Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ४

संस्कृत

Passage 25.22

स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु । य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते । सर्वस्य वशी । सर्वस्येशानः । सर्वस्याधिपतिः । स न साधुना कर्मणा भूयान् । नो एवासाधुना कनीयान् । एष सर्वेश्वरः । एष भूताधिपतिः । एष भूतपालः । एष सेतुर्विधरण एषां लोकानामसंभेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । एतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते । किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । एतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः । ॥ २२ ॥

पदच्छेद

सःsaḥवैvaiएषःeṣaḥमहान्mahānअजःajaḥआत्माātmāयःyaḥअयम्ayamविज्ञानमयःvijñānamayaḥप्राणेषुprāṇeṣuयःyaḥएषःeṣaḥअन्तःantaḥहृदयेhṛdayeआकाशःākāśaḥतस्मिन्tasminशेतेśeteसर्वस्यsarvasyaवशीvaśīसर्वस्यsarvasyaईशानःīśānaḥसर्वस्यsarvasyaअधिपतिःadhipatiḥसःsaḥनnaसाधुनाsādhunāकर्मणाkarmaṇāभूयान्bhūyānनnaउuएवevaअसाधुनाasādhunāकनीयान्kanīyānएषःeṣaḥसर्वेश्वरःsarveśvaraḥएषःeṣaḥभूताधिपतिःbhūtādhipatiḥएषःeṣaḥभूतपालःbhūtapālaḥएषःeṣaḥसेतुःsetuḥविधरणःvidharaṇaḥएषाम्eṣāmलोकानाम्lokānāmअसम्भेदायasambhedāyaतम्tamएतम्etamवेदानुवचनेनvedānuvacanenaब्राह्मणाःbrāhmaṇāḥविविदिषन्तिvividiṣantiयज्ञेनyajñenaदानेनdānenaतपसाtapasāअनाशकेनanāśakenaएतम्etamएवevaविदित्वाviditvāमुनिःmuniḥभवतिbhavatiएतम्etamएवevaप्रव्राजिनःpravrājinaḥलोकम्lokamइच्छन्तःicchantaḥप्रव्रजन्तिpravrajantiएतत्etatहhaस्मsmaवैvaiतत्tatपूर्वेpūrveविद्वांसःvidvāṃsaḥप्रजाम्prajāmनnaकामयन्तेkāmayanteकिम्kimप्रजयाprajayāकरिष्यामःkariṣyāmaḥयेषाम्yeṣāmनःnaḥअयम्ayamआत्माātmāअयम्ayamलोकःlokaḥइतिitiतेteहhaस्मsmaपुत्रैषणायाःputraiṣaṇāyāḥचcaवित्तैषणायाःvittaiṣaṇāyāḥचcaलोकैषणायाःlokaiṣaṇāyāḥचcaव्युत्थायvyutthāyaअथathaभिक्षाचर्यम्bhikṣācaryamचरन्तिcarantiयाyāहिhiएवevaपुत्रैषणाputraiṣaṇāसाsāवित्तैषणाvittaiṣaṇāयाyāवित्तैषणाvittaiṣaṇāसाsāलोकैषणाlokaiṣaṇāउभेubheहिhiएतेeteएषणेeṣaṇeएवevaभवतःbhavataḥसःsaḥएषःeṣaḥनnaइतिitiनnaइतिitiआत्माātmāअगृह्यःagṛhyaḥनnaहिhiगृह्यतेgṛhyateअशीर्यःaśīryaḥनnaहिhiशीर्यतेśīryateअसङ्गःasaṅgaḥनnaहिhiसज्यतेsajyateअसितःasitaḥनnaव्यथतेvyathateनnaरिष्यतिriṣyatiएतम्etamउuहhaएवevaएतेeteनnaतरतःtarataḥइतिitiअतःataḥपापम्pāpamअकरवम्akaravamइतिitiअतःataḥकल्याणम्kalyāṇamअकरवम्akaravamइतिitiउभेubheउuहhaएवevaएषःeṣaḥएतेeteतरतिtaratiनnaएनम्enamकृताकृतेkṛtākṛteतपतःtapataḥ

अन्वय

यः अयम् प्राणेषु विज्ञानमयः [अस्ति], सः वा एषः महान् अजः आत्मा [अस्ति] । यः एषः अन्तर्हृदये आकाशः [अस्ति], तस्मिन् [सः] शेते । [सः] सर्वस्य वशी, सर्वस्य ईशानः, सर्वस्य अधिपतिः [अस्ति] । सः साधुना कर्मणा भूयान् न [भवति], नो एव असाधुना [कर्मणा] कनीयान् [भवति] । एषः सर्वेश्वरः [अस्ति], एषः भूताधिपतिः [अस्ति], एषः भूतपालः [अस्ति]; एषः एषाम् लोकानाम् असम्भेदाय विधरणः सेतुः [अस्ति] । ब्राह्मणाः तम् एतम् वेदानुवचनेन यज्ञेन दानेन अनाशकेन तपसा विविदिषन्ति । एतम् एव विदित्वा [सः] मुनिः भवति । प्रव्राजिनः एतम् एव लोकम् इच्छन्तः प्रव्रजन्ति । एतत् ह स्म वै तत् [पारिव्राज्यकारणम्]—पूर्वे विद्वांसः प्रजाम् न कामयन्ते; येषाम् नः अयम् आत्मा अयम् लोकः [अस्ति], [ते वयम्] प्रजया किम् करिष्यामः इति । ते ह स्म पुत्रैषणायाः च वित्तैषणायाः च लोकैषणायाः च व्युत्थाय अथ भिक्षाचर्यम् चरन्ति । या हि एव पुत्रैषणा, सा वित्तैषणा [अस्ति]; या वित्तैषणा, सा लोकैषणा [अस्ति]; एते उभे हि एषणे एव भवतः । सः एषः न इति न इति आत्मा [अस्ति]; अगृह्यः [अस्ति], हि न गृह्यते; अशीर्यः [अस्ति], हि न शीर्यते; असङ्गः [अस्ति], हि न सज्यते; असितः [अस्ति], न व्यथते, न रिष्यति । एते एतम् उ ह एव न तरतः इति—अतः पापम् अकरवम् इति, अतः कल्याणम् अकरवम् इति [एते चिन्ते] । एषः उ ह एव एते उभे तरति; कृताकृते एनम् न तपतः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ४

Read the whole section →