Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ५

संस्कृत

Passage 26.1

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च । तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव । स्त्रीप्रज्ञैव तर्हि कात्यायनी । अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ १ ॥

पदच्छेद

अथathaहhaयाज्ञवल्क्यस्यyājñavalkyasyaद्वेdveभार्येbhāryeबभूवतुःbabhūvatuḥमैत्रेयीmaitreyīचcaकात्यायनीkātyāyanīचcaतयोःtayoḥहhaमैत्रेयीmaitreyīब्रह्मवादिनीbrahmavādinīबभूवbabhūvaस्त्रीप्रज्ञाstrīprajñāएवevaतर्हिtarhiकात्यायनीkātyāyanīअथathaहhaयाज्ञवल्क्यःyājñavalkyaḥअन्यत्anyatवृत्तम्vṛttamउपाकरिष्यन्upākariṣyan

अन्वय

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः—मैत्रेयी च कात्यायनी च । तयोः ह मैत्रेयी ब्रह्मवादिनी बभूव; तर्हि कात्यायनी स्त्रीप्रज्ञा एव [बभूव] । अथ ह याज्ञवल्क्यः अन्यत् वृत्तम् उपाकरिष्यन् [मैत्रेयीम् उवाच] ।

Passage 26.2

मैत्रेयीति होवाच याज्ञवल्क्यः । प्रव्रजिष्यन् वा अरेऽहमस्मात्स्थानादस्मि । हन्त तेऽनया कत्यायन्यान्तं करवाणीति ॥ २ ॥

पदच्छेद

मैत्रेयिmaitreyiइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥप्रव्रजिष्यन्pravrajiṣyanवैvaiअरेareअहम्ahamअस्मात्asmātस्थानात्sthānātअस्मिasmiहन्तhantaतेteअनयाanayāकात्यायन्याkātyāyanyāअन्तम्antamकरवाणिkaravāṇiइतिiti

Passage 26.3

सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति । नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितम् । तथैव ते जीवितं स्यात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ३ ॥

पदच्छेद

साsāहhaउवाचuvācaमैत्रेयीmaitreyīयत्yatनुnuमेmeइयम्iyamभगोःbhagoḥसर्वाsarvāपृथिवीpṛthivīवित्तेनvittenaपूर्णाpūrṇāस्यात्syātस्याम्syāmनुnuअहम्ahamतेनtenaअमृताamṛtāआहोāhoनnaइतिitiनnaइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥयथाyathāएवevaउपकरणवताम्upakaraṇavatāmजीवितम्jīvitamतथाtathāएवevaतेteजीवितम्jīvitamस्यात्syātअमृतत्वस्यamṛtatvasyaतुtuनnaआशाāśāअस्तिastiवित्तेनvittenaइतिiti

अन्वय

मैत्रेयी सा ह, भगोः, यत् नु मे इयम् सर्वा पृथिवी वित्तेन पूर्णा स्यात्, अहम् नु तेन अमृता स्याम्, अहो३ न [स्याम्] इति उवाच । याज्ञवल्क्यः ह, न इति उवाच । यथा एव उपकरणवताम् जीवितम् [अस्ति], तथा एव ते जीवितम् स्यात्; वित्तेन तु अमृतत्वस्य आशा न अस्ति इति ।

Passage 26.4

सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ ४ ॥

पदच्छेद

साsāहhaउवाचuvācaमैत्रेयीmaitreyīयेनyenaअहम्ahamनnaअमृताamṛtāस्याम्syāmकिम्kimअहम्ahamतेनtenaकुर्याम्kuryāmयत्yatएवevaभगवान्bhagavānवेदvedaतत्tatएवevaमेmeब्रूहिbrūhiइतिiti

अन्वय

मैत्रेयी सा ह, येन अहम् न अमृता स्याम्, अहम् तेन किम् कुर्याम्; भगवान् यत् एव वेद, तत् एव मे ब्रूहि इति उवाच ।

