Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण ५

संस्कृत

Passage 32.1

आप एवेदमग्र आसुः । ता आपः सत्यमसृजन्त । सत्यं ब्रह्म । ब्रह्म प्रजापतिम् । प्रजापतिर्देवान् । ते देवाः सत्यमेवोपासते । तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् । तीत्येकमक्षरम् । यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतम् । तदेतदनृतमुभयतः सत्येन परिगृहीतम् । सत्यभूयमेव भवति । नैवंविद्वांसमनृतं हिनस्ति ॥ १ ॥

पदच्छेद

आपःāpaḥएवevaइदम्idamअग्रेagreआसुःāsuḥताःtāḥआपःāpaḥसत्यम्satyamअसृजन्तasṛjantaसत्यम्satyamब्रह्मbrahmaब्रह्मbrahmaप्रजापतिम्prajāpatimप्रजापतिःprajāpatiḥदेवान्devānतेteदेवाःdevāḥसत्यम्satyamएवevaउपासतेupāsateतत्tatएतत्etatत्र्यक्षरम्tryakṣaramसतियम्satiyamइतिitiसsaइतिitiएकम्ekamअक्षरम्akṣaramतिtiइतिitiएकम्ekamअक्षरम्akṣaramयम्yamइतिitiएकम्ekamअक्षरम्akṣaramप्रथमोत्तमेprathamottameअक्षरेakṣareसत्यम्satyamमध्यतःmadhyataḥअनृतम्anṛtamतत्tatएतत्etatअनृतम्anṛtamउभयतःubhayataḥसत्येनsatyenaपरिगृहीतम्parigṛhītamसत्यभूयम्satyabhūyamएवevaभवतिbhavatiनnaएवम्विद्वांसम्evamvidvāṃsamअनृतम्anṛtamहिनस्तिhinasti

अन्वय

अग्रे इदम् आपः एव आसुः । ताः आपः सत्यम् असृजन्त । सत्यम् ब्रह्म [अस्ति] । ब्रह्म प्रजापतिम् [असृजत]; प्रजापतिः देवान् [असृजत] । ते देवाः सत्यम् एव उपासते । सतियम् इति तत् एतत् त्र्यक्षरम् [अस्ति] । स इति एकम् अक्षरम् [अस्ति]; ती इति एकम् अक्षरम् [अस्ति]; यम् इति एकम् अक्षरम् [अस्ति] । प्रथमोत्तमे अक्षरे सत्यम् [स्तः]; मध्यतः अनृतम् [अस्ति] । तत् एतत् अनृतम् उभयतः सत्येन परिगृहीतम् [अस्ति]; [तत्] सत्यभूयम् एव भवति । अनृतम् एवम्विद्वांसम् न हिनस्ति ।

Passage 32.2

तद्यत्तत्सत्यमसौ स आदित्यः । य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ । रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् । स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति । नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥

पदच्छेद

तत्tatयत्yatतत्tatसत्यम्satyamअसौasauसःsaḥआदित्यःādityaḥयःyaḥएषःeṣaḥएतस्मिन्etasminमण्डलेmaṇḍaleपुरुषःpuruṣaḥयःyaḥचcaअयम्ayamदक्षिणेdakṣiṇeअक्षन्akṣanपुरुषःpuruṣaḥतौtauएतौetauअन्यःanyaḥअन्यस्मिन्anyasminप्रतिष्ठितौpratiṣṭhitauरश्मिभिःraśmibhiḥएषःeṣaḥअस्मिन्asminप्रतिष्ठितःpratiṣṭhitaḥप्राणैःprāṇaiḥअयम्ayamअमुष्मिन्amuṣminसःsaḥयदाyadāउत्क्रमिष्यन्utkramiṣyanभवतिbhavatiशुद्धम्śuddhamएवevaएतत्etatमण्डलम्maṇḍalamपश्यतिpaśyatiनnaएनम्enamएतेeteरश्मयःraśmayaḥप्रत्यायन्तिpratyāyanti

