Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ६

संस्कृत

Passage 18.1

अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच । यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति । अन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु खल्वन्तरिक्षलोका ओतश्च प्रोतश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति । अदित्यलोकेषु गार्गीति । कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति । कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति । इन्द्रलोकेषु गार्गीति । कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । स होवाच गार्गि मातिप्राक्षीः । मा ते मूर्धा व्यपप्तत् । अनतिप्रश्न्यां वै देवतामतिपृच्छसि । गार्गि मातिप्राक्षीरिति । ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamगार्गीgārgīवाचक्नवीvācaknavīपप्रच्छpapracchaयाज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्yatइदम्idamसर्वम्sarvamअप्सुapsuओतम्otamचcaप्रोतम्protamचcaकस्मिन्kasminनुnuखलुkhaluआपःāpaḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiवायौvāyauगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluवायुःvāyuḥओतःotaḥचcaप्रोतःprotaḥचcaइतिitiअन्तरिक्षलोकेषुantarikṣalokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluअन्तरिक्षलोकाःantarikṣalokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiगन्धर्वलोकेषुgandharvalokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluगन्धर्वलोकाःgandharvalokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiआदित्यलोकेषुādityalokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluआदित्यलोकाःādityalokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiचन्द्रलोकेषुcandralokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluचन्द्रलोकाःcandralokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiनक्षत्रलोकेषुnakṣatralokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluनक्षत्रलोकाःnakṣatralokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiदेवलोकेषुdevalokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluदेवलोकाःdevalokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiइन्द्रलोकेषुindralokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluइन्द्रलोकाःindralokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiप्रजापतिलोकेषुprajāpatilokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluप्रजापतिलोकाःprajāpatilokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiब्रह्मलोकेषुbrahmalokeṣuगार्गिgārgiइतिitiकस्मिन्kasminनुnuखलुkhaluब्रह्मलोकाःbrahmalokāḥओताःotāḥचcaप्रोताःprotāḥचcaइतिitiसःsaḥहhaउवाचuvācaगार्गिgārgiमाmāअतिप्राक्षीःatiprākṣīḥमाmāतेteमूर्धाmūrdhāव्यपप्तत्vyapaptatअनतिप्रश्न्याम्anatipraśnyāmवैvaiदेवताम्devatāmअतिपृच्छसिatipṛcchasiगार्गिgārgiमाmāअतिप्राक्षीःatiprākṣīḥइतिitiततःtataḥहhaगार्गीgārgīवाचक्नवीvācaknavīउपररामupararāma

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ६

Read the whole section →