Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.1

यत्सप्तान्नानि मेधया तपसाजनयत्पिता । एकमस्य साधारणं द्वे देवानभाजयत् । त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन । स देवानपिगच्छति स ऊर्जमुपजीवति । इति श्लोकाः ॥ १ ॥

पदच्छेद

यत्yatसप्तsaptaअन्नानिannāniमेधयाmedhayāतपसाtapasāअजनयत्ajanayatपिताpitāएकम्ekamअस्यasyaसाधारणम्sādhāraṇamद्वेdveदेवान्devānअभाजयत्abhājayatत्रीणिtrīṇiआत्मनेātmaneअकुरुतakurutaपशुभ्यःpaśubhyaḥएकम्ekamप्रायच्छत्prāyacchatतस्मिन्tasminसर्वम्sarvamप्रतिष्ठितम्pratiṣṭhitamयत्yatचcaप्राणितिprāṇitiयत्yatचcaनnaकस्मात्kasmātतानिtāniनnaक्षीयन्तेkṣīyanteअद्यमानानिadyamānāniसर्वदाsarvadāयःyaḥवैvaiताम्tāmअक्षितिम्akṣitimवेदvedaसःsaḥअन्नम्annamअत्तिattiप्रतीकेनpratīkenaसःsaḥदेवान्devānअपिगच्छतिapigacchatiसःsaḥऊर्जम्ūrjamउपजीवतिupajīvatiइतिitiश्लोकाःślokāḥ

अन्वय

पिता मेधया तपसा यत् सप्त अन्नानि अजनयत्, [तानि प्रकाशयिष्यामः] । अस्य [भोक्तृसमुदायस्य] एकम् साधारणम् [अकरोत्]; द्वे देवान् अभाजयत् । त्रीणि आत्मने अकुरुत; पशुभ्यः एकम् प्रायच्छत् । यत् च प्राणिति यत् च न [प्राणिति], सर्वम् तस्मिन् [पयसि] प्रतिष्ठितम् [अस्ति] । तानि सर्वदा अद्यमानानि कस्मात् न क्षीयन्ते? यः वै ताम् अक्षितिम् वेद, सः प्रतीकेन अन्नम् अत्ति । सः देवान् अपिगच्छति; सः ऊर्जम् उपजीवति इति श्लोकाः ।

Passage 5.2

यत्सप्तान्नानि मेधया तपसाजनयत्पितेति । मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति । इदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते । मिश्रं ह्येतत् । द्वे देवानभाजयदिति । हुतं च प्रहुतं च । तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति । अथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति । तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति । तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति । अथ वत्सं जातमाहुस्तृणादिति । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति । न तथा विद्यात् । यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् । सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति । पुरुषो वा अक्षितिः । स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति । पुरुषो वा अक्षितिः । स हीदमन्नं धियाधिया जनयते कर्मभिः । यद्धैतन्न कुर्यात्क्षीयेत ह । सोऽन्नमत्ति प्रतीकेनेति । मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥

पदच्छेद

यत्yatसप्तsaptaअन्नानिannāniमेधयाmedhayāतपसाtapasāअजनयत्ajanayatपिताpitāइतिitiमेधयाmedhayāहिhiतपसाtapasāअजनयत्ajanayatपिताpitāएकम्ekamअस्यasyaसाधारणम्sādhāraṇamइतिitiइदम्idamएवevaअस्यasyaतत्tatसाधारणम्sādhāraṇamअन्नम्annamयत्yatइदम्idamअद्यतेadyateसःsaḥयःyaḥएतत्etatउपास्तेupāsteनnaसःsaḥपाप्मनःpāpmanaḥव्यावर्ततेvyāvartateमिश्रम्miśramहिhiएतत्etatद्वेdveदेवान्devānअभाजयत्abhājayatइतिitiहुतम्hutamचcaप्रहुतम्prahutamचcaतस्मात्tasmātदेवेभ्यःdevebhyaḥजुह्वतिjuhvatiचcaप्रpraचcaजुह्वतिjuhvatiअथathaउuआहुःāhuḥदर्शपूर्णमासौdarśapūrṇamāsauइतिitiतस्मात्tasmātनnaइष्टियाजुकःiṣṭiyājukaḥस्यात्syātपशुभ्यःpaśubhyaḥएकम्ekamप्रायच्छत्prāyacchatइतिitiतत्tatपयःpayaḥपयःpayaḥहिhiएवevaअग्रेagreमनुष्याःmanuṣyāḥचcaपशवःpaśavaḥचcaउपजीवन्तिupajīvantiतस्मात्tasmātकुमारम्kumāramजातम्jātamघृतम्ghṛtamवैvaiएवevaअग्रेagreप्रतिलेहयन्तिpratilehayantiस्तनम्stanamवाvāअनुधापयन्तिanudhāpayantiअथathaवत्सम्vatsamजातम्jātamआहुःāhuḥअतृणात्atṛṇātइतिitiतस्मिन्tasminसर्वम्sarvamप्रतिष्ठितम्pratiṣṭhitamयत्yatचcaप्राणितिprāṇitiयत्yatचcaनnaइतिitiपयसिpayasiहिhiइदम्idamसर्वम्sarvamप्रतिष्ठितम्pratiṣṭhitamयत्yatचcaप्राणितिprāṇitiयत्yatचcaनnaतत्tatयत्yatइदम्idamआहुःāhuḥसंवत्सरम्saṃvatsaramपयसाpayasāजुह्वत्juhvatअपapaपुनर्मृत्युम्punarmṛtyumजयतिjayatiइतिitiनnaतथाtathāविद्यात्vidyātयत्yatअहःahaḥएवevaजुहोतिjuhotiतत्tatअहःahaḥपुनर्मृत्युम्punarmṛtyumअपजयतिapajayatiएवम्evamविद्वान्vidvānसर्वम्sarvamहिhiदेवेभ्यःdevebhyaḥअन्नाद्यम्annādyamप्रयच्छतिprayacchatiकस्मात्kasmātतानिtāniनnaक्षीयन्तेkṣīyanteअद्यमानानिadyamānāniसर्वदाsarvadāइतिitiपुरुषःpuruṣaḥवैvaiअक्षितिःakṣitiḥसःsaḥहिhiइदम्idamअन्नम्annamपुनःpunaḥपुनःpunaḥजनयतेjanayateयःyaḥवैvaiएताम्etāmअक्षितिम्akṣitimवेदvedaइतिitiपुरुषःpuruṣaḥवैvaiअक्षितिःakṣitiḥसःsaḥहिhiइदम्idamअन्नम्annamधियाdhiyāधियाdhiyāजनयतेjanayateकर्मभिःkarmabhiḥयत्yatहhaएतत्etatनnaकुर्यात्kuryātक्षीयेतkṣīyetaहhaसःsaḥअन्नम्annamअत्तिattiप्रतीकेनpratīkenaइतिitiमुखम्mukhamप्रतीकम्pratīkamमुखेनmukhenaइतिitiएतत्etatसःsaḥदेवान्devānअपिगच्छतिapigacchatiसःsaḥऊर्जम्ūrjamउपजीवतिupajīvatiइतिitiप्रशंसाpraśaṃsā

Passage 5.3

त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुत । अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव सा । एषा ह्यन्तं आयत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव । एतन्मयो वा अयमात्मा । वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥

पदच्छेद

त्रीणिtrīṇiआत्मनेātmaneअकुरुतakurutaइतिitiमनःmanaḥवाचम्vācamप्राणम्prāṇamतानिtāniआत्मनेātmaneअकुरुतakurutaअन्यत्रमनाःanyatramanāḥअभूवम्abhūvamनnaअदर्शम्adarśamअन्यत्रमनाःanyatramanāḥअभूवम्abhūvamनnaअश्रौषम्aśrauṣamइतिitiमनसाmanasāहिhiएवevaपश्यतिpaśyatiमनसाmanasāशृणोतिśṛṇotiकामःkāmaḥसंकल्पःsaṃkalpaḥविचिकित्साvicikitsāश्रद्धाśraddhāअश्रद्धाaśraddhāधृतिःdhṛtiḥअधृतिःadhṛtiḥह्रीःhrīḥधीःdhīḥभीःbhīḥइतिitiएतत्etatसर्वम्sarvamमनःmanaḥएवevaतस्मात्tasmātअपिapiपृष्ठतःpṛṣṭhataḥउपस्पृष्टःupaspṛṣṭaḥमनसाmanasāविजानातिvijānātiयःyaḥकश्चkaścaशब्दःśabdaḥवाक्vākएवevaसाsāएषाeṣāहिhiअन्तम्antamआयत्ताāyattāएषाeṣāहिhiनnaप्राणःprāṇaḥअपानःapānaḥव्यानःvyānaḥउदानःudānaḥसमानःsamānaḥअनःanaḥइतिitiएतत्etatसर्वम्sarvamप्राणःprāṇaḥएवevaएतन्मयःetanmayaḥवैvaiअयम्ayamआत्माātmāवाङ्मयःvāṅmayaḥमनोमयःmanomayaḥप्राणमयःprāṇamayaḥ

अन्वय

त्रीणि आत्मने अकुरुत इति; मनः वाचम् प्राणम् [इति] तानि आत्मने अकुरुत । अन्यत्रमनाः अभूवम्, न अदर्शम्; अन्यत्रमनाः अभूवम्, न अश्रौषम् इति । हि मनसा एव पश्यति, मनसा शृणोति । कामः संकल्पः विचिकित्सा श्रद्धा अश्रद्धा धृतिः अधृतिः ह्रीः धीः भीः इति एतत् सर्वम् मनः एव [अस्ति] । तस्मात् पृष्ठतः उपस्पृष्टः अपि मनसा विजानाति । यः कश्च शब्दः [अस्ति], सा वाक् एव [अस्ति] । हि एषा अन्तम् [अभिधेयावसानम्] आयत्ता [अस्ति]; हि एषा न [प्रकाश्या अस्ति] । प्राणः अपानः व्यानः उदानः समानः अनः इति एतत् सर्वम् प्राणः एव [अस्ति] । अयम् आत्मा [कार्यकरणसङ्घातः] वा एतन्मयः वाङ्मयः मनोमयः प्राणमयः [अस्ति] ।

