतेनtenaप्रद्योतेनpradyotenaएषःeṣaḥआत्माātmāनिष्क्रामतिniṣkrāmatiचक्षुष्टःcakṣuṣṭaḥवाvāमूर्ध्नःmūrdhnaḥवाvāअन्येभ्यःanyebhyaḥवाvāशरीरदेशेभ्यःśarīradeśebhyaḥतम्tamउत्क्रामन्तम्utkrāmantamप्राणःprāṇaḥअनूत्क्रामतिanūtkrāmatiप्राणम्prāṇamअनूत्क्रामन्तम्anūtkrāmantamसर्वेsarveप्राणाःprāṇāḥअनूत्क्रामन्तिanūtkrāmantiसविज्ञानःsavijñānaḥभवतिbhavatiसञ्ज्ञानम्sañjñānamएवevaअन्ववक्रामतिanvavakrāmatiतम्tamविद्याकर्मणीvidyākarmaṇīसमन्वारभेतेsamanvārabheteपूर्वप्रज्ञाpūrvaprajñāचca

Passage 25.3

तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति । एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥ ३ ॥

पदच्छेद

तत्tatयथाyathāतृणजलायुकाtṛṇajalāyukāतृणस्यtṛṇasyaअन्तम्antamगत्वाgatvāअन्यम्anyamआक्रमम्ākramamआक्रम्यākramyaआत्मानम्ātmānamउपसंहरतिupasaṃharatiएवम्evamएवevaअयम्ayamआत्माātmāइदम्idamशरीरम्śarīramनिहत्यnihatyaअविद्याम्avidyāmगमयित्वाgamayitvāअन्यम्anyamआक्रमम्ākramamआक्रम्यākramyaआत्मानम्ātmānamउपसंहरतिupasaṃharati

अन्वय

तत् यथा तृणजलायुका तृणस्य अन्तम् गत्वा अन्यम् आक्रमम् आक्रम्य आत्मानम् उपसंहरति, एवम् एव अयम् आत्मा इदम् शरीरम् निहत्य, [शरीरम्] अविद्याम् गमयित्वा, अन्यम् आक्रमम् आक्रम्य आत्मानम् उपसंहरति ।

Passage 25.4

तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुते । एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते । पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ४ ॥

पदच्छेद

तत्tatयथाyathāपेशस्कारीpeśaskārīपेशसःpeśasaḥमात्राम्mātrāmअपादायapādāyaअन्यत्anyatनवतरम्navataramकल्याणतरम्kalyāṇataramरूपम्rūpamतनुतेtanuteएवम्evamएवevaअयम्ayamआत्माātmāइदम्idamशरीरम्śarīramनिहत्यnihatyaअविद्याम्avidyāmगमयित्वाgamayitvāअन्यत्anyatनवतरम्navataramकल्याणतरम्kalyāṇataramरूपम्rūpamकुरुतेkuruteपित्र्यम्pitryamवाvāगान्धर्वम्gāndharvamवाvāदैवम्daivamवाvāप्राजापत्यम्prājāpatyamवाvāब्राह्मम्brāhmamवाvāअन्येषाम्anyeṣāmवाvāभूतानाम्bhūtānām

अन्वय

तत् यथा पेशस्कारी पेशसः मात्राम् अपादाय अन्यत् नवतरम् कल्याणतरम् रूपम् तनुते, एवम् एव अयम् आत्मा इदम् शरीरम् निहत्य, [शरीरम्] अविद्याम् गमयित्वा, अन्यत् नवतरम् कल्याणतरम् रूपम् कुरुते—पित्र्यम् वा गान्धर्वम् वा दैवम् वा प्राजापत्यम् वा ब्राह्मम् वा अन्येषाम् वा भूतानाम् [रूपम्] ।

