Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण ४

संस्कृत

Passage 10.1

मैत्रेयीति होवाच याज्ञवल्क्यः उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि । हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ १ ॥

पदच्छेद

मैत्रेयिmaitreyiइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥउद्यास्यन्udyāsyanवैvaiअरेareअहम्ahamअस्मात्asmātस्थानात्sthānātअस्मिasmiहन्तhantaतेteअनयाanayāकात्यायन्याkātyāyanyāअन्तम्antamकरवाणिkaravāṇiइतिiti

अन्वय

मैत्रेयी इति ह याज्ञवल्क्यः उवाच-अरे, अहम् अस्मात् स्थानात् उद्यास्यन् वा अस्मि । हन्त, ते अनया कात्यायन्या [सह] अन्तम् करवाणि इति ।

Passage 10.2

सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २ ॥

पदच्छेद

साsāहhaउवाचuvācaमैत्रेयीmaitreyīयत्yatनुnuमेmeइयम्iyamभगोःbhagoḥसर्वाsarvāपृथिवीpṛthivīवित्तेनvittenaपूर्णाpūrṇāस्यात्syātकथम्kathamतेनtenaअमृताamṛtāस्याम्syāmइतिitiनnaइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥयथाyathāएवevaउपकरणवताम्upakaraṇavatāmजीवितम्jīvitamतथाtathāएवevaतेteजीवितम्jīvitamस्यात्syātअमृतत्वस्यamṛtatvasyaतुtuनnaआशाāśāअस्तिastiवित्तेनvittenaइतिiti

अन्वय

सा ह मैत्रेयी उवाच-भगोः, यत् नु मे इयम् सर्वा पृथिवी वित्तेन पूर्णा स्यात्, तेन [अहम्] कथम् अमृता स्याम् इति । न इति ह याज्ञवल्क्यः उवाच । यथा एव उपकरणवताम् जीवितम् [अस्ति], तथा एव ते जीवितम् स्यात् । वित्तेन अमृतत्वस्य आशा तु न अस्ति इति ।

Passage 10.3

सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ ३ ॥

पदच्छेद

साsāहhaउवाचuvācaमैत्रेयीmaitreyīयेनyenaअहम्ahamनnaअमृताamṛtāस्याम्syāmकिम्kimअहम्ahamतेनtenaकुर्याम्kuryāmयत्yatएवevaभगवान्bhagavānवेदvedaतत्tatएवevaमेmeब्रूहिbrūhiइतिiti

अन्वय

सा ह मैत्रेयी उवाच-येन अहम् अमृता न स्याम्, अहम् तेन किम् कुर्याम्? यत् एव भगवान् वेद, तत् एव मे ब्रूहि इति ।

Passage 10.4

स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे । एह्यास्स्व । व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥप्रियाpriyāबतbataअरेareनःnaḥसतीsatīप्रियम्priyamभाषसेbhāṣaseएहिehiआस्स्वāssvaव्याख्यास्यामिvyākhyāsyāmiतेteव्याचक्षाणस्यvyācakṣāṇasyaतुtuमेmeनिदिध्यासस्वnididhyāsasvaइतिiti

अन्वय

सः ह याज्ञवल्क्यः उवाच-अरे, नः प्रिया सती बत प्रियम् भाषसे । एहि, आस्स्व । ते व्याख्यास्यामि; व्याचक्षाणस्य तु मे निदिध्यासस्व इति ।

