Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण २

संस्कृत

Passage 44.1

श्वेतकेतुर्वा आरुणेयः पन्चालानां परिषदमाजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद कुमारा३ इति । स भो३ इति प्रतिशुश्राव । अनुशिष्टो न्वसि पित्रेति । ओमिति होवाच ॥ १ ॥

पदच्छेद

श्वेतकेतुःśvetaketuḥवैvaiआरुणेयःāruṇeyaḥपन्चालानाम्pancālānāmपरिषदम्pariṣadamआजगामājagāmaसःsaḥआजगामājagāmaजैवलिम्jaivalimप्रवाहणम्pravāhaṇamपरिचारयमाणम्paricārayamāṇamतम्tamउदीक्ष्यudīkṣyaअभ्युवादabhyuvādaकुमारा३kumārā3इतिitiसःsaḥभो३bho3इतिitiप्रतिशुश्रावpratiśuśrāvaअनुशिष्टःanuśiṣṭaḥनुnuअसिasiपित्राpitrāइतिitiओम्omइतिitiहhaउवाचuvāca

अन्वय

श्वेतकेतुः वै आरुणेयः पन्चालानाम् परिषदम् आजगाम । सः परिचारयमाणम् जैवलिम् प्रवाहणम् आजगाम । [राजा] तम् उदीक्ष्य, कुमारा३ इति अभ्युवाद । सः [श्वेतकेतुः], भो३ इति प्रतिशुश्राव । [राजा], पित्रा अनुशिष्टः नु असि इति [पप्रच्छ] । [श्वेतकेतुः], ओम् इति ह उवाच ।

Passage 44.2

वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच । वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति हैवोवाच । वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न संपूर्यता३ इति । नेति हैवोवाच । वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा । यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । अपि हि न ऋषेर्वचः श्रुतं द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । नाहमत एकं चन वेदेति होवाच ॥ २ ॥

पदच्छेद

वेत्थvetthaयथाyathāइमाःimāḥप्रजाःprajāḥप्रयत्यःprayatyaḥविप्रतिपद्यन्ता३vipratipadyantā3इतिitiनnaइतिitiहhaउवाचuvācaवेत्थvetthaउuयथाyathāइमम्imamलोकम्lokamपुनःpunaḥआपद्यन्ता३āpadyantā3इतिitiनnaइतिitiहhaएवevaउवाचuvācaवेत्थvetthaउuयथाyathāअसौasauलोकःlokaḥएवम्evamबहुभिःbahubhiḥपुनःpunaḥपुनःpunaḥप्रयद्भिःprayadbhiḥनnaसंपूर्यता३saṃpūryatā3इतिitiनnaइतिitiहhaएवevaउवाचuvācaवेत्थvetthaउuयतिथ्याम्yatithyāmआहुत्याम्āhutyāmहुतायाम्hutāyāmआपःāpaḥपुरुषवाचःpuruṣavācaḥभूत्वाbhūtvāसमुत्थायsamutthāyaवदन्ती३vadantī3इतिitiनnaइतिitiहhaएवevaउवाचuvācaवेत्थvetthaउuदेवयानस्यdevayānasyaवाvāपथःpathaḥप्रतिपदम्pratipadamपितृयाणस्यpitṛyāṇasyaवाvāयत्yatकृत्वाkṛtvāदेवयानम्devayānamवाvāपन्थानम्panthānamप्रतिपद्यन्तेpratipadyanteपितृयाणम्pitṛyāṇamवाvāअपिapiहिhiनःnaḥऋषेःṛṣeḥवचःvacaḥश्रुतम्śrutamद्वेdveसृतीsṛtīअशृणवम्aśṛṇavamपितॄणाम्pitṝṇāmअहम्ahamदेवानाम्devānāmउतutaमर्त्यानाम्martyānāmताभ्याम्tābhyāmइदम्idamविश्वम्viśvamएजत्ejatसमेतिsametiयत्yatअन्तराantarāपितरम्pitaramमातरम्mātaramचcaइतिitiनnaअहम्ahamअतःataḥएकम्ekamचनcanaवेदvedaइतिitiहhaउवाचuvāca