Passage 25.5

स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः । तद्यदेतदिदंमयोऽदोमय इति । यथाकारी यथाचारी तथा भवति । साधुकारी साधुर्भवति । पापकारी पापो भवति । पुण्यः पुण्येन कर्मणा पापः पापेन । अथो खल्वाहुः । काममय एवायं पुरुष इति । स यथाकामो भवति तत्क्रतुर्भवति । यत्क्रतुर्भवति तत्कर्म कुरुते । यत्कर्म कुरुते तदभिसंपद्यते ॥ ५ ॥

पदच्छेद

सःsaḥवैvaiअयम्ayamआत्माātmāब्रह्मbrahmaविज्ञानमयःvijñānamayaḥमनोमयःmanomayaḥप्राणमयःprāṇamayaḥचक्षुर्मयःcakṣurmayaḥश्रोत्रमयःśrotramayaḥपृथिवीमयःpṛthivīmayaḥआपोमयःāpomayaḥवायुमयःvāyumayaḥआकाशमयःākāśamayaḥतेजोमयःtejomayaḥअतेजोमयःatejomayaḥकाममयःkāmamayaḥअकाममयःakāmamayaḥक्रोधमयःkrodhamayaḥअक्रोधमयःakrodhamayaḥधर्ममयःdharmamayaḥअधर्ममयःadharmamayaḥसर्वमयःsarvamayaḥतत्tatयत्yatएतत्etatइदंमयःidaṃmayaḥअदोमयःadomayaḥइतिitiयथाकारीyathākārīयथाचारीyathācārīतथाtathāभवतिbhavatiसाधुकारीsādhukārīसाधुःsādhuḥभवतिbhavatiपापकारीpāpakārīपापःpāpaḥभवतिbhavatiपुण्यःpuṇyaḥपुण्येनpuṇyenaकर्मणाkarmaṇāपापःpāpaḥपापेनpāpenaअथathaउuखलुkhaluआहुःāhuḥकाममयःkāmamayaḥएवevaअयम्ayamपुरुषःpuruṣaḥइतिitiसःsaḥयथाकामःyathākāmaḥभवतिbhavatiतत्क्रतुःtatkratuḥभवतिbhavatiयत्क्रतुःyatkratuḥभवतिbhavatiतत्tatकर्मkarmaकुरुतेkuruteयत्yatकर्मkarmaकुरुतेkuruteतत्tatअभिसम्पद्यतेabhisampadyate

अन्वय

सः वै अयम् आत्मा ब्रह्म [अस्ति]; विज्ञानमयः मनोमयः प्राणमयः चक्षुर्मयः श्रोत्रमयः पृथिवीमयः आपोमयः वायुमयः आकाशमयः तेजोमयः अतेजोमयः काममयः अकाममयः क्रोधमयः अक्रोधमयः धर्ममयः अधर्ममयः सर्वमयः [अस्ति] । तत् एतत् [अस्य सिद्धम्], यत् [अयम्] इदंमयः अदोमयः इति [गृह्यमाणकार्येण निर्दिश्यते] । [सः] यथाकारी यथाचारी तथा भवति; साधुकारी साधुः भवति; पापकारी पापः भवति; पुण्येन कर्मणा पुण्यः [भवति], पापेन [कर्मणा] पापः [भवति] । अथो खलु, अयम् पुरुषः काममयः एव [अस्ति] इति आहुः । सः यथाकामः भवति, तत्क्रतुः भवति; यत्क्रतुः भवति, तत् कर्म कुरुते; यत् कर्म कुरुते, तत् अभिसम्पद्यते ।

Passage 25.6

तदेष श्लोको भवति तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे । इति नु कामयमानः । अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति । ब्रह्मैव सन् ब्रह्माप्येति ॥ ६ ॥