Passage 26.5

स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधत् । हन्त तर्हि । भवत्येतद्व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥप्रियाpriyāवैvaiखलुkhaluनःnaḥभवतीbhavatīसतीsatīप्रियम्priyamअवृधत्avṛdhatहन्तhantaतर्हिtarhiभवत्यैbhavatyaiएतत्etatव्याख्यास्यामिvyākhyāsyāmiतेteव्याचक्षाणस्यvyācakṣāṇasyaतुtuमेmeनिदिध्यासस्वnididhyāsasvaइतिiti

अन्वय

याज्ञवल्क्यः सः ह, नः प्रिया वै खलु सती भवती प्रियम् अवृधत् । हन्त तर्हि, भवति, एतत् ते व्याख्यास्यामि; व्याचक्षाणस्य तु मे [वचनम्] निदिध्यासस्व इति उवाच ।

Passage 26.6

स होवाच । न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः प्रियं भवत्यात्मनस्तु कामाय पशवः प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ ६ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaनnaवैvaiअरेareपत्युःpatyuḥकामायkāmāyaपतिःpatiḥप्रियःpriyaḥभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaपतिःpatiḥप्रियःpriyaḥभवतिbhavatiनnaवैvaiअरेareजायायैjāyāyaiकामायkāmāyaजायाjāyāप्रियाpriyāभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaजायाjāyāप्रियाpriyāभवतिbhavatiनnaवैvaiअरेareपुत्राणाम्putrāṇāmकामायkāmāyaपुत्राःputrāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaपुत्राःputrāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareवित्तस्यvittasyaकामायkāmāyaवित्तम्vittamप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaवित्तम्vittamप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareपशूनाम्paśūnāmकामायkāmāyaपशवःpaśavaḥप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaपशवःpaśavaḥप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareब्रह्मणःbrahmaṇaḥकामायkāmāyaब्रह्मbrahmaप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaब्रह्मbrahmaप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareक्षत्रस्यkṣatrasyaकामायkāmāyaक्षत्रम्kṣatramप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaक्षत्रम्kṣatramप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareलोकानाम्lokānāmकामायkāmāyaलोकाःlokāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaलोकाःlokāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareदेवानाम्devānāmकामायkāmāyaदेवाःdevāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaदेवाःdevāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareवेदानाम्vedānāmकामायkāmāyaवेदाःvedāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaवेदाःvedāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareभूतानाम्bhūtānāmकामायkāmāyaभूतानिbhūtāniप्रियाणिpriyāṇiभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaभूतानिbhūtāniप्रियाणिpriyāṇiभवन्तिbhavantiनnaवैvaiअरेareसर्वस्यsarvasyaकामायkāmāyaसर्वम्sarvamप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaसर्वम्sarvamप्रियम्priyamभवतिbhavatiआत्माātmāवैvaiअरेareद्रष्टव्यःdraṣṭavyaḥश्रोतव्यःśrotavyaḥमन्तव्यःmantavyaḥनिदिध्यासितव्यःnididhyāsitavyaḥमैत्रेयिmaitreyiआत्मनिātmaniखलुkhaluअरेareदृष्टेdṛṣṭeश्रुतेśruteमतेmateविज्ञातेvijñāteइदम्idamसर्वम्sarvamविदितम्viditam

Passage 26.7

ब्रह्म तं परादाद्योऽन्यत्रात्मनो वेदान् वेद । क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद । देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद । वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद । भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ७ ॥

पदच्छेद

ब्रह्मbrahmaतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥवेदान्vedānवेदvedaक्षत्रम्kṣatramतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥक्षत्रम्kṣatramवेदvedaलोकाःlokāḥतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥलोकान्lokānवेदvedaदेवाःdevāḥतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥदेवान्devānवेदvedaवेदाःvedāḥतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥवेदान्vedānवेदvedaभूतानिbhūtāniतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥभूतानिbhūtāniवेदvedaसर्वम्sarvamतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥसर्वम्sarvamवेदvedaइदम्idamब्रह्मbrahmaइदम्idamक्षत्रम्kṣatramइमेimeलोकाःlokāḥइमेimeदेवाःdevāḥइमेimeवेदाःvedāḥइमानिimāniभूतानिbhūtāniइदम्idamसर्वम्sarvamयत्yatअयम्ayamआत्माātmā