Passage 10.5

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaनnaवैvaiअरेareपत्युःpatyuḥकामायkāmāyaपतिःpatiḥप्रियःpriyaḥभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaपतिःpatiḥप्रियःpriyaḥभवतिbhavatiनnaवैvaiअरेareजायायैjāyāyaiकामायkāmāyaजायाjāyāप्रियाpriyāभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaजायाjāyāप्रियाpriyāभवतिbhavatiनnaवैvaiअरेareपुत्राणाम्putrāṇāmकामायkāmāyaपुत्राःputrāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaपुत्राःputrāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareवित्तस्यvittasyaकामायkāmāyaवित्तम्vittamप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaवित्तम्vittamप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareब्रह्मणःbrahmaṇaḥकामायkāmāyaब्रह्मbrahmaप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaब्रह्मbrahmaप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareक्षत्रस्यkṣatrasyaकामायkāmāyaक्षत्रम्kṣatramप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaक्षत्रम्kṣatramप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareलोकानाम्lokānāmकामायkāmāyaलोकाःlokāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaलोकाःlokāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareदेवानाम्devānāmकामायkāmāyaदेवाःdevāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaदेवाःdevāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareभूतानाम्bhūtānāmकामायkāmāyaभूतानिbhūtāniप्रियाणिpriyāṇiभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaभूतानिbhūtāniप्रियाणिpriyāṇiभवन्तिbhavantiनnaवैvaiअरेareसर्वस्यsarvasyaकामायkāmāyaसर्वम्sarvamप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaसर्वम्sarvamप्रियम्priyamभवतिbhavatiआत्माātmāवैvaiअरेareद्रष्टव्यःdraṣṭavyaḥश्रोतव्यःśrotavyaḥमन्तव्यःmantavyaḥनिदिध्यासितव्यःnididhyāsitavyaḥमैत्रेयिmaitreyiआत्मनःātmanaḥवैvaiअरेareदर्शनेनdarśanenaश्रवणेनśravaṇenaमत्याmatyāविज्ञानेनvijñānenaइदम्idamसर्वम्sarvamविदितम्viditam

अन्वय

सः ह उवाच-अरे, पत्युः कामाय पतिः न वा प्रियः भवति; आत्मनः तु कामाय पतिः प्रियः भवति । अरे, जायायै कामाय जाया न वा प्रिया भवति; आत्मनः तु कामाय जाया प्रिया भवति । अरे, पुत्राणाम् कामाय पुत्राः न वा प्रियाः भवन्ति; आत्मनः तु कामाय पुत्राः प्रियाः भवन्ति । अरे, वित्तस्य कामाय वित्तम् न वा प्रियम् भवति; आत्मनः तु कामाय वित्तम् प्रियम् भवति । अरे, ब्रह्मणः कामाय ब्रह्म न वा प्रियम् भवति; आत्मनः तु कामाय ब्रह्म प्रियम् भवति । अरे, क्षत्रस्य कामाय क्षत्रम् न वा प्रियम् भवति; आत्मनः तु कामाय क्षत्रम् प्रियम् भवति । अरे, लोकानाम् कामाय लोकाः न वा प्रियाः भवन्ति; आत्मनः तु कामाय लोकाः प्रियाः भवन्ति । अरे, देवानाम् कामाय देवाः न वा प्रियाः भवन्ति; आत्मनः तु कामाय देवाः प्रियाः भवन्ति । अरे, भूतानाम् कामाय भूतानि न वा प्रियाणि भवन्ति; आत्मनः तु कामाय भूतानि प्रियाणि भवन्ति । अरे, सर्वस्य कामाय सर्वम् न वा प्रियम् भवति; आत्मनः तु कामाय सर्वम् प्रियम् भवति । मैत्रेयि, अरे, आत्मा वा द्रष्टव्यः श्रोतव्यः मन्तव्यः निदिध्यासितव्यः [अस्ति] । अरे, आत्मनः दर्शनेन श्रवणेन मत्या विज्ञानेन वा इदम् सर्वम् विदितम् [भवति] ।

Passage 10.6

ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद । क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद । देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद । भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ६ ॥