पदच्छेद

तत्tatएषःeṣaḥश्लोकःślokaḥभवतिbhavatiतत्tatएवevaसक्तःsaktaḥसहsahaकर्मणाkarmaṇāएतिetiलिङ्गम्liṅgamमनःmanaḥयत्रyatraनिषक्तम्niṣaktamअस्यasyaप्राप्यprāpyaअन्तम्antamकर्मणःkarmaṇaḥतस्यtasyaयत्yatकिञ्चkiñcaइहihaकरोतिkarotiअयम्ayamतस्मात्tasmātलोकात्lokātपुनःpunaḥएतिetiअस्मैasmaiलोकायlokāyaकर्मणेkarmaṇeइतिitiनुnuकामयमानःkāmayamānaḥअथathaअकामयमानःakāmayamānaḥयःyaḥअकामःakāmaḥनिष्कामःniṣkāmaḥआप्तकामःāptakāmaḥआत्मकामःātmakāmaḥनnaतस्यtasyaप्राणाःprāṇāḥउत्क्रामन्तिutkrāmantiब्रह्मbrahmaएवevaसन्sanब्रह्मbrahmaअप्येतिapyeti

अन्वय

तत् एषः श्लोकः भवति—अस्य लिङ्गम् मनः यत्र निषक्तम् [अस्ति], [अयम्] सक्तः तदेव कर्मणा सह एति । अयम् इह यत् किञ्च करोति, तस्य कर्मणः अन्तम् प्राप्य तस्मात् लोकात् पुनः अस्मै लोकाय कर्मणे एति । इति नु कामयमानः [संसरति] । अथ अकामयमानः—यः अकामः निष्कामः आप्तकामः आत्मकामः [अस्ति], तस्य प्राणाः न उत्क्रामन्ति; [सः] ब्रह्म एव सन् ब्रह्म अप्येति ।

Passage 25.7

तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति । तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत । एवमेवेदं शरीरं शेते । अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव । सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥

पदच्छेद

तत्tatएषःeṣaḥश्लोकःślokaḥभवतिbhavatiयदाyadāसर्वेsarveप्रमुच्यन्तेpramucyanteकामाःkāmāḥयेyeअस्यasyaहृदिhṛdiश्रिताःśritāḥअथathaमर्त्यःmartyaḥअमृतःamṛtaḥभवतिbhavatiअत्रatraब्रह्मbrahmaसमश्नुतेsamaśnuteइतिitiतत्tatयथाyathāअहिनिर्ल्वयनीahinirlvayanīवल्मीकेvalmīkeमृताmṛtāप्रत्यस्ताpratyastāशयीतśayītaएवम्evamएवevaइदम्idamशरीरम्śarīramशेतेśeteअथathaअयम्ayamअशरीरःaśarīraḥअमृतःamṛtaḥप्राणःprāṇaḥब्रह्मbrahmaएवevaतेजःtejaḥएवevaसःsaḥअहम्ahamभगवतेbhagavateसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥ

अन्वय

तत् एषः श्लोकः भवति—अस्य हृदि ये कामाः श्रिताः [सन्ति], यदा सर्वे [ते] प्रमुच्यन्ते, अथ मर्त्यः अमृतः भवति, अत्र ब्रह्म समश्नुते इति । तत् यथा अहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत, एवम् एव इदम् शरीरम् शेते । अथ अयम् अशरीरः अमृतः प्राणः ब्रह्म एव [अस्ति], तेजः एव [अस्ति] । सः अहम् भगवते सहस्रम् ददामि इति जनकः वैदेहः ह उवाच ।

Passage 25.8

तदेते श्लोका भवन्ति अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥

पदच्छेद

तत्tatएतेeteश्लोकाःślokāḥभवन्तिbhavantiअणुःaṇuḥपन्थाःpanthāḥविततःvitataḥपुराणःpurāṇaḥमाम्māmस्पृष्टःspṛṣṭaḥअनुवित्तःanuvittaḥमयाmayāएवevaतेनtenaधीराःdhīrāḥअपियन्तिapiyantiब्रह्मविदःbrahmavidaḥस्वर्गम्svargamलोकम्lokamइतःitaḥऊर्ध्वम्ūrdhvamविमुक्ताःvimuktāḥ