अन्वय

[राजा], इमाः प्रजाः प्रयत्यः यथा विप्रतिपद्यन्ता३ इति [किम्] वेत्थ [इति पप्रच्छ] । [श्वेतकेतुः], न इति ह उवाच । [राजा], यथा [इमाः प्रजाः] इमम् लोकम् पुनः आपद्यन्ता३ इति वेत्थ उ [इति पप्रच्छ] । [सः], न इति ह एव उवाच । [राजा], यथा असौ लोकः एवम् बहुभिः पुनः पुनः प्रयद्भिः न सम्पूर्यता३ इति वेत्थ उ [इति पप्रच्छ] । [सः], न इति ह एव उवाच । [राजा], यतिथ्याम् आहुत्याम् हुतायाम् आपः पुरुषवाचः भूत्वा समुत्थाय वदन्ती३ इति वेत्थ उ [इति पप्रच्छ] । [सः], न इति ह एव उवाच । [राजा], देवयानस्य वा पथः प्रतिपदम्, पितृयाणस्य वा [प्रतिपदम्] वेत्थ उ [इति पप्रच्छ]; यत् [कर्म] कृत्वा देवयानम् वा पन्थानम् प्रतिपद्यन्ते, पितृयाणम् वा [प्रतिपद्यन्ते] । अपि हि नः ऋषेः वचः श्रुतम् [अस्ति]—अहम् पितॄणाम् [एकाम्], देवानाम् [अपराम्], उत मर्त्यानाम् [सम्बन्धिन्यौ] द्वे सृती अशृणवम् । यत् पितरम् मातरम् च अन्तरा [अस्ति], इदम् विश्वम् एजत् ताभ्याम् समेति इति । [श्वेतकेतुः], अहम् अतः एकम् चन न वेद इति ह उवाच ।

Passage 44.3

अथैनं वसत्योपमन्त्रयां चक्रे । अनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरम् । तं होवाच इति वाव किल नो भवान् पुरानुशिष्टानवोच इति । कथं सुमेध इति । पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत् । ततो नैकं चन वेदेति । कतमे त इति । इम इति ह प्रतीकान्युदाजहार ॥ ३ ॥

पदच्छेद

अथathaएनम्enamवसत्याvasatyāउपमन्त्रयाम्upamantrayāmचक्रेcakreअनादृत्यanādṛtyaवसतिम्vasatimकुमारःkumāraḥप्रदुद्रावpradudrāvaसःsaḥआजगामājagāmaपितरम्pitaramतम्tamहhaउवाचuvācaइतिitiवावvāvaकिलkilaनःnaḥभवान्bhavānपुराpurāअनुशिष्टान्anuśiṣṭānअवोचःavocaḥइतिitiकथम्kathamसुमेधःsumedhaḥइतिitiपञ्चpañcaमाmāप्रश्नान्praśnānराजन्यबन्धुःrājanyabandhuḥअप्राक्षीत्aprākṣītततःtataḥनnaएकम्ekamचनcanaवेदvedaइतिitiकतमेkatameतेteइतिitiइमेimeइतिitiहhaप्रतीकानिpratīkāniउदाजहारudājahāra

अन्वय

अथ [राजा] एनम् वसत्या उपमन्त्रयाम् चक्रे । कुमारः वसतिम् अनादृत्य प्रदुद्राव । सः पितरम् आजगाम । [सः] तम् ह, इति वाव किल भवान् नः पुरा अनुशिष्टान् अवोचः इति उवाच । [पिता], सुमेधः, कथम् इति [पप्रच्छ] । [पुत्रः], राजन्यबन्धुः मा पञ्च प्रश्नान् अप्राक्षीत्; ततः एकम् चन न वेद इति [उवाच] । [पिता], ते कतमे इति [पप्रच्छ] । [पुत्रः], इमे इति ह प्रतीकानि उदाजहार ।

Passage 44.4

स होवाच तथा नस्त्वं तत जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचम् । प्रेहि तु तत्र । प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । भवानेव गच्छत्विति । स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास । तस्मा आसनमाहृत्योदकमाहारयां चकार । अथ हास्मा अर्घ्यं चकार । तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaतथाtathāनःnaḥत्वम्tvamततtataजानीथाःjānīthāḥयथाyathāयत्yatअहम्ahamकिंचkiṃcaवेदvedaसर्वम्sarvamअहम्ahamतत्tatतुभम्tubhamअवोचम्avocamप्रpraइहिihiतुtuतत्रtatraप्रतीत्यpratītyaब्रह्मचर्यम्brahmacaryamवत्स्यावःvatsyāvaḥइतिitiभवान्bhavānएवevaगच्छतुgacchatuइतिitiसःsaḥआजगामājagāmaगौतमःgautamaḥयत्रyatraप्रवाहणस्यpravāhaṇasyaजैवलेःjaivaleḥआसāsaतस्मैtasmaiआसनम्āsanamआहृत्यāhṛtyaउदकम्udakamआहारयाम्āhārayāmचकारcakāraअथathaहhaअस्मैasmaiअर्घ्यम्arghyamचकारcakāraतम्tamहhaउवाचuvācaवरम्varamभगवतेbhagavateगौतमायgautamāyaदद्मःdadmaḥइतिiti

