Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण २

संस्कृत

Passage 14.1

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति । ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamजारत्कारवःjāratkāravaḥआर्तभागःārtabhāgaḥपप्रच्छpapracchaयाज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaकतिkatiग्रहाःgrahāḥकतिkatiअतिग्रहाःatigrahāḥइतिitiअष्टौaṣṭauग्रहाःgrahāḥअष्टौaṣṭauअतिग्रहाःatigrahāḥइतिitiयेyeतेteअष्टौaṣṭauग्रहाःgrahāḥअष्टौaṣṭauअतिग्रहाःatigrahāḥकतमेkatameतेteइतिiti

अन्वय

अथ ह जारत्कारवः आर्तभागः एनम् पप्रच्छ । [सः] ह उवाच—याज्ञवल्क्य, ग्रहाः कति [सन्ति], अतिग्रहाः कति [सन्ति] इति । [याज्ञवल्क्यः आह—] ग्रहाः अष्टौ [सन्ति]; अतिग्रहाः अष्टौ [सन्ति] इति । [आर्तभागः पप्रच्छ—] ये ते अष्टौ ग्रहाः अष्टौ अतिग्रहाः [सन्ति], ते कतमे [सन्ति] इति ।

Passage 14.2

प्राणो वै ग्रहः । सोऽपानेनातिग्रहेण गृहीतः । प्राणेन हि गन्धाञ्जिघ्रति ॥ २ ॥

पदच्छेद

प्राणःprāṇaḥवैvaiग्रहःgrahaḥसःsaḥअपानेनapānenaअतिग्रहेणatigraheṇaगृहीतःgṛhītaḥप्राणेनprāṇenaहिhiगन्धान्gandhānजिघ्रतिjighrati

अन्वय

वै प्राणः ग्रहः [अस्ति] । सः अपानेन अतिग्रहेण गृहीतः [अस्ति] । हि प्राणेन [पुरुषः] गन्धान् जिघ्रति ।

Passage 14.3

वाग्वै ग्रहः । स नाम्नातिग्रहेण गृहीतः । वाचा हि नामान्यभिवदति ॥ ३ ॥

पदच्छेद

वाक्vākवैvaiग्रहःgrahaḥसःsaḥनाम्नाnāmnāअतिग्रहेणatigraheṇaगृहीतःgṛhītaḥवाचाvācāहिhiनामानिnāmāniअभिवदतिabhivadati

अन्वय

वै वाक् ग्रहः [अस्ति] । सः नाम्ना अतिग्रहेण गृहीतः [अस्ति] । हि वाचा [पुरुषः] नामानि अभिवदति ।

Passage 14.4

जिह्वा वै ग्रहः । स रसेनातिग्रहेण गृहीतः । जिह्वया हि रसान् विजानाति ॥ ४ ॥

पदच्छेद

जिह्वाjihvāवैvaiग्रहःgrahaḥसःsaḥरसेनrasenaअतिग्रहेणatigraheṇaगृहीतःgṛhītaḥजिह्वयाjihvayāहिhiरसान्rasānविजानातिvijānāti

अन्वय

वै जिह्वा ग्रहः [अस्ति] । सः रसेन अतिग्रहेण गृहीतः [अस्ति] । हि जिह्वया [पुरुषः] रसान् विजानाति ।

Passage 14.5

चक्षुर्वै ग्रहः । स रूपेणातिग्रहेण गृहीतः । चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥

पदच्छेद

चक्षुःcakṣuḥवैvaiग्रहःgrahaḥसःsaḥरूपेणrūpeṇaअतिग्रहेणatigraheṇaगृहीतःgṛhītaḥचक्षुषाcakṣuṣāहिhiरूपाणिrūpāṇiपश्यतिpaśyati

अन्वय

वै चक्षुः ग्रहः [अस्ति] । सः रूपेण अतिग्रहेण गृहीतः [अस्ति] । हि चक्षुषा [पुरुषः] रूपाणि पश्यति ।

Passage 14.6

श्रोत्रं वै ग्रहः । स शब्देनातिग्रहेण गृहीतः । श्रोत्रेण हि शब्दाञ्शृणोति ॥ ६ ॥

पदच्छेद

श्रोत्रम्śrotramवैvaiग्रहःgrahaḥसःsaḥशब्देनśabdenaअतिग्रहेणatigraheṇaगृहीतःgṛhītaḥश्रोत्रेणśrotreṇaहिhiशब्दान्śabdānशृणोतिśṛṇoti