Passage 25.9

तस्मिञ्शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९ ॥

पदच्छेद

तस्मिन्tasminशुक्लम्śuklamउतutaनीलम्nīlamआहुःāhuḥपिङ्गलम्piṅgalamहरितम्haritamलोहितम्lohitamचcaएषःeṣaḥपन्थाःpanthāḥब्रह्मणाbrahmaṇāहhaअनुवित्तःanuvittaḥतेनtenaएतिetiब्रह्मवित्brahmavitपुण्यकृत्puṇyakṛtतैजसःtaijasaḥचca

अन्वय

तस्मिन् [पथि केचित्] शुक्लम् उत नीलम् पिङ्गलम् हरितम् लोहितम् च आहुः । एषः पन्थाः ब्रह्मणा ह अनुवित्तः [अस्ति]; तेन ब्रह्मवित् पुण्यकृत् तैजसः च एति ।

Passage 25.10

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ १० ॥

पदच्छेद

अन्धम्andhamतमःtamaḥप्रविशन्तिpraviśantiयेyeअविद्याम्avidyāmउपासतेupāsateततःtataḥभूयःbhūyaḥइवivaतेteतमःtamaḥयेyeउuविद्यायाम्vidyāyāmरताःratāḥ

अन्वय

ये अविद्याम् उपासते, [ते] अन्धम् तमः प्रविशन्ति । ये उ विद्यायाम् रताः [सन्ति], ते ततः भूयः इव तमः [प्रविशन्ति] ।

Passage 25.11

अनन्दा नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छत्यविद्वांसोऽबुधा जनाः ॥ ११ ॥

पदच्छेद

अनन्दाःanandāḥनामnāmaतेteलोकाःlokāḥअन्धेनandhenaतमसाtamasāआवृताःāvṛtāḥतान्tānतेteप्रेत्यpretyaअभिगच्छन्तिabhigacchantiअविद्वांसःavidvāṃsaḥअबुधाःabudhāḥजनाःjanāḥ

अन्वय

ते लोकाः अनन्दाः नाम [सन्ति], अन्धेन तमसा आवृताः [सन्ति] । ते अविद्वांसः अबुधाः जनाः प्रेत्य तान् अभिगच्छति [अभिगच्छन्ति इत्यर्थः] ।

Passage 25.12

आत्मानं चेद्विजानीयादयमस्मीति पुरुषः । किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ १२ ॥

पदच्छेद

आत्मानम्ātmānamचेत्cetविजानीयात्vijānīyātअयम्ayamअस्मिasmiइतिitiपुरुषःpuruṣaḥकिम्kimइच्छन्icchanकस्यkasyaकामायkāmāyaशरीरम्śarīramअनुanuसञ्ज्वरेत्sañjvaret

अन्वय

पुरुषः अयम् अस्मि इति आत्मानम् चेत् विजानीयात्, [सः] किम् इच्छन् कस्य कामाय शरीरम् अनु संज्वरेत् ।

Passage 25.13

यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन् संदेह्ये गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥

पदच्छेद

यस्यyasyaअनुवित्तःanuvittaḥप्रतिबुद्धःpratibuddhaḥआत्माātmāअस्मिन्asminसन्देह्येsandehyeगहनेgahaneप्रविष्टःpraviṣṭaḥसःsaḥविश्वकृत्viśvakṛtसःsaḥहिhiसर्वस्यsarvasyaकर्ताkartāतस्यtasyaलोकःlokaḥसःsaḥउuलोकःlokaḥएवeva

Passage 25.14

इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥

पदच्छेद

इहihaएवevaसन्तःsantaḥअथathaविद्मःvidmaḥतत्tatवयम्vayamनnaचेत्cetअवेदिःavediḥमहतीmahatīविनष्टिःvinaṣṭiḥयेyeतत्tatविदुःviduḥअमृताःamṛtāḥतेteभवन्तिbhavantiअथathaइतरेitareदुःखम्duḥkhamएवevaअपियन्तिapiyanti