Passage 5.4

त्रयो लोका एत एव । वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४ ॥

पदच्छेद

त्रयःtrayaḥलोकाःlokāḥएतेeteएवevaवाक्vākएवevaअयम्ayamलोकःlokaḥमनःmanaḥअन्तरिक्षलोकःantarikṣalokaḥप्राणःprāṇaḥअसौasauलोकःlokaḥ

अन्वय

एते एव त्रयः लोकाः [सन्ति] । वाक् एव अयम् लोकः [अस्ति]; मनः अन्तरिक्षलोकः [अस्ति]; प्राणः असौ लोकः [अस्ति] ।

Passage 5.5

त्रयो वेदा एत एव । वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५ ॥

पदच्छेद

त्रयःtrayaḥवेदाःvedāḥएतेeteएवevaवाक्vākएवevaऋग्वेदःṛgvedaḥमनःmanaḥयजुर्वेदःyajurvedaḥप्राणःprāṇaḥसामवेदःsāmavedaḥ

अन्वय

एते एव त्रयः वेदाः [सन्ति] । वाक् एव ऋग्वेदः [अस्ति]; मनः यजुर्वेदः [अस्ति]; प्राणः सामवेदः [अस्ति] ।

Passage 5.6

देवा पितरो मनुष्या एत एव । वागेव देवा मनः पितरः, प्राणो मानुष्याः ॥ ६ ॥

पदच्छेद

देवाःdevāḥपितरःpitaraḥमनुष्याःmanuṣyāḥएतेeteएवevaवाक्vākएवevaदेवाःdevāḥमनःmanaḥपितरःpitaraḥप्राणःprāṇaḥमानुष्याःmānuṣyāḥ

Passage 5.7

पिता माता प्रजैत एव । मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७ ॥

पदच्छेद

पिताpitāमाताmātāप्रजाprajāएतेeteएवevaमनःmanaḥएवevaपिताpitāवाक्vākमाताmātāप्राणःprāṇaḥप्रजाprajā

अन्वय

एते एव पिता माता प्रजा [सन्ति] । मनः एव पिता [अस्ति]; वाक् माता [अस्ति]; प्राणः प्रजा [अस्ति] ।

Passage 5.8

विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । यत्किञ्च विज्ञातं वाचस्तद्रूपम् । वाग्घि विज्ञाता । वागेनं तद्भूत्वावति ॥ ८ ॥

पदच्छेद

विज्ञातम्vijñātamविजिज्ञास्यम्vijijñāsyamअविज्ञातम्avijñātamएतेeteएवevaयत्yatकिञ्चkiñcaविज्ञातम्vijñātamवाचःvācaḥतत्tatरूपम्rūpamवाक्vākहिhiविज्ञाताvijñātāवाक्vākएनम्enamतत्tatभूत्वाbhūtvāअवतिavati

अन्वय

विज्ञातम् विजिज्ञास्यम् अविज्ञातम् एते एव [सन्ति] । यत् किञ्च विज्ञातम् [अस्ति], तत् वाचः रूपम् [अस्ति] । हि वाक् विज्ञाता [अस्ति] । वाक् तत् भूत्वा एनम् अवति ।

Passage 5.9

यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् । मनो हि विजिज्ञास्यम् । मन एनं तद्भूत्वावति ॥ ९ ॥

पदच्छेद

यत्yatकिञ्चkiñcaविजिज्ञास्यम्vijijñāsyamमनसःmanasaḥतत्tatरूपम्rūpamमनःmanaḥहिhiविजिज्ञास्यम्vijijñāsyamमनःmanaḥएनम्enamतत्tatभूत्वाbhūtvāअवतिavati

अन्वय

यत् किञ्च विजिज्ञास्यम् [अस्ति], तत् मनसः रूपम् [अस्ति] । हि मनः विजिज्ञास्यम् [अस्ति] । मनः तत् भूत्वा एनम् अवति ।

Passage 5.10

यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् । प्राणो ह्यविज्ञातः । प्राण एनं तद्भूत्वावति ॥ १० ॥

पदच्छेद

यत्yatकिञ्चkiñcaअविज्ञातम्avijñātamप्राणस्यprāṇasyaतत्tatरूपम्rūpamप्राणःprāṇaḥहिhiअविज्ञातःavijñātaḥप्राणःprāṇaḥएनम्enamतत्tatभूत्वाbhūtvāअवतिavati