Passage 26.8

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥

पदच्छेद

सःsaḥयथाyathāदुन्दुभेःdundubheḥहन्यमानस्यhanyamānasyaनnaबाह्यान्bāhyānशब्दान्śabdānशक्नुयात्śaknuyātग्रहणायgrahaṇāyaदुन्दुभेःdundubheḥतुtuग्रहणेनgrahaṇenaदुन्दुभ्याघातस्यdundubhyāghātasyaवाvāशब्दःśabdaḥगृहीतःgṛhītaḥ

अन्वय

सः [दृष्टान्तः]—यथा हन्यमानस्य दुन्दुभेः बाह्यान् शब्दान् [कश्चित्] ग्रहणाय न शक्नुयात्; दुन्दुभेः तु ग्रहणेन, दुन्दुभ्याघातस्य वा [ग्रहणेन], शब्दः गृहीतः [भवति] ।

Passage 26.9

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९ ॥

पदच्छेद

सःsaḥयथाyathāशङ्खस्यśaṅkhasyaध्मायमानस्यdhmāyamānasyaनnaबाह्यान्bāhyānशब्दान्śabdānशक्नुयात्śaknuyātग्रहणायgrahaṇāyaशङ्खस्यśaṅkhasyaतुtuग्रहणेनgrahaṇenaशङ्खध्मस्यśaṅkhadhmasyaवाvāशब्दःśabdaḥगृहीतःgṛhītaḥ

अन्वय

सः [दृष्टान्तः]—यथा ध्मायमानस्य शङ्खस्य बाह्यान् शब्दान् [कश्चित्] ग्रहणाय न शक्नुयात्; शङ्खस्य तु ग्रहणेन, शङ्खध्मस्य वा [ग्रहणेन], शब्दः गृहीतः [भवति] ।

Passage 26.10

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः ॥ १० ॥

पदच्छेद

सःsaḥयथाyathāवीणायैvīṇāyaiवाद्यमानायैvādyamānāyaiनnaबाह्यान्bāhyānशब्दान्śabdānशक्नुयात्śaknuyātग्रहणायgrahaṇāyaवीणायैvīṇāyaiतुtuग्रहणेनgrahaṇenaवीणावादस्यvīṇāvādasyaवाvāशब्दःśabdaḥगृहीतःgṛhītaḥ

Passage 26.11

स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि । अस्यैवैतानि सर्वाणि निश्वसितानि ॥ ११ ॥

पदच्छेद

सःsaḥयथाyathāआर्द्रैधाग्नेःārdraidhāgneḥअभ्याहितस्यabhyāhitasyaपृथक्pṛthakधूमाःdhūmāḥविनिश्चरन्तिviniścarantiएवम्evamवैvaiअरेareअस्यasyaमहतःmahataḥभूतस्यbhūtasyaनिःश्वसितम्niḥśvasitamएतत्etatयत्yatऋग्वेदःṛgvedaḥयजुर्वेदःyajurvedaḥसामवेदःsāmavedaḥअथर्वाङ्गिरसःatharvāṅgirasaḥइतिहासःitihāsaḥपुराणम्purāṇamविद्याःvidyāḥउपनिषदःupaniṣadaḥश्लोकाःślokāḥसूत्राणिsūtrāṇiअनुव्याख्यानानिanuvyākhyānāniव्याख्यानानिvyākhyānāniइष्टम्iṣṭamहुतम्hutamआशितम्āśitamपायितम्pāyitamअयम्ayamचcaलोकःlokaḥपरःparaḥचcaलोकःlokaḥसर्वाणिsarvāṇiचcaभूतानिbhūtāniअस्यasyaएवevaएतानिetāniसर्वाणिsarvāṇiनिःश्वसितानिniḥśvasitāni