अन्वय

अथ वयम् इह एव सन्तः तत् विद्मः । [तत्] न चेत् [विदितवन्तः वयम्, ततः अहम्] अवेदिः [स्याम्]; [अवेदिः चेत् स्याम्,] महती विनष्टिः [स्यात्] । ये तत् विदुः, ते अमृताः भवन्ति; अथ इतरे दुःखम् एव अपियन्ति ।

Passage 25.15

यदैतमनुपश्यत्यत्मानं देवमङ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥

पदच्छेद

यदाyadāएतम्etamअनुपश्यतिanupaśyatiआत्मानम्ātmānamदेवम्devamअञ्जसाañjasāईशानम्īśānamभूतभव्यस्यbhūtabhavyasyaनnaततःtataḥविजुगुप्सतेvijugupsate

Passage 25.16

यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥

पदच्छेद

यस्मात्yasmātअर्वाक्arvākसंवत्सरःsaṃvatsaraḥअहोभिःahobhiḥपरिवर्ततेparivartateतत्tatदेवाःdevāḥज्योतिषाम्jyotiṣāmज्योतिःjyotiḥआयुःāyuḥहhaउपासतेupāsateअमृतम्amṛtam

अन्वय

यस्मात् अर्वाक् संवत्सरः अहोभिः परिवर्तते, देवाः तत् ज्योतिषाम् ज्योतिः अमृतम् आयुः ह उपासते ।

Passage 25.17

यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ १७ ॥

पदच्छेद

यस्मिन्yasminपञ्चpañcaपञ्चजनाःpañcajanāḥआकाशःākāśaḥचcaप्रतिष्ठितःpratiṣṭhitaḥतम्tamएवevaमन्येmanyeआत्मानम्ātmānamविद्वान्vidvānब्रह्मbrahmaअमृतःamṛtaḥअमृतम्amṛtam

अन्वय

यस्मिन् पञ्च पञ्चजनाः [प्रतिष्ठिताः सन्ति], आकाशः च प्रतिष्ठितः [अस्ति], तम् एव अमृतम् ब्रह्म आत्मानम् [अहम्] विद्वान् अमृतः [सन्] मन्ये ।

Passage 25.18

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥

पदच्छेद

प्राणस्यprāṇasyaप्राणम्prāṇamउतutaचक्षुषःcakṣuṣaḥचक्षुःcakṣuḥउतutaश्रोत्रस्यśrotrasyaश्रोत्रम्śrotramमनसःmanasaḥयेyeमनःmanaḥविदुःviduḥतेteनिचिक्युःnicikyuḥब्रह्मbrahmaपुराणम्purāṇamअग्र्यम्agryam

अन्वय

ये प्राणस्य प्राणम्, उत चक्षुषः चक्षुः, उत श्रोत्रस्य श्रोत्रम्, मनसः मनः विदुः, ते पुराणम् अग्र्यम् ब्रह्म निचिक्युः ।

Passage 25.19

मनसैवानुद्रष्टव्यं नेह नानास्ति किं चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति। ॥ १९ ॥

पदच्छेद

मनसाmanasāएवevaअनुद्रष्टव्यम्anudraṣṭavyamनnaइहihaनानाnānāअस्तिastiकिम्kimचनcanaमृत्योःmṛtyoḥसःsaḥमृत्युम्mṛtyumआप्नोतिāpnotiयःyaḥइहihaनानाnānāइवivaपश्यतिpaśyati

अन्वय

[तत्] मनसा एव अनुद्रष्टव्यम् । इह नाना किञ्चन न अस्ति । यः इह नाना इव पश्यति, सः मृत्योः मृत्युम् आप्नोति ।

Passage 25.20

एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ २० ॥

पदच्छेद

एकधाekadhāएवevaअनुद्रष्टव्यम्anudraṣṭavyamएतत्etatअप्रमयम्apramayamध्रुवम्dhruvamविरजःvirajaḥपरःparaḥआकाशात्ākāśātअजःajaḥआत्माātmāमहान्mahānध्रुवःdhruvaḥ