अन्वय

वै श्रोत्रम् ग्रहः [अस्ति] । सः शब्देन अतिग्रहेण गृहीतः [अस्ति] । हि श्रोत्रेण [पुरुषः] शब्दान् शृणोति ।

Passage 14.7

मनो वै ग्रहः । स कामेनातिग्रहेण गृहीतः । मनसा हि कामान् कामयते ॥ ७ ॥

पदच्छेद

मनःmanaḥवैvaiग्रहःgrahaḥसःsaḥकामेनkāmenaअतिग्रहेणatigraheṇaगृहीतःgṛhītaḥमनसाmanasāहिhiकामान्kāmānकामयतेkāmayate

अन्वय

वै मनः ग्रहः [अस्ति] । सः कामेन अतिग्रहेण गृहीतः [अस्ति] । हि मनसा [पुरुषः] कामान् कामयते ।

Passage 14.8

हस्तौ वै ग्रहः । स कर्मणातिग्रहेण गृहीतः । हस्ताभ्यां हि कर्म करोति ॥ ८ ॥

पदच्छेद

हस्तौhastauवैvaiग्रहःgrahaḥसःsaḥकर्मणाkarmaṇāअतिग्रहेणatigraheṇaगृहीतःgṛhītaḥहस्ताभ्याम्hastābhyāmहिhiकर्मkarmaकरोतिkaroti

अन्वय

वै हस्तौ ग्रहः । सः कर्मणा अतिग्रहेण गृहीतः [अस्ति] । हि हस्ताभ्याम् [पुरुषः] कर्म करोति ।

Passage 14.9

त्वग्वै ग्रहः । स स्पर्शेनातिग्रहेण गृहीतः । त्वचा हि स्पर्शान् वेदयत । इत्यष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥

पदच्छेद

त्वक्tvakवैvaiग्रहःgrahaḥसःsaḥस्पर्शेनsparśenaअतिग्रहेणatigraheṇaगृहीतःgṛhītaḥत्वचाtvacāहिhiस्पर्शान्sparśānवेदयतेvedayateइतिitiअष्टौaṣṭauग्रहाःgrahāḥअष्टौaṣṭauअतिग्रहाःatigrahāḥ

Passage 14.10

याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमिति । अग्निर्वै मृत्युः सोऽपामन्नम् । अप पुनर्मृत्युं जयति ॥ १० ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्yatइदम्idamसर्वम्sarvamमृत्योःmṛtyoḥअन्नम्annamकाkāस्वित्svitसाsāदेवताdevatāयस्याःyasyāḥमृत्युःmṛtyuḥअन्नम्annamइतिitiअग्निःagniḥवैvaiमृत्युःmṛtyuḥसःsaḥअपाम्apāmअन्नम्annamअपapaपुनर्मृत्युम्punarmṛtyumजयतिjayati

अन्वय

[आर्तभागः] ह उवाच—याज्ञवल्क्य, यत् इदम् सर्वम् मृत्योः अन्नम् [अस्ति], [तत्र] सा का स्वित् देवता [अस्ति] यस्याः मृत्युः अन्नम् [अस्ति] इति । [याज्ञवल्क्यः आह—] वै अग्निः मृत्युः [अस्ति]; सः अपाम् अन्नम् [अस्ति] । [विद्वान्] पुनर्मृत्युम् अप जयति ।

Passage 14.11

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति । नेति होवाच याज्ञवल्क्यः । अत्रैव समवनीयन्ते । स उच्छ्वयति । आध्मायति । आध्मातो मृतः शेते ॥ ११ ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्रyatraअयम्ayamपुरुषःpuruṣaḥम्रियतेmriyateउत्utअस्मात्asmātप्राणाःprāṇāḥक्रामन्तिkrāmantiआहोāhoनnaइतिitiनnaइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥअत्रatraएवevaसमवनीयन्तेsamavanīyanteसःsaḥउच्छ्वयतिucchvayatiआध्मायतिādhmāyatiआध्मातःādhmātaḥमृतःmṛtaḥशेतेśete

अन्वय

[आर्तभागः] ह उवाच—याज्ञवल्क्य, यत्र अयम् पुरुषः म्रियते, अस्मात् प्राणाः उत् क्रामन्ति आहो न इति । याज्ञवल्क्यः ह उवाच—न इति । [प्राणाः] अत्र एव समवनीयन्ते । सः उच्छ्वयति, आध्मायति; आध्मातः मृतः शेते ।