अन्वय

यत् किञ्च अविज्ञातम् [अस्ति], तत् प्राणस्य रूपम् [अस्ति] । हि प्राणः अविज्ञातः [अस्ति] । प्राणः तत् भूत्वा एनम् अवति ।

Passage 5.11

तस्यै वाचः पृथिवी शरीरम् । ज्योतीरूपमयमग्निः । तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ ११ ॥

पदच्छेद

तस्यैtasyaiवाचःvācaḥपृथिवीpṛthivīशरीरम्śarīramज्योतीरूपम्jyotīrūpamअयम्ayamअग्निःagniḥतत्tatयावतीyāvatīएवevaवाक्vākतावतीtāvatīपृथिवीpṛthivīतावान्tāvānअयम्ayamअग्निःagniḥ

अन्वय

तस्यै वाचः पृथिवी शरीरम् [अस्ति]; अयम् अग्निः ज्योतीरूपम् [अस्ति] । तत् यावती एव वाक् [अस्ति], तावती पृथिवी [अस्ति], तावान् अयम् अग्निः [अस्ति] ।

Passage 5.12

अथैतस्य मनसो द्यौः शरीरम् । ज्योतीरूपमसावादित्यः । तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः । तौ मिथुनं समैताम् । ततः प्राणोऽजायत । स इन्द्रः । स एषोऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति य एवं वेद ॥ १२ ॥

पदच्छेद

अथathaएतस्यetasyaमनसःmanasaḥद्यौःdyauḥशरीरम्śarīramज्योतीरूपम्jyotīrūpamअसौasauआदित्यःādityaḥतत्tatयावत्yāvatएवevaमनःmanaḥतावतीtāvatīद्यौःdyauḥतावान्tāvānअसौasauआदित्यःādityaḥतौtauमिथुनम्mithunamसमैताम्samaitāmततःtataḥप्राणःprāṇaḥअजायतajāyataसःsaḥइन्द्रःindraḥसःsaḥएषःeṣaḥअसपत्नःasapatnaḥद्वितीयःdvitīyaḥवैvaiसपत्नःsapatnaḥनnaअस्यasyaसपत्नःsapatnaḥभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

अथ एतस्य मनसः द्यौः शरीरम् [अस्ति]; असौ आदित्यः ज्योतीरूपम् [अस्ति] । तत् यावत् एव मनः [अस्ति], तावती द्यौः [अस्ति], तावान् असौ आदित्यः [अस्ति] । तौ मिथुनम् समैताम् । ततः प्राणः अजायत । सः इन्द्रः [अस्ति]; सः एषः असपत्नः [अस्ति] । द्वितीयः वै सपत्नः [अस्ति] । यः एवम् वेद, अस्य सपत्नः न भवति ।

Passage 5.13

अथैतस्य प्राणस्यापः शरीरम् । ज्योतीरूपमसौ चन्द्रः । तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समाः सर्वेऽनन्ताः । स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति । अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ १३ ॥

पदच्छेद

अथathaएतस्यetasyaप्राणस्यprāṇasyaआपःāpaḥशरीरम्śarīramज्योतीरूपम्jyotīrūpamअसौasauचन्द्रःcandraḥतत्tatयावान्yāvānएवevaप्राणःprāṇaḥतावत्यःtāvatyaḥआपःāpaḥतावान्tāvānअसौasauचन्द्रःcandraḥतेteएतेeteसर्वेsarveएवevaसमाःsamāḥसर्वेsarveअनन्ताःanantāḥसःsaḥयःyaḥहhaएतान्etānअन्तवतःantavataḥउपास्तेupāsteअन्तवन्तम्antavantamसःsaḥलोकम्lokamजयतिjayatiअथathaयःyaḥहhaएतान्etānअनन्तान्anantānउपास्तेupāsteअनन्तम्anantamसःsaḥलोकम्lokamजयतिjayati

अन्वय

अथ एतस्य प्राणस्य आपः शरीरम् [अस्ति]; असौ चन्द्रः ज्योतीरूपम् [अस्ति] । तत् यावान् एव प्राणः [अस्ति], तावत्यः आपः [सन्ति], तावान् असौ चन्द्रः [अस्ति] । ते एते सर्वे एव समाः [सन्ति]; सर्वे अनन्ताः [सन्ति] । सः यः ह एतान् अन्तवतः उपास्ते, सः अन्तवन्तम् लोकम् जयति । अथ यः ह एतान् अनन्तान् उपास्ते, सः अनन्तम् लोकम् जयति ।

Passage 5.14

स एष संवत्सरः प्रजापतिष्षोडशकलः । तस्य रात्रय एव पञ्चदश कला । ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते । सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥

पदच्छेद

सःsaḥएषःeṣaḥसंवत्सरःsaṃvatsaraḥप्रजापतिःprajāpatiḥषोडशकलःṣoḍaśakalaḥतस्यtasyaरात्रयःrātrayaḥएवevaपञ्चदशpañcadaśaकलाःkalāḥध्रुवाdhruvāएवevaअस्यasyaषोडशीṣoḍaśīकलाkalāसःsaḥरात्रिभिःrātribhiḥएवevaआāचcaपूर्यतेpūryateअपapaचcaक्षीयतेkṣīyateसःsaḥअमावास्याम्amāvāsyāmरात्रिम्rātrimएतयाetayāषोडश्याṣoḍaśyāकलयाkalayāसर्वम्sarvamइदम्idamप्राणभृत्prāṇabhṛtअनुप्रविश्यanupraviśyaततःtataḥप्रातःprātaḥजायतेjāyateतस्मात्tasmātएताम्etāmरात्रिम्rātrimप्राणभृतःprāṇabhṛtaḥप्राणम्prāṇamनnaविच्छिन्द्यात्vicchindyātअपिapiकृकलासस्यkṛkalāsasyaएतस्याःetasyāḥएवevaदेवतायाःdevatāyāḥअपचित्यैapacityai

अन्वय

सः एषः संवत्सरः षोडशकलः प्रजापतिः [अस्ति] । तस्य रात्रयः एव पञ्चदश कलाः [सन्ति]; अस्य षोडशी कला ध्रुवा एव [अस्ति] । सः रात्रिभिः एव आ च पूर्यते, अप च क्षीयते । सः अमावास्याम् रात्रिम् एतया षोडश्या कलया इदम् सर्वम् प्राणभृत् अनुप्रविश्य ततः प्रातः जायते । तस्मात् एताम् रात्रिम् प्राणभृतः प्राणम् अपि कृकलासस्य न विच्छिन्द्यात्, एतस्याः एव देवतायाः अपचित्यै ।

Passage 5.15

यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषः । तस्य वित्तमेव पञ्चदश कलाः । आत्मैवास्य षोडशी कला । स वित्तेनैवा च पूर्यतेऽप च क्षीयते । तदेतन्नभ्यं यदयमात्मा । प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ १५ ॥

पदच्छेद

यःyaḥवैvaiसःsaḥसंवत्सरःsaṃvatsaraḥप्रजापतिःprajāpatiḥषोडशकलःṣoḍaśakalaḥअयम्ayamएवevaसःsaḥयःyaḥअयम्ayamएवंवित्evaṃvitपुरुषःpuruṣaḥतस्यtasyaवित्तम्vittamएवevaपञ्चदशpañcadaśaकलाःkalāḥआत्माātmāएवevaअस्यasyaषोडशीṣoḍaśīकलाkalāसःsaḥवित्तेनvittenaएवevaआāचcaपूर्यतेpūryateअपapaचcaक्षीयतेkṣīyateतत्tatएतत्etatनभ्यम्nabhyamयत्yatअयम्ayamआत्माātmāप्रधिःpradhiḥवित्तम्vittamतस्मात्tasmātयदिyadiअपिapiसर्वज्यानिम्sarvajyānimजीयतेjīyateआत्मनाātmanāचेत्cetजीवतिjīvatiप्रधिनाpradhināअगात्agātइतिitiएवevaआहुःāhuḥ

Passage 5.16

अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति । सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । कर्मणा पितृलोकः । विद्यया देवलोकः । देवलोको वै लोकानां श्रेष्ठः । तस्माद्विद्यां प्रशंसन्ति ॥ १६ ॥

पदच्छेद

अथathaत्रयःtrayaḥवावvāvaलोकाःlokāḥमनुष्यलोकःmanuṣyalokaḥपितृलोकःpitṛlokaḥदेवलोकःdevalokaḥइतिitiसःsaḥअयम्ayamमनुष्यलोकःmanuṣyalokaḥपुत्रेणputreṇaएवevaजय्यःjayyaḥनnaअन्येनanyenaकर्मणाkarmaṇāकर्मणाkarmaṇāपितृलोकःpitṛlokaḥविद्ययाvidyayāदेवलोकःdevalokaḥदेवलोकःdevalokaḥवैvaiलोकानाम्lokānāmश्रेष्ठःśreṣṭhaḥतस्मात्tasmātविद्याम्vidyāmप्रशंसन्तिpraśaṃsanti

अन्वय

अथ मनुष्यलोकः पितृलोकः देवलोकः इति त्रयः वाव लोकाः [सन्ति] । सः अयम् मनुष्यलोकः पुत्रेण एव जय्यः [अस्ति], अन्येन कर्मणा न [जय्यः] । पितृलोकः कर्मणा [जय्यः]; देवलोकः विद्यया [जय्यः] । देवलोकः वै लोकानाम् श्रेष्ठः [अस्ति] । तस्मात् विद्याम् प्रशंसन्ति ।

Passage 5.17

अथातः सम्प्रत्तिः । यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता । ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता । एतावद्वा इदं सर्वम् । एतन्मा सर्वं सन्नयमितो भुनजदिति । तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः । तस्मादेनमनुशासति । स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम । स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति । अथैनमेते देवाः प्राणा अमृता आविशन्ति ॥ १७ ॥