Passage 25.21

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनं हि तदिति ॥ २१ ॥

पदच्छेद

तम्tamएवevaधीरःdhīraḥविज्ञायvijñāyaप्रज्ञाम्prajñāmकुर्वीतkurvītaब्राह्मणःbrāhmaṇaḥनnaअनुध्यायात्anudhyāyātबहून्bahūnशब्दान्śabdānवाचःvācaḥविग्लापनम्viglāpanamहिhiतत्tatइतिiti

अन्वय

धीरः ब्राह्मणः तम् एव विज्ञाय प्रज्ञाम् कुर्वीत; बहून् शब्दान् न अनुध्यायात्; तत् हि वाचः विग्लापनम् [अस्ति] इति ।

Passage 25.22

स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु । य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते । सर्वस्य वशी । सर्वस्येशानः । सर्वस्याधिपतिः । स न साधुना कर्मणा भूयान् । नो एवासाधुना कनीयान् । एष सर्वेश्वरः । एष भूताधिपतिः । एष भूतपालः । एष सेतुर्विधरण एषां लोकानामसंभेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । एतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते । किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । एतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः । ॥ २२ ॥

पदच्छेद

सःsaḥवैvaiएषःeṣaḥमहान्mahānअजःajaḥआत्माātmāयःyaḥअयम्ayamविज्ञानमयःvijñānamayaḥप्राणेषुprāṇeṣuयःyaḥएषःeṣaḥअन्तःantaḥहृदयेhṛdayeआकाशःākāśaḥतस्मिन्tasminशेतेśeteसर्वस्यsarvasyaवशीvaśīसर्वस्यsarvasyaईशानःīśānaḥसर्वस्यsarvasyaअधिपतिःadhipatiḥसःsaḥनnaसाधुनाsādhunāकर्मणाkarmaṇāभूयान्bhūyānनnaउuएवevaअसाधुनाasādhunāकनीयान्kanīyānएषःeṣaḥसर्वेश्वरःsarveśvaraḥएषःeṣaḥभूताधिपतिःbhūtādhipatiḥएषःeṣaḥभूतपालःbhūtapālaḥएषःeṣaḥसेतुःsetuḥविधरणःvidharaṇaḥएषाम्eṣāmलोकानाम्lokānāmअसम्भेदायasambhedāyaतम्tamएतम्etamवेदानुवचनेनvedānuvacanenaब्राह्मणाःbrāhmaṇāḥविविदिषन्तिvividiṣantiयज्ञेनyajñenaदानेनdānenaतपसाtapasāअनाशकेनanāśakenaएतम्etamएवevaविदित्वाviditvāमुनिःmuniḥभवतिbhavatiएतम्etamएवevaप्रव्राजिनःpravrājinaḥलोकम्lokamइच्छन्तःicchantaḥप्रव्रजन्तिpravrajantiएतत्etatहhaस्मsmaवैvaiतत्tatपूर्वेpūrveविद्वांसःvidvāṃsaḥप्रजाम्prajāmनnaकामयन्तेkāmayanteकिम्kimप्रजयाprajayāकरिष्यामःkariṣyāmaḥयेषाम्yeṣāmनःnaḥअयम्ayamआत्माātmāअयम्ayamलोकःlokaḥइतिitiतेteहhaस्मsmaपुत्रैषणायाःputraiṣaṇāyāḥचcaवित्तैषणायाःvittaiṣaṇāyāḥचcaलोकैषणायाःlokaiṣaṇāyāḥचcaव्युत्थायvyutthāyaअथathaभिक्षाचर्यम्bhikṣācaryamचरन्तिcarantiयाyāहिhiएवevaपुत्रैषणाputraiṣaṇāसाsāवित्तैषणाvittaiṣaṇāयाyāवित्तैषणाvittaiṣaṇāसाsāलोकैषणाlokaiṣaṇāउभेubheहिhiएतेeteएषणेeṣaṇeएवevaभवतःbhavataḥसःsaḥएषःeṣaḥनnaइतिitiनnaइतिitiआत्माātmāअगृह्यःagṛhyaḥनnaहिhiगृह्यतेgṛhyateअशीर्यःaśīryaḥनnaहिhiशीर्यतेśīryateअसङ्गःasaṅgaḥनnaहिhiसज्यतेsajyateअसितःasitaḥनnaव्यथतेvyathateनnaरिष्यतिriṣyatiएतम्etamउuहhaएवevaएतेeteनnaतरतःtarataḥइतिitiअतःataḥपापम्pāpamअकरवम्akaravamइतिitiअतःataḥकल्याणम्kalyāṇamअकरवम्akaravamइतिitiउभेubheउuहhaएवevaएषःeṣaḥएतेeteतरतिtaratiनnaएनम्enamकृताकृतेkṛtākṛteतपतःtapataḥ