पदच्छेद

ब्रह्मbrahmaतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥब्रह्मbrahmaवेदvedaक्षत्रम्kṣatramतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥक्षत्रम्kṣatramवेदvedaलोकाःlokāḥतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥलोकान्lokānवेदvedaदेवाःdevāḥतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥदेवान्devānवेदvedaभूतानिbhūtāniतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥभूतानिbhūtāniवेदvedaसर्वम्sarvamतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥसर्वम्sarvamवेदvedaइदम्idamब्रह्मbrahmaइदम्idamक्षत्रम्kṣatramइमेimeलोकाःlokāḥइमेimeदेवाःdevāḥइमानिimāniभूतानिbhūtāniइदम्idamसर्वम्sarvamयत्yatअयम्ayamआत्माātmā

अन्वय

यः आत्मनः अन्यत्र ब्रह्म वेद, तम् ब्रह्म परादात् । यः आत्मनः अन्यत्र क्षत्रम् वेद, तम् क्षत्रम् परादात् । यः आत्मनः अन्यत्र लोकान् वेद, तम् लोकाः परादुः । यः आत्मनः अन्यत्र देवान् वेद, तम् देवाः परादुः । यः आत्मनः अन्यत्र भूतानि वेद, तम् भूतानि परादुः । यः आत्मनः अन्यत्र सर्वम् वेद, तम् सर्वम् परादात् । इदम् ब्रह्म, इदम् क्षत्रम्, इमे लोकाः, इमे देवाः, इमानि भूतानि, इदम् सर्वम् [अस्ति] यत् अयम् आत्मा [अस्ति] ।

Passage 10.7

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७ ॥

पदच्छेद

सःsaḥयथाyathāदुन्दुभेःdundubheḥहन्यमानस्यhanyamānasyaनnaबाह्यान्bāhyānशब्दान्śabdānशक्नुयात्śaknuyātग्रहणायgrahaṇāyaदुन्दुभेःdundubheḥतुtuग्रहणेनgrahaṇenaदुन्दुभ्याघातस्यdundubhyāghātasyaवाvāशब्दःśabdaḥगृहीतःgṛhītaḥ

अन्वय

सः यथा हन्यमानस्य दुन्दुभेः बाह्यान् शब्दान् ग्रहणाय न शक्नुयात्; दुन्दुभेः तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दः गृहीतः [भवति] ।

Passage 10.8

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥

पदच्छेद

सःsaḥयथाyathāशङ्खस्यśaṅkhasyaध्मायमानस्यdhmāyamānasyaनnaबाह्यान्bāhyānशब्दान्śabdānशक्नुयात्śaknuyātग्रहणायgrahaṇāyaशङ्खस्यśaṅkhasyaतुtuग्रहणेनgrahaṇenaशङ्खध्मस्यśaṅkhadhmasyaवाvāशब्दःśabdaḥगृहीतःgṛhītaḥ

अन्वय

सः यथा ध्मायमानस्य शङ्खस्य बाह्यान् शब्दान् ग्रहणाय न शक्नुयात्; शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दः गृहीतः [भवति] ।

Passage 10.9

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥

पदच्छेद

सःsaḥयथाyathāवीणायैvīṇāyaiवाद्यमानायैvādyamānāyaiनnaबाह्यान्bāhyānशब्दान्śabdānशक्नुयात्śaknuyātग्रहणायgrahaṇāyaवीणायैvīṇāyaiतुtuग्रहणेनgrahaṇenaवीणावादस्यvīṇāvādasyaवाvāशब्दःśabdaḥगृहीतःgṛhītaḥ

अन्वय

सः यथा वाद्यमानायै वीणायै बाह्यान् शब्दान् ग्रहणाय न शक्नुयात्; वीणायै तु ग्रहणेन वीणावादस्य वा शब्दः गृहीतः [भवति] ।

Passage 10.10

स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि । अस्यैवैतानि निश्वसितानि ॥ १० ॥