पदच्छेद

अथathaअतःataḥसम्प्रत्तिःsamprattiḥयदाyadāप्रैष्यन्praiṣyanमन्यतेmanyateअथathaपुत्रम्putramआहāhaत्वम्tvamब्रह्मbrahmaत्वम्tvamयज्ञःyajñaḥत्वम्tvamलोकःlokaḥइतिitiसःsaḥपुत्रःputraḥप्रतिpratiआहāhaअहम्ahamब्रह्मbrahmaअहम्ahamयज्ञःyajñaḥअहम्ahamलोकःlokaḥइतिitiयत्yatवैvaiकिञ्चkiñcaअनूक्तम्anūktamतस्यtasyaसर्वस्यsarvasyaब्रह्मbrahmaइतिitiएकताekatāयेyeवैvaiकेkeचcaयज्ञाःyajñāḥतेषाम्teṣāmसर्वेषाम्sarveṣāmयज्ञःyajñaḥइतिitiएकताekatāयेyeवैvaiकेkeचcaलोकाःlokāḥतेषाम्teṣāmसर्वेषाम्sarveṣāmलोकःlokaḥइतिitiएकताekatāएतावत्etāvatवैvaiइदम्idamसर्वम्sarvamएतत्etatमाmāसर्वम्sarvamसन्sanअयम्ayamइतःitaḥभुनजत्bhunajatइतिitiतस्मात्tasmātपुत्रम्putramअनुशिष्टम्anuśiṣṭamलोक्यम्lokyamआहुःāhuḥतस्मात्tasmātएनम्enamअनुशासतिanuśāsatiसःsaḥयदाyadāएवंवित्evaṃvitअस्मात्asmātलोकात्lokātप्रैतिpraitiअथathaएभिःebhiḥएवevaप्राणैःprāṇaiḥसहsahaपुत्रम्putramआविशतिāviśatiसःsaḥयदिyadiअनेनanenaकिञ्चित्kiñcitअक्ष्णयाakṣṇayāकृतम्kṛtamभवतिbhavatiतस्मात्tasmātएनम्enamसर्वस्मात्sarvasmātपुत्रःputraḥमुञ्चतिmuñcatiतस्मात्tasmātपुत्रःputraḥनामnāmaसःsaḥपुत्रेणputreṇaएवevaअस्मिन्asminलोकेlokeप्रतितिष्ठतिpratitiṣṭhatiअथathaएनम्enamएतेeteदेवाःdevāḥप्राणाःprāṇāḥअमृताःamṛtāḥआविशन्तिāviśanti

Passage 5.18

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥

पदच्छेद

पृथिव्यैpṛthivyaiचcaएनम्enamअग्नेःagneḥचcaदैवीdaivīवाक्vākआविशतिāviśatiसाsāवैvaiदैवीdaivīवाक्vākययाyayāयत्yatयत्yatएवevaवदतिvadatiतत्tatतत्tatभवतिbhavati

अन्वय

पृथिव्यै च अग्नेः च दैवी वाक् एनम् आविशति । यया यत् यत् एव वदति, तत् तत् भवति, सा वै दैवी वाक् [अस्ति] ।

Passage 5.19

दिवश्चैनमादित्याच्च दैवं मन आविशति । तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १९ ॥

पदच्छेद

दिवःdivaḥचcaएनम्enamआदित्यात्ādityātचcaदैवम्daivamमनःmanaḥआविशतिāviśatiतत्tatवैvaiदैवम्daivamमनःmanaḥयेनyenaआनन्दीānandīएवevaभवतिbhavatiअथathaउuनnaशोचतिśocati

अन्वय

दिवः च आदित्यात् च दैवम् मनः एनम् आविशति । येन आनन्दी एव भवति, अथो न शोचति, तत् वै दैवम् मनः [अस्ति] ।

Passage 5.20

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति । स एष एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा देवतैवं सः । यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति । पुण्यमेवामुं गच्छति । न ह वै देवान् पापं गच्छति ॥ २० ॥

पदच्छेद

अद्भ्यःadbhyaḥचcaएनम्enamचन्द्रमसःcandramasaḥचcaदैवःdaivaḥप्राणःprāṇaḥआविशतिāviśatiसःsaḥवैvaiदैवःdaivaḥप्राणःprāṇaḥयःyaḥसंचरन्saṃcaranचcaअसंचरन्asaṃcaranचcaनnaव्यथतेvyathateअथathaउuनnaरिष्यतिriṣyatiसःsaḥएषःeṣaḥएवंवित्evaṃvitसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmआत्माātmāभवतिbhavatiयथाyathāएषाeṣāदेवताdevatāएवम्evamसःsaḥयथाyathāएताम्etāmदेवताम्devatāmसर्वाणिsarvāṇiभूतानिbhūtāniअवन्तिavantiएवम्evamहhaएवंविदम्evaṃvidamसर्वाणिsarvāṇiभूतानिbhūtāniअवन्तिavantiयत्yatउuकिञ्चkiñcaइमाःimāḥप्रजाःprajāḥशोचन्तिśocantiअमाamāएवevaआसाम्āsāmतत्tatभवतिbhavatiपुण्यम्puṇyamएवevaअमुम्amumगच्छतिgacchatiनnaहhaवैvaiदेवान्devānपापम्pāpamगच्छतिgacchati