अन्वय

यः अयम् प्राणेषु विज्ञानमयः [अस्ति], सः वा एषः महान् अजः आत्मा [अस्ति] । यः एषः अन्तर्हृदये आकाशः [अस्ति], तस्मिन् [सः] शेते । [सः] सर्वस्य वशी, सर्वस्य ईशानः, सर्वस्य अधिपतिः [अस्ति] । सः साधुना कर्मणा भूयान् न [भवति], नो एव असाधुना [कर्मणा] कनीयान् [भवति] । एषः सर्वेश्वरः [अस्ति], एषः भूताधिपतिः [अस्ति], एषः भूतपालः [अस्ति]; एषः एषाम् लोकानाम् असम्भेदाय विधरणः सेतुः [अस्ति] । ब्राह्मणाः तम् एतम् वेदानुवचनेन यज्ञेन दानेन अनाशकेन तपसा विविदिषन्ति । एतम् एव विदित्वा [सः] मुनिः भवति । प्रव्राजिनः एतम् एव लोकम् इच्छन्तः प्रव्रजन्ति । एतत् ह स्म वै तत् [पारिव्राज्यकारणम्]—पूर्वे विद्वांसः प्रजाम् न कामयन्ते; येषाम् नः अयम् आत्मा अयम् लोकः [अस्ति], [ते वयम्] प्रजया किम् करिष्यामः इति । ते ह स्म पुत्रैषणायाः च वित्तैषणायाः च लोकैषणायाः च व्युत्थाय अथ भिक्षाचर्यम् चरन्ति । या हि एव पुत्रैषणा, सा वित्तैषणा [अस्ति]; या वित्तैषणा, सा लोकैषणा [अस्ति]; एते उभे हि एषणे एव भवतः । सः एषः न इति न इति आत्मा [अस्ति]; अगृह्यः [अस्ति], हि न गृह्यते; अशीर्यः [अस्ति], हि न शीर्यते; असङ्गः [अस्ति], हि न सज्यते; असितः [अस्ति], न व्यथते, न रिष्यति । एते एतम् उ ह एव न तरतः इति—अतः पापम् अकरवम् इति, अतः कल्याणम् अकरवम् इति [एते चिन्ते] । एषः उ ह एव एते उभे तरति; कृताकृते एनम् न तपतः ।

Passage 25.23

तदेतदृचाभ्युक्तम् एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति । सर्वमात्मानं पश्यति । नैनं पाप्मा तरति । सर्वं पाप्मानं तरति । नैनं पाप्मा तपति । सर्वं पाप्मानं तपति । विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति । एष ब्रह्मलोकः सम्राट् । एनं प्रापितोऽसीति होवाच याज्ञवल्क्यः । सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ २३ ॥