पदच्छेद

सःsaḥयथाyathāआर्द्रैधाग्नेःārdraidhāgneḥअभ्याहितात्abhyāhitātपृथक्pṛthakधूमाःdhūmāḥविनिश्चरन्तिviniścarantiएवevaवैvaiअरेareअस्यasyaमहतःmahataḥभूतस्यbhūtasyaनिःश्वसितम्niḥśvasitamएतत्etatयत्yatऋग्वेदःṛgvedaḥयजुर्वेदःyajurvedaḥसामवेदःsāmavedaḥअथर्वाङ्गिरसःatharvāṅgirasaḥइतिहासःitihāsaḥपुराणम्purāṇamविद्याःvidyāḥउपनिषदःupaniṣadaḥश्लोकाःślokāḥसूत्राणिsūtrāṇiअनुव्याख्यानानिanuvyākhyānāniव्याख्यानानिvyākhyānāniअस्यasyaएवevaएतानिetāniनिःश्वसितानिniḥśvasitāni

Passage 10.11

स यथा सर्वासामपां समुद्र एकायनम् । एवं सर्वेषां स्पर्शानां त्वगेकायनम् । एवं सर्वेषां गन्धानां नासिके एकायनम् । एवं सर्वेषां रसानां जिह्वैकायनम् । एवं सर्वेषां रूपाणां चक्षुरेकायनम् । एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् । एवं सर्वेषां संकल्पानां मन एकायनम् । एवं सर्वासां विद्यानां हृदयमेकायनम् । एवं सर्वेषां कर्मणां हस्तावेकायनम् । एवं सर्वेषामानन्दानामुपस्थ एकायनम् । एवं सर्वेषां विसर्गाणां पायुरेकायनम् । एवं सर्वेषामध्वनां पादावेकायनम् । एवं सर्वेषां वेदानां वागेकायनम् ॥ ११ ॥

पदच्छेद

सःsaḥयथाyathāसर्वासाम्sarvāsāmअपाम्apāmसमुद्रःsamudraḥएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmस्पर्शानाम्sparśānāmत्वक्tvakएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmगन्धानाम्gandhānāmनासिकेnāsikeएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmरसानाम्rasānāmजिह्वाjihvāएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmरूपाणाम्rūpāṇāmचक्षुःcakṣuḥएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmशब्दानाम्śabdānāmश्रोत्रम्śrotramएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmसंकल्पानाम्saṃkalpānāmमनःmanaḥएकायनम्ekāyanamएवम्evamसर्वासाम्sarvāsāmविद्यानाम्vidyānāmहृदयम्hṛdayamएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmकर्मणाम्karmaṇāmहस्तौhastauएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmआनन्दानाम्ānandānāmउपस्थःupasthaḥएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmविसर्गाणाम्visargāṇāmपायुःpāyuḥएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmअध्वनाम्adhvanāmपादौpādauएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmवेदानाम्vedānāmवाक्vākएकायनम्ekāyanam

Passage 10.12

स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् । यतोयतस्त्वाददीत लवणम् । एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति । न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि । इति होवाच याज्ञवल्क्यः ॥ १२ ॥

पदच्छेद

सःsaḥयथाyathāसैन्धवखिल्यःsaindhavakhilyaḥउदकेudakeप्रास्तःprāstaḥउदकम्udakamएवevaअनुविलीयेतanuvilīyetaनnaहhaअस्यasyaउद्ग्रहणायudgrahaṇāyaइवivaस्यात्syātयतःyataḥयतःyataḥतुtuआददीतādadītaलवणम्lavaṇamएवम्evamवैvaiअरेareइदम्idamमहत्mahatभूतम्bhūtamअनन्तम्anantamअपारम्apāramविज्ञानघनःvijñānaghanaḥएवevaएतेभ्यःetebhyaḥभूतेभ्यःbhūtebhyaḥसमुत्थायsamutthāyaतानिtāniएवevaअनुविनश्यतिanuvinaśyatiनnaप्रेत्यpretyaसंज्ञाsaṃjñāअस्तिastiइतिitiअरेareब्रवीमिbravīmiइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥ

अन्वय

सः यथा उदके प्रास्तः सैन्धवखिल्यः उदकम् एव अनुविलीयेत, अस्य उद्ग्रहणाय इव न ह [कश्चित् समर्थः] स्यात्; यतः यतः तु आददीत, [ततः ततः] लवणम् [एव स्यात्] । एवम् वा अर, इदम् महत् भूतम् अनन्तम् अपारम् विज्ञानघनः एव [अस्ति] । [विशेषात्मखिल्यभावः] एतेभ्यः भूतेभ्यः समुत्थाय तानि एव अनुविनश्यति । अरे, प्रेत्य [विशेषरूपा] संज्ञा न अस्ति इति ब्रवीमि इति ह याज्ञवल्क्यः उवाच ।

Passage 10.13

सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति । स होवाच न वा अरेऽहं मोहं ब्रवीमि । अलं वा अर इदं विज्ञानाय ॥ १३ ॥

पदच्छेद

साsāहhaउवाचuvācaमैत्रेयीmaitreyīअत्रatraएवevaमाmāभगवान्bhagavānअमूमुहत्amūmuhatनnaप्रेत्यpretyaसंज्ञाsaṃjñāअस्तिastiइतिitiसःsaḥहhaउवाचuvācaनnaवैvaiअरेareअहम्ahamमोहम्mohamब्रवीमिbravīmiअलम्alamवैvaiअरेareइदम्idamविज्ञानायvijñānāya

अन्वय

सा ह मैत्रेयी उवाच-अत्र एव भगवान् मा अमूमुहत्, प्रेत्य संज्ञा न अस्ति इति । सः ह उवाच-अरे, अहम् मोहं न वा ब्रवीमि । अर, इदम् विज्ञानाय अलम् वा [अस्ति] ।

Passage 10.14

यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति । यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयात् । विज्ञातारमरे केन विजानीयादिति ॥ १४ ॥

पदच्छेद

यत्रyatraहिhiद्वैतम्dvaitamइवivaभवतिbhavatiतत्tatइतरःitaraḥइतरम्itaramजिघ्रतिjighratiतत्tatइतरःitaraḥइतरम्itaramपश्यतिpaśyatiतत्tatइतरःitaraḥइतरम्itaramशृणोतिśṛṇotiतत्tatइतरःitaraḥइतरम्itaramअभिवदतिabhivadatiतत्tatइतरःitaraḥइतरम्itaramमनुतेmanuteतत्tatइतरःitaraḥइतरम्itaramविजानातिvijānātiयत्रyatraवाvāअस्यasyaसर्वम्sarvamआत्माātmāएवevaअभूत्abhūtतत्tatकेनkenaकम्kamजिघ्रेत्jighretतत्tatकेनkenaकम्kamपश्येत्paśyetतत्tatकेनkenaकम्kamशृणुयात्śṛṇuyātतत्tatकेनkenaकम्kamअभिवदेत्abhivadetतत्tatकेनkenaकम्kamमन्वीतmanvītaतत्tatकेनkenaकम्kamविजानीयात्vijānīyātयेनyenaइदम्idamसर्वम्sarvamविजानातिvijānātiतम्tamकेनkenaविजानीयात्vijānīyātविज्ञातारम्vijñātāramअरेareकेनkenaविजानीयात्vijānīyātइतिiti

अन्वय

हि यत्र द्वैतम् इव भवति, तत् इतरः इतरम् जिघ्रति, तत् इतरः इतरम् पश्यति, तत् इतरः इतरम् शृणोति, तत् इतरः इतरम् अभिवदति, तत् इतरः इतरम् मनुते, तत् इतरः इतरम् विजानाति । यत्र वा अस्य सर्वम् आत्मा एव अभूत्, तत् केन कम् जिघ्रेत्? तत् केन कम् पश्येत्? तत् केन कम् शृणुयात्? तत् केन कम् अभिवदेत्? तत् केन कम् मन्वीत? तत् केन कम् विजानीयात्? येन इदम् सर्वम् विजानाति, तम् केन विजानीयात्? अरे, विज्ञातारम् केन विजानीयात् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण ४

Read the whole section →