Passage 44.5

स होवाच प्रतिज्ञतो म एष वरः । यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaप्रतिज्ञतःpratijñataḥमेmeएषःeṣaḥवरःvaraḥयाम्yāmतुtuकुमारस्यkumārasyaअन्तेanteवाचम्vācamअभाषथाःabhāṣathāḥताम्tāmमेmeब्रूहिbrūhiइतिiti

Passage 44.6

स होवाच दैवेषु वै गौतम तद्वरेषु । मानुषाणां ब्रूहीति ॥ ६ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaदैवेषुdaiveṣuवैvaiगौतमgautamaतत्tatवरेषुvareṣuमानुषाणाम्mānuṣāṇāmब्रूहिbrūhiइतिiti

अन्वय

सः [राजा] ह, गौतम, तत् दैवेषु वै वरेषु [अस्ति]; मानुषाणाम् [वराणाम् अन्यतमम्] ब्रूहि इति उवाच ।

Passage 44.7

स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य । मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति । स वै गौतम तीर्थेनेच्छसा इति । उपैम्यहं भवन्तमिति । वाचा ह स्मैव पूर्व उपयन्ति । स होपायनकीर्त्योवास ॥ ७ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaविज्ञायतेvijñāyateहhaअस्तिastiहिरण्यस्यhiraṇyasyaआपात्तम्āpāttamगोअश्वानाम्goaśvānāmदासीनाम्dāsīnāmप्रवाराणाम्pravārāṇāmपरिधानस्यparidhānasyaमाmāनःnaḥभवान्bhavānबहोःbahoḥअनन्तस्यanantasyaअपर्यन्तस्यaparyantasyaअभ्यवदान्यःabhyavadānyaḥभूत्bhūtइतिitiसःsaḥवैvaiगौतमgautamaतीर्थेनtīrthenaइच्छसाःicchasāḥइतिitiउपैमिupaimiअहम्ahamभवन्तम्bhavantamइतिitiवाचाvācāहhaस्मsmaएवevaपूर्वेpūrveउपयन्तिupayantiसःsaḥहhaउपायनकीर्त्याupāyanakīrtyāउवासuvāsa

Passage 44.8

स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहाः । यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मन उवास । तां त्वहं तुभ्यं वक्ष्यामि । को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaतथाtathāनःnaḥत्वम्tvamगौतमgautamaमाmāअपराधाःaparādhāḥतवtavaचcaपितामहाःpitāmahāḥयथाyathāइयम्iyamविद्याvidyāइतःitaḥपूर्वम्pūrvamनnaकस्मिंश्चनkasmiṃścanaब्राह्मनbrāhmanaउवासuvāsaताम्tāmतुtuअहम्ahamतुभ्यम्tubhyamवक्ष्यामिvakṣyāmiकःkaḥहिhiत्वाtvāएवम्evamब्रुवन्तम्bruvantamअर्हतिarhatiप्रत्याख्यातुम्pratyākhyātumइतिiti

Passage 44.9

असौ वै लोकोऽग्निर्गौतम । तस्यादित्य एव समित् । रश्मयो धूमः । अहरर्चिः । दिशोऽङ्गाराः । अवान्तरदिशो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुत्यै सोमो राजा संभवति ॥ ९ ॥

पदच्छेद

असौasauवैvaiलोकःlokaḥअग्निःagniḥगौतमgautamaतस्यtasyaआदित्यःādityaḥएवevaसमित्samitरश्मयःraśmayaḥधूमःdhūmaḥअहःahaḥअर्चिःarciḥदिशःdiśaḥअङ्गाराःaṅgārāḥअवान्तरदिशःavāntaradiśaḥविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥश्रद्धाम्śraddhāmजुह्वतिjuhvatiतस्याःtasyāḥआहुत्यैāhutyaiसोमःsomaḥराजाrājāसंभवतिsaṃbhavati