Passage 14.12

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते । किमेनं न जहातीति । नामेति । अनन्तं वै नामानन्ता विश्वे देवाः । अनन्तमेव स तेन लोकं जयति ॥ १२ ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्रyatraअयम्ayamपुरुषःpuruṣaḥम्रियतेmriyateकिम्kimएनम्enamनnaजहातिjahātiइतिitiनामnāmaइतिitiअनन्तम्anantamवैvaiनामnāmaअनन्ताःanantāḥविश्वेviśveदेवाःdevāḥअनन्तम्anantamएवevaसःsaḥतेनtenaलोकम्lokamजयतिjayati

अन्वय

[आर्तभागः] ह उवाच—याज्ञवल्क्य, यत्र अयम् पुरुषः म्रियते, एनम् किम् न जहाति इति । [याज्ञवल्क्यः आह—] नाम [न जहाति] इति । वै नाम अनन्तम् [अस्ति]; विश्वे देवाः अनन्ताः [सन्ति] । सः तेन अनन्तम् एव लोकम् जयति ।

Passage 14.13

याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीति । आहर सौम्य हस्तम् आर्तभाग । आवामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयां चक्राते । तौ ह यदूचतुः कर्म हैव तदूचतुः । अथ ह यत्प्रशंसतुः कर्म हैव तत्प्रशशंसतुः । पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्रyatraअस्यasyaपुरुषस्यpuruṣasyaमृतस्यmṛtasyaअग्निम्agnimवाक्vākअप्येतिapyetiवातम्vātamप्राणःprāṇaḥचक्षुःcakṣuḥआदित्यम्ādityamमनःmanaḥचन्द्रम्candramदिशःdiśaḥश्रोत्रम्śrotramपृथिवीम्pṛthivīmशरीरम्śarīramआकाशम्ākāśamआत्माātmāओषधीःoṣadhīḥलोमानिlomāniवनस्पतीन्vanaspatīnकेशाःkeśāḥअप्सुapsuलोहितम्lohitamचcaरेतःretaḥचcaनिधीयतेnidhīyateक्वkvaअयम्ayamतदाtadāपुरुषःpuruṣaḥभवतिbhavatiइतिitiआहरāharaसौम्यsaumyaहस्तम्hastamआर्तभागārtabhāgaआवाम्āvāmएवevaएतस्यetasyaवेदिष्यावःvediṣyāvaḥनnaनौnauएतत्etatसजनेsajaneइतिitiतौtauहhaउत्क्रम्यutkramyaमन्त्रयाम्mantrayāmचक्रातेcakrāteतौtauहhaयत्yatऊचतुःūcatuḥकर्मkarmaहhaएवevaतत्tatऊचतुःūcatuḥअथathaहhaयत्yatप्रशंसतुःpraśaṃsatuḥकर्मkarmaहhaएवevaतत्tatप्रशशंसतुःpraśaśaṃsatuḥपुण्यःpuṇyaḥवैvaiपुण्येनpuṇyenaकर्मणाkarmaṇāभवतिbhavatiपापःpāpaḥपापेनpāpenaइतिitiततःtataḥहhaजारत्कारवःjāratkāravaḥआर्तभागःārtabhāgaḥउपररामupararāma

अन्वय

[आर्तभागः] ह उवाच—याज्ञवल्क्य, यत्र अस्य मृतस्य पुरुषस्य वाक् अग्निम् अप्येति, प्राणः वातम् [अप्येति], चक्षुः आदित्यम् [अप्येति], मनः चन्द्रम् [अप्येति], श्रोत्रम् दिशः [अप्येति], शरीरम् पृथिवीम् [अप्येति], आत्मा आकाशम् [अप्येति], लोमानि ओषधीः [अपियन्ति], केशाः वनस्पतीन् [अपियन्ति], लोहितम् च रेतः च अप्सु निधीयते, तदा अयम् पुरुषः क्व भवति इति । [याज्ञवल्क्यः आह—] सौम्य आर्तभाग, हस्तम् आहर । आवाम् एव एतस्य वेदिष्यावः; नौ एतत् सजने न [निर्णेतुम् शक्यम्] इति । तौ ह उत्क्रम्य मन्त्रयाम् चक्राते । तौ ह यत् ऊचतुः, तत् कर्म ह एव ऊचतुः । अथ ह यत् प्रशंसतुः, तत् कर्म ह एव प्रशशंसतुः । वै [पुरुषः] पुण्येन कर्मणा पुण्यः भवति, पापेन [कर्मणा] पापः [भवति] इति । ततः ह जारत्कारवः आर्तभागः उपरराम ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण २

Read the whole section →