Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण १५

संस्कृत

Passage 42.1

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये । पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर । अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ १ ॥

पदच्छेद

हिरण्मयेनhiraṇmayenaपात्रेणpātreṇaसत्यस्यsatyasyaअपिहितम्apihitamमुखम्mukhamतत्tatत्वम्tvamपूषन्pūṣanअपावृणुapāvṛṇuसत्यधर्मायsatyadharmāyaदृष्टयेdṛṣṭayeपूषन्pūṣanएकर्षेekarṣeयमyamaसूर्यsūryaप्राजापत्यprājāpatyaविviऊहūhaरश्मीन्raśmīnसम्samऊहūhaतेजःtejaḥयत्yatतेteरूपम्rūpamकल्याणतमम्kalyāṇatamamतत्tatतेteपश्यामिpaśyāmiयःyaḥअसौasauअसौasauपुरुषःpuruṣaḥसःsaḥअहम्ahamअस्मिasmiवायुःvāyuḥअनिलम्anilamअमृतम्amṛtamअथathaइदम्idamभस्मान्तम्bhasmāntamशरीरम्śarīramओम्omक्रतोkratoस्मरsmaraकृतम्kṛtamस्मरsmaraक्रतोkratoस्मरsmaraकृतम्kṛtamस्मरsmaraअग्नेagneनयnayaसुपथाsupathāरायेrāyeअस्मान्asmānविश्वानिviśvāniदेवdevaवयुनानिvayunāniविद्वान्vidvānयुयोधिyuyodhiअस्मत्asmatजुहुराणम्juhurāṇamएनःenaḥभूयिष्ठाम्bhūyiṣṭhāmतेteनमौक्तिम्namauktimविधेमvidhema

अन्वय

हिरण्मयेन पात्रेण सत्यस्य मुखम् अपिहितम् [अस्ति] । पूषन्, तत् त्वम् सत्यधर्माय दृष्टये अपावृणु । पूषन्, एकर्षे, यम, सूर्य, प्राजापत्य, रश्मीन् व्यूह; तेजः समूह । यत् ते कल्याणतमम् रूपम् [अस्ति], तत् ते पश्यामि । यः असौ असौ पुरुषः [अस्ति], सः अहम् अमृतम् [ब्रह्म] अस्मि । वायुः अनिलम् [प्रतिगच्छतु]; अथ इदम् शरीरम् भस्मान्तम् [भवतु] । ओम्, क्रतो, स्मर; कृतम् स्मर; क्रतो, स्मर; कृतम् स्मर । अग्ने, देव, विश्वानि वयुनानि विद्वान् अस्मान् राये सुपथा नय । अस्मत् जुहुराणम् एनः युयोधि; ते भूयिष्ठाम् नमौक्तिम् विधेम ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण १५

Read the whole section →