अन्वय

गौतम, असौ लोकः वै अग्निः [अस्ति] । तस्य आदित्यः एव समित् [अस्ति]; रश्मयः धूमः [सन्ति]; अहः अर्चिः [अस्ति]; दिशः अङ्गाराः [सन्ति]; अवान्तरदिशः विष्फुलिङ्गाः [सन्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः श्रद्धाम् जुह्वति; तस्याः आहुत्यै सोमः राजा सम्भवति ।

Passage 44.10

पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समित् । अभ्राणि धूमः । विद्युदर्चिः । अशनिरङ्गाराः । ह्रादुनयो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुत्यै वृष्टिः संभवति ॥ १० ॥

पदच्छेद

पर्जन्यःparjanyaḥवैvaiअग्निःagniḥगौतमgautamaतस्यtasyaसंवत्सरःsaṃvatsaraḥएवevaसमित्samitअभ्राणिabhrāṇiधूमःdhūmaḥविद्युत्vidyutअर्चिःarciḥअशनिःaśaniḥअङ्गाराःaṅgārāḥह्रादुनयःhrādunayaḥविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥसोमम्somamराजानम्rājānamजुह्वतिjuhvatiतस्याःtasyāḥआहुत्यैāhutyaiवृष्टिःvṛṣṭiḥसंभवतिsaṃbhavati

अन्वय

गौतम, पर्जन्यः वा अग्निः [अस्ति] । तस्य संवत्सरः एव समित् [अस्ति]; अभ्राणि धूमः [सन्ति]; विद्युत् अर्चिः [अस्ति]; अशनिः अङ्गाराः [अस्ति]; ह्रादुनयः विष्फुलिङ्गाः [सन्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः सोमम् राजानम् जुह्वति; तस्याः आहुत्यै वृष्टिः सम्भवति ।

Passage 44.11

अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समित् । अग्निर्धूमः । रात्रिरर्चिः । चन्द्रमा अङ्गाराः । नक्षत्राणि विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति । तस्या आहुत्या अन्नं संभवति ॥ ११ ॥

पदच्छेद

अयम्ayamवैvaiलोकःlokaḥअग्निःagniḥगौतमgautamaतस्यtasyaपृथिवीpṛthivīएवevaसमित्samitअग्निःagniḥधूमःdhūmaḥरात्रिःrātriḥअर्चिःarciḥचन्द्रमाःcandramāḥअङ्गाराःaṅgārāḥनक्षत्राणिnakṣatrāṇiविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥवृष्टिम्vṛṣṭimजुह्वतिjuhvatiतस्याःtasyāḥआहुत्याःāhutyāḥअन्नम्annamसंभवतिsaṃbhavati

अन्वय

गौतम, अयम् लोकः वै अग्निः [अस्ति] । तस्य पृथिवी एव समित् [अस्ति]; अग्निः धूमः [अस्ति]; रात्रिः अर्चिः [अस्ति]; चन्द्रमाः अङ्गाराः [अस्ति]; नक्षत्राणि विष्फुलिङ्गाः [सन्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः वृष्टिम् जुह्वति; तस्याः आहुत्याः अन्नम् सम्भवति ।

Passage 44.12

पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित् । प्राणो धूमः । वागर्चिः । चक्षुरङ्गाराः । श्रोत्रं विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति । तस्या आहुत्यै रेतः संभवति ॥ १२ ॥

पदच्छेद

पुरुषःpuruṣaḥवैvaiअग्निःagniḥगौतमgautamaतस्यtasyaव्यात्तम्vyāttamएवevaसमित्samitप्राणःprāṇaḥधूमःdhūmaḥवाक्vākअर्चिःarciḥचक्षुःcakṣuḥअङ्गाराःaṅgārāḥश्रोत्रम्śrotramविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥअन्नम्annamजुह्वतिjuhvatiतस्याःtasyāḥआहुत्यैāhutyaiरेतःretaḥसंभवतिsaṃbhavati

अन्वय

गौतम, पुरुषः वा अग्निः [अस्ति] । तस्य व्यात्तम् एव समित् [अस्ति]; प्राणः धूमः [अस्ति]; वाक् अर्चिः [अस्ति]; चक्षुः अङ्गाराः [अस्ति]; श्रोत्रम् विष्फुलिङ्गाः [अस्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः अन्नम् जुह्वति; तस्याः आहुत्यै रेतः सम्भवति ।