Passage 26.12

स यथा सर्वासामपां समुद्र एकायनम् । एवं सर्वेषां स्पर्शानां त्वगेकायनम् । एवं सर्वेषां गन्धानां नासिके एकायनम् । एवं सर्वेषां रसानां जिह्वैकायनम् । एवं सर्वेषां रूपाणां चक्षुरेकायनम् । एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् । एवं सर्वेषां संकल्पानां मन एकायनम् । एवं सर्वासां विद्यानां हृदयमेकायनम् । एवं सर्वेषां कर्मणां हस्तावेकायनम् । एवं सर्वेषामानन्दानामुपस्थ एकायनम् । एवं सर्वेषां विसर्गाणां पायुरेकायनम् । एवं सर्वेषामध्वनां पादावेकायनम् । एवं सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥

पदच्छेद

सःsaḥयथाyathāसर्वासाम्sarvāsāmअपाम्apāmसमुद्रःsamudraḥएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmस्पर्शानाम्sparśānāmत्वक्tvakएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmगन्धानाम्gandhānāmनासिकेnāsikeएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmरसानाम्rasānāmजिह्वाjihvāएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmरूपाणाम्rūpāṇāmचक्षुःcakṣuḥएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmशब्दानाम्śabdānāmश्रोत्रम्śrotramएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmसङ्कल्पानाम्saṅkalpānāmमनःmanaḥएकायनम्ekāyanamएवम्evamसर्वासाम्sarvāsāmविद्यानाम्vidyānāmहृदयम्hṛdayamएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmकर्मणाम्karmaṇāmहस्तौhastauएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmआनन्दानाम्ānandānāmउपस्थःupasthaḥएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmविसर्गाणाम्visargāṇāmपायुःpāyuḥएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmअध्वनाम्adhvanāmपादौpādauएकायनम्ekāyanamएवम्evamसर्वेषाम्sarveṣāmवेदानाम्vedānāmवाक्vākएकायनम्ekāyanam

Passage 26.13

स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव । एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयति । न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि । इति होवाच याज्ञवल्क्यः ॥ १३ ॥

पदच्छेद

सःsaḥयथाyathāसैन्धवघनःsaindhavaghanaḥअनन्तरःanantaraḥअबाह्यःabāhyaḥकृत्स्नःkṛtsnaḥरसघनःrasaghanaḥएवevaएवम्evamवैvaiअरेareअयम्ayamआत्माātmāअनन्तरःanantaraḥअबाह्यःabāhyaḥकृत्स्नःkṛtsnaḥप्रज्ञानघनःprajñānaghanaḥएवevaएतेभ्यःetebhyaḥभूतेभ्यःbhūtebhyaḥसमुत्थायsamutthāyaतानिtāniएवevaअनुविनयतिanuvinayatiनnaप्रेत्यpretyaसञ्ज्ञाsañjñāअस्तिastiइतिitiअरेareब्रवीमिbravīmiइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥ

Passage 26.14

सा होवाच मैत्रेयी अत्रैव मा भगवान्मोहान्तमापीपदत् । न वा अहमिमं विजानामीति । स होवाच न वा अरेऽहं मोहं ब्रवीमि । अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ १४ ॥

पदच्छेद

साsāहhaउवाचuvācaमैत्रेयीmaitreyīअत्रatraएवevaमाmāभगवान्bhagavānमोहान्तम्mohāntamआपीपदत्āpīpadatनnaवैvaiअहम्ahamइमम्imamविजानामिvijānāmiइतिitiसःsaḥहhaउवाचuvācaनnaवैvaiअरेareअहम्ahamमोहम्mohamब्रवीमिbravīmiअविनाशीavināśīवैvaiअरेareअयम्ayamआत्माātmāअनुच्छित्तिधर्माanucchittidharmā

अन्वय

मैत्रेयी सा ह, भगवान् मा अत्र एव मोहान्तम् आपीपदत्; अहम् इमम् न वा विजानामि इति उवाच । सः ह, अरे, अहम् मोहं न वा ब्रवीमि; अयम् आत्मा अविनाशी वा अनुच्छित्तिधर्मा [अस्ति] [इति] उवाच ।

Passage 26.15

यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरं रसयते, तदितर इतरमभिवदति, तदितर इतरं शृणोति, तदितर इतरं मनुते. तदितर इतरं स्पृशति, तदितर इतरं विजानाति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयात् । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न हि सज्यते । असितो न व्यथते न रिष्यति । विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेयि । एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥

पदच्छेद

यत्रyatraहिhiद्वैतम्dvaitamइवivaभवतिbhavatiतत्tatइतरःitaraḥइतरम्itaramपश्यतिpaśyatiतत्tatइतरःitaraḥइतरम्itaramजिघ्रतिjighratiतत्tatइतरःitaraḥइतरम्itaramरसयतेrasayateतत्tatइतरःitaraḥइतरम्itaramअभिवदतिabhivadatiतत्tatइतरःitaraḥइतरम्itaramशृणोतिśṛṇotiतत्tatइतरःitaraḥइतरम्itaramमनुतेmanuteतत्tatइतरःitaraḥइतरम्itaramस्पृशतिspṛśatiतत्tatइतरःitaraḥइतरम्itaramविजानातिvijānātiयत्रyatraतुtuअस्यasyaसर्वम्sarvamआत्माātmāएवevaअभूत्abhūtतत्tatकेनkenaकम्kamपश्येत्paśyetतत्tatकेनkenaकम्kamजिघ्रेत्jighretतत्tatकेनkenaकम्kamरसयेत्rasayetतत्tatकेनkenaकम्kamअभिवदेत्abhivadetतत्tatकेनkenaकम्kamशृणुयात्śṛṇuyātतत्tatकेनkenaकम्kamमन्वीतmanvītaतत्tatकेनkenaकम्kamस्पृशेत्spṛśetतत्tatकेनkenaकम्kamविजानीयात्vijānīyātयेनyenaइदम्idamसर्वम्sarvamविजानातिvijānātiतम्tamकेनkenaविजानीयात्vijānīyātसःsaḥएषःeṣaḥनnaइतिitiनnaइतिitiआत्माātmāअगृह्यःagṛhyaḥनnaहिhiगृह्यतेgṛhyateअशीर्यःaśīryaḥनnaहिhiशीर्यतेśīryateअसङ्गःasaṅgaḥनnaहिhiसज्यतेsajyateअसितःasitaḥनnaव्यथतेvyathateनnaरिष्यतिriṣyatiविज्ञातारम्vijñātāramअरेareकेनkenaविजानीयात्vijānīyātइतिitiउक्तानुशासनाuktānuśāsanāअसिasiमैत्रेयिmaitreyiएतावत्etāvatअरेareखलुkhaluअमृतत्वम्amṛtatvamइतिitiहhaउक्त्वाuktvāयाज्ञवल्क्यःyājñavalkyaḥविजहारvijahāra

अन्वय

यत्र हि द्वैतम् इव भवति, तत् इतरः इतरम् पश्यति; तत् इतरः इतरम् जिघ्रति; तत् इतरः इतरम् रसयते; तत् इतरः इतरम् अभिवदति; तत् इतरः इतरम् शृणोति; तत् इतरः इतरम् मनुते; तत् इतरः इतरम् स्पृशति; तत् इतरः इतरम् विजानाति । यत्र तु अस्य सर्वम् आत्मा एव अभूत्, तत् केन कम् पश्येत्; तत् केन कम् जिघ्रेत्; तत् केन कम् रसयेत्; तत् केन कम् अभिवदेत्; तत् केन कम् शृणुयात्; तत् केन कम् मन्वीत; तत् केन कम् स्पृशेत्; तत् केन कम् विजानीयात् । येन इदम् सर्वम् विजानाति, तम् केन विजानीयात् । सः एषः न इति न इति आत्मा [अस्ति]; अगृह्यः [अस्ति], हि न गृह्यते; अशीर्यः [अस्ति], हि न शीर्यते; असङ्गः [अस्ति], हि न सज्यते; असितः [अस्ति], न व्यथते, न रिष्यति । अरे मैत्रेयि, विज्ञातारम् केन विजानीयात् इति उक्तानुशासना असि । अरे, एतावत् खलु अमृतत्वम् [अस्ति] इति ह उक्त्वा याज्ञवल्क्यः विजहार ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ५

Read the whole section →