अन्वय

तत् यत् तत् सत्यम् [अस्ति], सः असौ आदित्यः [अस्ति] । यः एषः एतस्मिन् मण्डले पुरुषः [अस्ति], यः च अयम् दक्षिणे अक्षन् पुरुषः [अस्ति], तौ एतौ अन्यः अन्यस्मिन् प्रतिष्ठितौ [स्तः] । एषः [आदित्यपुरुषः] रश्मिभिः अस्मिन् [चाक्षुषे पुरुषे] प्रतिष्ठितः [अस्ति]; अयम् [चाक्षुषः] प्राणैः अमुष्मिन् [आदित्ये] [प्रतिष्ठितः अस्ति] । सः यदा उत्क्रमिष्यन् भवति, [तदा सः] एतत् मण्डलम् शुद्धम् एव पश्यति; एते रश्मयः एनम् न प्रत्यायन्ति ।

Passage 32.3

य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः । एकं शिर एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वरिति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३ ॥

पदच्छेद

यःyaḥएषःeṣaḥएतस्मिन्etasminमण्डलेmaṇḍaleपुरुषःpuruṣaḥतस्यtasyaभूःbhūḥइतिitiशिरःśiraḥएकम्ekamशिरःśiraḥएकम्ekamएतत्etatअक्षरम्akṣaramभुवःbhuvaḥइतिitiबाहूbāhūद्वौdvauबाहूbāhūद्वेdveएतेeteअक्षरेakṣareस्वःsvaḥइतिitiप्रतिष्ठाpratiṣṭhāद्वेdveप्रतिष्ठेpratiṣṭheद्वेdveएतेeteअक्षरेakṣareतस्यtasyaउपनिषत्upaniṣatअहःahaḥइतिitiहन्तिhantiपाप्मानम्pāpmānamजहातिjahātiचcaयःyaḥएवम्evamवेदveda

अन्वय

यः एषः एतस्मिन् मण्डले पुरुषः [अस्ति], तस्य भूः इति शिरः [अस्ति]; शिरः एकम् [अस्ति], एतत् अक्षरम् एकम् [अस्ति] । भुवः इति बाहू [स्तः]; बाहू द्वौ [स्तः], एते अक्षरे द्वे [स्तः] । स्वः इति प्रतिष्ठा [अस्ति]; प्रतिष्ठे द्वे [स्तः], एते अक्षरे द्वे [स्तः] । तस्य उपनिषत् अहर् इति [अस्ति] । यः एवम् वेद, [सः] पाप्मानम् हन्ति च जहाति च ।

Passage 32.4

योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिरः । एकं शिर एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वरिति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहमिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४ ॥

पदच्छेद

यःyaḥअयम्ayamदक्षिणेdakṣiṇeअक्षन्akṣanपुरुषःpuruṣaḥतस्यtasyaभूःbhūḥइतिitiशिरःśiraḥएकम्ekamशिरःśiraḥएकम्ekamएतत्etatअक्षरम्akṣaramभुवःbhuvaḥइतिitiबाहूbāhūद्वौdvauबाहूbāhūद्वेdveएतेeteअक्षरेakṣareस्वःsvaḥइतिitiप्रतिष्ठाpratiṣṭhāद्वेdveप्रतिष्ठेpratiṣṭheद्वेdveएतेeteअक्षरेakṣareतस्यtasyaउपनिषत्upaniṣatअहम्ahamइतिitiहन्तिhantiपाप्मानम्pāpmānamजहातिjahātiचcaयःyaḥएवम्evamवेदveda

अन्वय

यः अयम् दक्षिणे अक्षन् पुरुषः [अस्ति], तस्य भूः इति शिरः [अस्ति]; शिरः एकम् [अस्ति], एतत् अक्षरम् एकम् [अस्ति] । भुवः इति बाहू [स्तः]; बाहू द्वौ [स्तः], एते अक्षरे द्वे [स्तः] । स्वः इति प्रतिष्ठा [अस्ति]; प्रतिष्ठे द्वे [स्तः], एते अक्षरे द्वे [स्तः] । तस्य उपनिषत् अहम् इति [अस्ति] । यः एवम् वेद, [सः] पाप्मानम् हन्ति च जहाति च ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण ५

Read the whole section →