Passage 44.13

योषा वा अग्निर्गौतम । तस्या उपस्थ एव समित् । लोमानि धूमः । योनिरर्चिः । यदन्तः करोति तेऽङ्गाराः । अभिनन्दा विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुत्यै पुरुषः संभवति । स जीवति यावज्जीवति । अथ यदा म्रियते ॥ १३ ॥

पदच्छेद

योषाyoṣāवैvaiअग्निःagniḥगौतमgautamaतस्याःtasyāḥउपस्थःupasthaḥएवevaसमित्samitलोमानिlomāniधूमःdhūmaḥयोनिःyoniḥअर्चिःarciḥयत्yatअन्तःantaḥकरोतिkarotiतेteअङ्गाराःaṅgārāḥअभिनन्दाःabhinandāḥविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥरेतःretaḥजुह्वतिjuhvatiतस्याःtasyāḥआहुत्यैāhutyaiपुरुषःpuruṣaḥसंभवतिsaṃbhavatiसःsaḥजीवतिjīvatiयावत्yāvatजीवतिjīvatiअथathaयदाyadāम्रियतेmriyate

अन्वय

गौतम, योषा वा अग्निः [अस्ति] । तस्याः उपस्थः एव समित् [अस्ति]; लोमानि धूमः [सन्ति]; योनिः अर्चिः [अस्ति]; यत् अन्तः करोति, ते अङ्गाराः [सन्ति]; अभिनन्दाः विष्फुलिङ्गाः [सन्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः रेतः जुह्वति; तस्याः आहुत्यै पुरुषः सम्भवति । सः यावत् जीवति [तावत्] जीवति; अथ यदा म्रियते [तदा उत्तरत्र उक्तम् भवति] ।

Passage 44.14

अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति । समित्समित् । धूमो धूमः । अर्चिरर्चिः । अङ्गारा अङ्गाराः । विष्फुलिङ्गा विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति । तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ १४ ॥

पदच्छेद

अथathaएनम्enamअग्नयेagnayeहरन्तिharantiतस्यtasyaअग्निःagniḥएवevaअग्निःagniḥभवतिbhavatiसमित्samitसमित्samitधूमःdhūmaḥधूमःdhūmaḥअर्चिःarciḥअर्चिःarciḥअङ्गाराःaṅgārāḥअङ्गाराःaṅgārāḥविष्फुलिङ्गाःviṣphuliṅgāḥविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥपुरुषम्puruṣamजुह्वतिjuhvatiतस्याःtasyāḥआहुत्यैāhutyaiपुरुषःpuruṣaḥभास्वरवर्णःbhāsvaravarṇaḥसंभवतिsaṃbhavati

अन्वय

अथ एनम् [मृतम्] अग्नये हरन्ति । तस्य अग्निः एव अग्निः भवति; समित् समित् [भवति]; धूमः धूमः [भवति]; अर्चिः अर्चिः [भवति]; अङ्गाराः अङ्गाराः [भवन्ति]; विष्फुलिङ्गाः विष्फुलिङ्गाः [भवन्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः पुरुषम् जुह्वति; तस्याः आहुत्यै भास्वरवर्णः पुरुषः सम्भवति ।

Passage 44.15

ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्ति । अर्चिषोऽहः । अह्न आपूर्यमाणपक्षम् । आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति । मासेभ्यो देवलोकम् । देवलोकादादित्यम् । आदित्याद्वैद्युतम् । तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । तेषां न पुनरावृत्तिः ॥ १५ ॥

पदच्छेद

तेteयेyeएवम्evamएतत्etatविदुःviduḥयेyeचcaअमीamīअरण्येaraṇyeश्रद्धाम्śraddhāmसत्यम्satyamउपासतेupāsateतेteअर्चिःarciḥअभिसंभवन्तिabhisaṃbhavantiअर्चिषःarciṣaḥअहःahaḥअह्नःahnaḥआपूर्यमाणपक्षम्āpūryamāṇapakṣamआपूर्यमाणपक्षात्āpūryamāṇapakṣātयान्yānषण्मासान्ṣaṇmāsānउदङ्udaṅआदित्यःādityaḥएतिetiमासेभ्यःmāsebhyaḥदेवलोकम्devalokamदेवलोकात्devalokātआदित्यम्ādityamआदित्यात्ādityātवैद्युतम्vaidyutamतान्tānवैद्युतान्vaidyutānपुरुषःpuruṣaḥमानसःmānasaḥएत्यetyaब्रह्मलोकान्brahmalokānगमयतिgamayatiतेteतेषुteṣuब्रह्मलोकेषुbrahmalokeṣuपराःparāḥपरावतःparāvataḥवसन्तिvasantiतेषाम्teṣāmनnaपुनरावृत्तिःpunarāvṛttiḥ