पदच्छेद

तत्tatएतत्etatऋचाṛcāअभ्युक्तम्abhyuktamएषःeṣaḥनित्यःnityaḥमहिमाmahimāब्राह्मणस्यbrāhmaṇasyaनnaकर्मणाkarmaṇāवर्धतेvardhateनnaउuकनीयान्kanīyānतस्यtasyaएवevaस्यात्syātपदवित्padavitतम्tamविदित्वाviditvāनnaलिप्यतेlipyateकर्मणाkarmaṇāपापकेनpāpakenaइतिitiतस्मात्tasmātएवंवित्evaṃvitशान्तःśāntaḥदान्तःdāntaḥउपरतःuparataḥतितिक्षुःtitikṣuḥसमाहितःsamāhitaḥभूत्वाbhūtvāआत्मनिātmaniएवevaआत्मानम्ātmānamपश्यतिpaśyatiसर्वम्sarvamआत्मानम्ātmānamपश्यतिpaśyatiनnaएनम्enamपाप्माpāpmāतरतिtaratiसर्वम्sarvamपाप्मानम्pāpmānamतरतिtaratiनnaएनम्enamपाप्माpāpmāतपतिtapatiसर्वम्sarvamपाप्मानम्pāpmānamतपतिtapatiविपापःvipāpaḥविरजःvirajaḥअविचिकित्सःavicikitsaḥब्राह्मणःbrāhmaṇaḥभवतिbhavatiएषःeṣaḥब्रह्मलोकःbrahmalokaḥसम्राट्samrāṭएनम्enamप्रापितःprāpitaḥअसिasiइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥसःsaḥअहम्ahamभगवतेbhagavateविदेहान्videhānददामिdadāmiमाम्māmचcaअपिapiसहsahaदास्यायdāsyāyaइतिiti

अन्वय

तत् एतत् ऋचा अभ्युक्तम्—एषः ब्राह्मणस्य नित्यः महिमा [अस्ति]; कर्मणा न वर्धते, नो कनीयान् [भवति]; तस्य एव पदवित् स्यात्; तम् विदित्वा पापकेन कर्मणा न लिप्यते इति । तस्मात् एवम्वित् शान्तः दान्तः उपरतः तितिक्षुः समाहितः भूत्वा आत्मनि एव आत्मानम् पश्यति; सर्वम् आत्मानम् पश्यति । पाप्मा एनम् न तरति; [सः] सर्वम् पाप्मानम् तरति । पाप्मा एनम् न तपति; [सः] सर्वम् पाप्मानम् तपति । [सः] विपापः विरजः अविचिकित्सः ब्राह्मणः भवति । सम्राट्, एषः ब्रह्मलोकः [अस्ति]; [त्वम्] एनम् प्रापितः असि इति याज्ञवल्क्यः ह उवाच । सः अहम् भगवते विदेहान् ददामि, माम् च अपि सह दास्याय इति [जनकः उवाच] ।

Passage 25.24

स वा एष महानज आत्मान्नादो वसुदानः । विन्दते वसु य एवं वेद ॥ २४ ॥

पदच्छेद

सःsaḥवैvaiएषःeṣaḥमहान्mahānअजःajaḥआत्माātmāअन्नादःannādaḥवसुदानःvasudānaḥविन्दतेvindateवसुvasuयःyaḥएवम्evamवेदveda

अन्वय

सः वा एषः महान् अजः आत्मा अन्नादः वसुदानः [अस्ति] । यः एवम् वेद, [सः] वसु विन्दते ।

Passage 25.25

स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म । अभयं वै ब्रह्म । अभयं हि वै ब्रह्म भवति य एवं वेद ॥ २५ ॥

पदच्छेद

सःsaḥवैvaiएषःeṣaḥमहान्mahānअजःajaḥआत्माātmāअजरःajaraḥअमरःamaraḥअमृतःamṛtaḥअभयःabhayaḥब्रह्मbrahmaअभयम्abhayamवैvaiब्रह्मbrahmaअभयम्abhayamहिhiवैvaiब्रह्मbrahmaभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

सः वा एषः महान् अजः आत्मा अजरः अमरः अमृतः अभयः ब्रह्म [अस्ति] । ब्रह्म वै अभयम् [अस्ति] । यः एवम् वेद, [सः] हि वै अभयम् ब्रह्म भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ४

Read the whole section →