अन्वय

अद्भ्यः च चन्द्रमसः च दैवः प्राणः एनम् आविशति । यः संचरन् च असंचरन् च न व्यथते, अथो न रिष्यति, सः वै दैवः प्राणः [अस्ति] । सः एषः एवम्‌वित् सर्वेषाम् भूतानाम् आत्मा भवति । यथा एषा देवता [अस्ति], एवम् सः [अस्ति] । यथा सर्वाणि भूतानि एताम् देवताम् अवन्ति, एवम् ह सर्वाणि भूतानि एवम्‌विदम् अवन्ति । इमाः प्रजाः यत् उ किञ्च शोचन्ति, तत् आसाम् अमा एव भवति । पुण्यम् एव अमुम् गच्छति; पापम् ह वै देवान् न गच्छति ।

Passage 5.21

अथातो व्रतमीमांसा । प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्योऽन्येनास्पर्धन्त । वदिष्याम्येवाहमिति वाग्दध्रे । द्रक्ष्याम्यहमिति चक्षुः । श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि कर्माणि यथाकर्मम् । तानि मृत्युः श्रमो भूत्वोपयेमे । तान्याप्नोत् । तान्याप्त्वा मृत्युरवारुन्ध । तस्माच्छ्राम्यत्येव वाक् । श्राम्यति चक्षुः । श्राम्यति श्रोत्रम् । अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति । हन्तास्यैव सर्वे रूपं भवामेति । त एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धतेऽनुशुष्यति । अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१ ॥

पदच्छेद

अथathaअतःataḥव्रतमीमांसाvratamīmāṃsāप्रजापतिःprajāpatiḥहhaकर्माणिkarmāṇiससृजेsasṛjeतानिtāniसृष्टानिsṛṣṭāniअन्यःanyaḥअन्येनanyenaअस्पर्धन्तaspardhantaवदिष्यामिvadiṣyāmiएवevaअहम्ahamइतिitiवाक्vākदध्रेdadhreद्रक्ष्यामिdrakṣyāmiअहम्ahamइतिitiचक्षुःcakṣuḥश्रोष्यामिśroṣyāmiअहम्ahamइतिitiश्रोत्रम्śrotramएवम्evamअन्यानिanyāniकर्माणिkarmāṇiयथाकर्मम्yathākarmamतानिtāniमृत्युःmṛtyuḥश्रमःśramaḥभूत्वाbhūtvāउपयेमेupayemeतानिtāniआप्नोत्āpnotतानिtāniआप्त्वाāptvāमृत्युःmṛtyuḥअवारुन्धavārundhaतस्मात्tasmātश्राम्यतिśrāmyatiएवevaवाक्vākश्राम्यतिśrāmyatiचक्षुःcakṣuḥश्राम्यतिśrāmyatiश्रोत्रम्śrotramअथathaइमम्imamएवevaनnaआप्नोत्āpnotयःyaḥअयम्ayamमध्यमःmadhyamaḥप्राणःprāṇaḥतानिtāniज्ञातुम्jñātumदध्रिरेdadhrireअयम्ayamवैvaiनःnaḥश्रेष्ठःśreṣṭhaḥयःyaḥसंचरन्saṃcaranचcaअसंचरन्asaṃcaranचcaनnaव्यथतेvyathateअथathaउuनnaरिष्यतिriṣyatiहन्तhantaअस्यasyaएवevaसर्वेsarveरूपम्rūpamभवामbhavāmaइतिitiतेteएतस्यetasyaएवevaसर्वेsarveरूपम्rūpamअभवन्abhavanतस्मात्tasmātएतेeteएतेनetenaआख्यायन्तेākhyāyanteप्राणाःprāṇāḥइतिitiतेनtenaहhaवावvāvaतत्tatकुलम्kulamआचक्षतेācakṣateयस्मिन्yasminकुलेkuleभवतिbhavatiयःyaḥएवम्evamवेदvedaयःyaḥउuहhaएवंविदाevaṃvidāस्पर्धतेspardhateअनुशुष्यतिanuśuṣyatiअनुशुष्यanuśuṣyaहhaएवevaअन्ततःantataḥम्रियतेmriyateइतिitiअध्यात्मम्adhyātmam