अन्वय

ते ये एवम् एतत् विदुः, ये च अमी अरण्ये श्रद्धाम् [आस्थाय] सत्यम् उपासते, ते अर्चिः अभिसम्भवन्ति । अर्चिषः अहः [अभिसम्भवन्ति]; अह्नः आपूर्यमाणपक्षम् [अभिसम्भवन्ति]; आपूर्यमाणपक्षात् यान् षण्मासान् आदित्यः उदङ् एति, [तान् अभिसम्भवन्ति]; मासेभ्यः देवलोकम् [अभिसम्भवन्ति]; देवलोकात् आदित्यम् [अभिसम्भवन्ति]; आदित्यात् वैद्युतम् [अभिसम्भवन्ति] । मानसः पुरुषः एत्य तान् वैद्युतान् ब्रह्मलोकान् गमयति । ते पराः [सन्तः] तेषु ब्रह्मलोकेषु परावतः [संवत्सरान्] वसन्ति; तेषाम् पुनरावृत्तिः न [अस्ति] ।

Passage 44.16

अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति । धूमाद्रात्रिम् । रात्रेरपक्षीयमाणपक्षम् । अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति । मासेभ्यः पितृलोकम् । पितृलोकाच्चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति । तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति । तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते । आकाशाद्वायुम् । वायोर्वृष्टिम् । वृष्टेः पृथिवीम् । ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते । लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ १६ ॥

पदच्छेद

अथathaयेyeयज्ञेनyajñenaदानेनdānenaतपसाtapasāलोकान्lokānजयन्तिjayantiतेteधूमम्dhūmamअभिसंभवन्तिabhisaṃbhavantiधूमात्dhūmātरात्रिम्rātrimरात्रेःrātreḥअपक्षीयमाणपक्षम्apakṣīyamāṇapakṣamअपक्षीयमाणपक्षात्apakṣīyamāṇapakṣātयान्yānषण्मासान्ṣaṇmāsānदक्षिणाdakṣiṇāआदित्यःādityaḥएतिetiमासेभ्यःmāsebhyaḥपितृलोकम्pitṛlokamपितृलोकात्pitṛlokātचन्द्रम्candramतेteचन्द्रम्candramप्राप्यprāpyaअन्नम्annamभवन्तिbhavantiतान्tānतत्रtatraदेवाःdevāḥयथाyathāसोमम्somamराजानम्rājānamआप्यायस्वāpyāyasvaअपक्षीयस्वapakṣīyasvaइतिitiएवम्evamएनान्enānतत्रtatraभक्षयन्तिbhakṣayantiतेषाम्teṣāmयदाyadāतत्tatपर्यवैतिparyavaitiअथathaइमम्imamएवevaआकाशम्ākāśamअभिनिष्पद्यन्तेabhiniṣpadyanteआकाशात्ākāśātवायुम्vāyumवायोःvāyoḥवृष्टिम्vṛṣṭimवृष्टेःvṛṣṭeḥपृथिवीम्pṛthivīmतेteपृथिवीम्pṛthivīmप्राप्यprāpyaअन्नम्annamभवन्तिbhavantiतेteपुनःpunaḥपुरुषाग्नौpuruṣāgnauहूयन्तेhūyanteततःtataḥयोषाग्नौyoṣāgnauजायन्तेjāyanteलोकान्lokānप्रत्युथायिनःpratyuthāyinaḥतेteएवम्evamएवevaअनुपरिवर्तन्तेanuparivartanteअथathaयेyeएतौetauपन्थानौpanthānauनnaविदुःviduḥतेteकीटाःkīṭāḥपतङ्गाःpataṅgāḥयत्yatइदम्idamदन्दशूकम्dandaśūkam

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण २

Read the whole section →