अन्वय

अथ अतः व्रतमीमांसा [प्रवर्तते] । प्रजापतिः ह कर्माणि ससृजे । सृष्टानि तानि अन्योन्येन अस्पर्धन्त । अहम् वदिष्यामि एव इति वाक् दध्रे । अहम् द्रक्ष्यामि इति चक्षुः [दध्रे]; अहम् श्रोष्यामि इति श्रोत्रम् [दध्रे] । एवम् अन्यानि कर्माणि यथाकर्मम् [दध्रिरे] । मृत्युः श्रमः भूत्वा तानि उपयेमे; तानि आप्नोत् । मृत्युः तानि आप्त्वा अवारुन्ध । तस्मात् वाक् श्राम्यति एव; चक्षुः श्राम्यति; श्रोत्रम् श्राम्यति । अथ यः अयम् मध्यमः प्राणः [अस्ति], इमम् एव न आप्नोति । तानि ज्ञातुम् दध्रिरे-अयम् वै नः श्रेष्ठः [अस्ति], यः संचरन् च असंचरन् च न व्यथते, अथो न रिष्यति । हन्त, [वयम्] सर्वे अस्य एव रूपम् भवाम इति । ते एतस्य एव सर्वे रूपम् अभवन् । तस्मात् एते एतेन प्राणाः इति आख्यायन्ते । यः एवम् वेद [सः] यस्मिन् कुले भवति, तत् कुलम् तेन ह वाव आचक्षते । यः उ ह एवम्‌विदा स्पर्धते, [सः] अनुशुष्यति; ह अनुशुष्य एव अन्ततः म्रियते इति अध्यात्मम् ।

Passage 5.22

अथाधिदेवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे । तप्स्याम्यहमित्यादित्यः । भास्याम्यहमिति चन्द्रमाः । एवमन्या देवता यथादेवतम् । स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः । म्लोचन्ति ह्यन्या देवता न वायुः । सैषानस्तमिता देवता यद्वायुः ॥ २२ ॥

पदच्छेद

अथathaअधिदेवतम्adhidevatamज्वलिष्यामिjvaliṣyāmiएवevaअहम्ahamइतिitiअग्निःagniḥदध्रेdadhreतप्स्यामिtapsyāmiअहम्ahamइतिitiआदित्यःādityaḥभास्यामिbhāsyāmiअहम्ahamइतिitiचन्द्रमाःcandramāḥएवम्evamअन्याःanyāḥदेवताःdevatāḥयथादेवतम्yathādevatamसःsaḥयथाyathāएषाम्eṣāmप्राणानाम्prāṇānāmमध्यमःmadhyamaḥप्राणःprāṇaḥएवम्evamएतासाम्etāsāmदेवतानाम्devatānāmवायुःvāyuḥम्लोचन्तिmlocantiहिhiअन्याःanyāḥदेवताःdevatāḥनnaवायुःvāyuḥसाsāएषाeṣāअनस्तमिताanastamitāदेवताdevatāयत्yatवायुःvāyuḥ

अन्वय

अथ अधिदेवतम् [उच्यते] । अहम् ज्वलिष्यामि एव इति अग्निः दध्रे । अहम् तप्स्यामि इति आदित्यः [दध्रे]; अहम् भास्यामि इति चन्द्रमाः [दध्रे] । एवम् अन्याः देवताः यथादेवतम् [दध्रिरे] । यथा सः एषाम् प्राणानाम् मध्यमः प्राणः [अस्ति], एवम् एतासाम् देवतानाम् वायुः [अस्ति] । हि अन्याः देवताः म्लोचन्ति, वायुः न [म्लोचति] । यत् वायुः [अस्ति], सा एषा अनस्तमिता देवता [अस्ति] ।

Passage 5.23

अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति । प्राणाद्वा एष उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च । नेन्मा पाप्मा मृत्युराप्नवदिति । यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ २३ ॥

पदच्छेद

अथathaएषःeṣaḥश्लोकःślokaḥभवतिbhavatiयतःyataḥचcaउदेतिudetiसूर्यःsūryaḥअस्तम्astamयत्रyatraचcaगच्छतिgacchatiइतिitiप्राणात्prāṇātवैvaiएषःeṣaḥउदेतिudetiप्राणेprāṇeअस्तम्astamएतिetiतम्tamदेवाःdevāḥचक्रिरेcakrireधर्मम्dharmamसःsaḥएवevaअद्यadyaसःsaḥउuश्वःśvaḥइतिitiयत्yatवैvaiएतेeteअमुर्हिamurhiअध्रियन्तadhriyantaतत्tatएवevaअपिapiअद्यadyaकुर्वन्तिkurvantiतस्मात्tasmātएकम्ekamएवevaव्रतम्vratamचरेत्caretप्राण्यात्prāṇyātचcaएवevaअपान्यात्apānyātचcaनnaइत्itमाmāपाप्माpāpmāमृत्युःmṛtyuḥआप्नवत्āpnavatइतिitiयदिyadiउuचरेत्caretसमापिपयिषेत्samāpipayiṣetतेनtenaउuएतस्यैetasyaiदेवतायैdevatāyaiसायुज्यम्sāyujyamसलोकताम्salokatāmजयतिjayati

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →