Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ७

संस्कृत

Passage 19.1

अथैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच । मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत्कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन् वेदेति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स आत्मवित्स सर्ववित् । इति तेभ्योऽब्रवीत् । तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति । वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्च ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ १ ॥

पदच्छेद

अथathaएनम्enamउद्दालकःuddālakaḥआरुणिःāruṇiḥपप्रच्छpapracchaयाज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaमद्रेषुmadreṣuअवसामavasāmaपतञ्चलस्यpatañcalasyaकाप्यस्यkāpyasyaगृहेषुgṛheṣuयज्ञम्yajñamअधीयानाःadhīyānāḥतस्यtasyaआसीत्āsītभार्याbhāryāगन्धर्वगृहीताgandharvagṛhītāतम्tamअपृच्छामapṛcchāmaकःkaḥअसिasiइतिitiसःsaḥअब्रवीत्abravītकबन्धःkabandhaḥआथर्वणःātharvaṇaḥइतिitiसःsaḥअब्रवीत्abravītपतञ्चलम्patañcalamकाप्यम्kāpyamयाज्ञिकान्yājñikānचcaवेत्थvetthaनुnuत्वम्tvamकाप्यkāpyaतत्tatसूत्रम्sūtramयस्मिन्yasminअयम्ayamचcaलोकःlokaḥपरःparaḥचcaलोकःlokaḥसर्वाणिsarvāṇiचcaभूतानिbhūtāniसंदृब्धानिsaṃdṛbdhāniभवन्तिbhavantiइतिitiसःsaḥअब्रवीत्abravītपतञ्चलःpatañcalaḥकाप्यःkāpyaḥनnaअहम्ahamतत्tatभगवन्bhagavanवेदvedaइतिitiसःsaḥअब्रवीत्abravītपतञ्चलम्patañcalamकाप्यम्kāpyamयाज्ञिकान्yājñikānचcaवेत्थvetthaनुnuत्वम्tvamकाप्यkāpyaतम्tamअन्तर्यामिणम्antaryāmiṇamयःyaḥइमम्imamचcaलोकम्lokamपरम्paramचcaलोकम्lokamसर्वाणिsarvāṇiचcaभूतानिbhūtāniअन्तरःantaraḥयमयतिyamayatiसःsaḥअब्रवीत्abravītपतञ्चलःpatañcalaḥकाप्यःkāpyaḥनnaअहम्ahamतम्tamभगवन्bhagavanवेदvedaइतिitiसःsaḥअब्रवीत्abravītपतञ्चलम्patañcalamकाप्यम्kāpyamयाज्ञिकान्yājñikānचcaयःyaḥवैvaiतत्tatकाप्यkāpyaसूत्रम्sūtramविद्यात्vidyātतम्tamचcaअन्तर्यामिणम्antaryāmiṇamइतिitiसःsaḥब्रह्मवित्brahmavitसःsaḥलोकवित्lokavitसःsaḥदेववित्devavitसःsaḥवेदवित्vedavitसःsaḥआत्मवित्ātmavitसःsaḥसर्ववित्sarvavitइतिitiतेभ्यःtebhyaḥअब्रवीत्abravītतत्tatअहम्ahamवेदvedaतत्tatचcaचेत्cetत्वम्tvamयाज्ञवल्क्यyājñavalkyaसूत्रम्sūtramअविद्वान्avidvānतम्tamचcaअन्तर्यामिणम्antaryāmiṇamब्रह्मगवीःbrahmagavīḥउदजसेudajaseमूर्धाmūrdhāतेteविपतिष्यतिvipatiṣyatiवेदvedaवैvaiअहम्ahamगौतमgautamaतत्tatसूत्रम्sūtramतम्tamचcaअन्तर्यामिणम्antaryāmiṇamइतिitiयःyaḥवैvaiइदम्idamकःkaḥचcaब्रूयात्brūyātवेदvedaवेदvedaइतिitiयथाyathāवेत्थvetthaतथाtathāब्रूहिbrūhiइतिiti

अन्वय

अथ आरुणिः उद्दालकः एनम् पप्रच्छ । [सः] ह उवाच—याज्ञवल्क्य, [वयम्] यज्ञम् अधीयानाः मद्रेषु काप्यस्य पतञ्चलस्य गृहेषु अवसाम । तस्य गन्धर्वगृहीता भार्या आसीत् । [वयम्] तम् अपृच्छाम—कः असि इति । सः अब्रवीत्—कबन्धः आथर्वणः [अस्मि] इति । सः काप्यम् पतञ्चलम् याज्ञिकान् च अब्रवीत्—काप्य, यस्मिन् अयम् च लोकः परः च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति, तत् सूत्रम् त्वम् नु वेत्थ इति । काप्यः पतञ्चलः सः अब्रवीत्—भगवन्, अहम् तत् न वेद इति । सः काप्यम् पतञ्चलम् याज्ञिकान् च अब्रवीत्—काप्य, यः अन्तरः इमम् च लोकम् परम् च लोकम् सर्वाणि च भूतानि यमयति, तम् अन्तर्यामिणम् त्वम् नु वेत्थ । काप्यः पतञ्चलः सः अब्रवीत्—भगवन्, अहम् तम् न वेद इति । सः काप्यम् पतञ्चलम् याज्ञिकान् च अब्रवीत्—काप्य, वै यः तत् सूत्रम् तम् च अन्तर्यामिणम् विद्यात् इति, सः ब्रह्मवित् [अस्ति], सः लोकवित् [अस्ति], सः देववित् [अस्ति], सः वेदवित् [अस्ति], सः आत्मवित् [अस्ति], सः सर्ववित् [अस्ति] । इति तेभ्यः अब्रवीत् । [उद्दालकः आह—] अहम् तत् वेद । याज्ञवल्क्य, चेत् त्वम् तत् सूत्रम् तम् च अन्तर्यामिणम् अविद्वान् ब्रह्मगवीः उदजसे, ते मूर्धा विपतिष्यति । [याज्ञवल्क्यः आह—] गौतम, वा अहम् तत् सूत्रम् तम् च अन्तर्यामिणम् वेद इति । [उद्दालकः आह—] यः वा कः च इदम् वेद वेद इति ब्रूयात्; यथा वेत्थ तथा ब्रूहि इति ।

Passage 19.2

स होवाच वायुर्वै गौतम तत्सूत्रम् । वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति । तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति । वायुना हि गौतम सूत्रेण सम्दृब्धानि भवन्तीति । एवमेवैतद्याज्ञवल्क्य । अन्तर्यामिणं ब्रूहीति ॥ २ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaवायुःvāyuḥवैvaiगौतमgautamaतत्tatसूत्रम्sūtramवायुनाvāyunāवैvaiगौतमgautamaसूत्रेणsūtreṇaअयम्ayamचcaलोकःlokaḥपरःparaḥचcaलोकःlokaḥसर्वाणिsarvāṇiचcaभूतानिbhūtāniसंदृब्धानिsaṃdṛbdhāniभवन्तिbhavantiतस्मात्tasmātवैvaiगौतमgautamaपुरुषम्puruṣamप्रेतम्pretamआहुःāhuḥव्यस्रंसिषतvyasraṃsiṣataअस्यasyaअङ्गानिaṅgāniइतिitiवायुनाvāyunāहिhiगौतमgautamaसूत्रेणsūtreṇaसंदृब्धानिsaṃdṛbdhāniभवन्तिbhavantiइतिitiएवम्evamएवevaएतत्etatयाज्ञवल्क्यyājñavalkyaअन्तर्यामिणम्antaryāmiṇamब्रूहिbrūhiइतिiti

Passage 19.3

यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३ ॥

पदच्छेद

यःyaḥपृथिव्याम्pṛthivyāmतिष्ठन्tiṣṭhanपृथिव्याःpṛthivyāḥअन्तरःantaraḥयम्yamपृथिवीpṛthivīनnaवेदvedaयस्यyasyaपृथिवीpṛthivīशरीरम्śarīramयःyaḥपृथिवीम्pṛthivīmअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः पृथिव्याम् तिष्ठन् पृथिव्याः अन्तरः [अस्ति], यम् पृथिवी न वेद, यस्य पृथिवी शरीरम् [अस्ति], यः अन्तरः पृथिवीम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.4

योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ४ ॥

पदच्छेद

यःyaḥअप्सुapsuतिष्ठन्tiṣṭhanअद्भ्यःadbhyaḥअन्तरःantaraḥयम्yamआपःāpaḥनnaविदुःviduḥयस्यyasyaआपःāpaḥशरीरम्śarīramयःyaḥअपःapaḥअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः अप्सु तिष्ठन् अद्भ्यः अन्तरः [अस्ति], यम् आपः न विदुः, यस्य आपः शरीरम् [अस्ति], यः अन्तरः अपः यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.5

योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ५ ॥

पदच्छेद

यःyaḥअग्नौagnauतिष्ठन्tiṣṭhanअग्नेःagneḥअन्तरःantaraḥयम्yamअग्निःagniḥनnaवेदvedaयस्यyasyaअग्निःagniḥशरीरम्śarīramयःyaḥअग्निम्agnimअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः अग्नौ तिष्ठन् अग्नेः अन्तरः [अस्ति], यम् अग्निः न वेद, यस्य अग्निः शरीरम् [अस्ति], यः अन्तरः अग्निम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.6

योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ६ ॥

पदच्छेद

यःyaḥअन्तरिक्षेantarikṣeतिष्ठन्tiṣṭhanअन्तरिक्षात्antarikṣātअन्तरःantaraḥयम्yamअन्तरिक्षम्antarikṣamनnaवेदvedaयस्यyasyaअन्तरिक्षम्antarikṣamशरीरम्śarīramयःyaḥअन्तरिक्षम्antarikṣamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः अन्तरिक्षे तिष्ठन् अन्तरिक्षात् अन्तरः [अस्ति], यम् अन्तरिक्षम् न वेद, यस्य अन्तरिक्षम् शरीरम् [अस्ति], यः अन्तरः अन्तरिक्षम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.7

यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ७ ॥

पदच्छेद

यःyaḥवायौvāyauतिष्ठन्tiṣṭhanवायोःvāyoḥअन्तरःantaraḥयम्yamवायुःvāyuḥनnaवेदvedaयस्यyasyaवायुःvāyuḥशरीरम्śarīramयःyaḥवायुम्vāyumअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः वायौ तिष्ठन् वायोः अन्तरः [अस्ति], यम् वायुः न वेद, यस्य वायुः शरीरम् [अस्ति], यः अन्तरः वायुम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.8

यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ८ ॥

पदच्छेद

यःyaḥदिविdiviतिष्ठन्tiṣṭhanदिवःdivaḥअन्तरःantaraḥयम्yamद्यौःdyauḥनnaवेदvedaयस्यyasyaद्यौःdyauḥशरीरम्śarīramयःyaḥदिवम्divamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः दिवि तिष्ठन् दिवः अन्तरः [अस्ति], यम् द्यौः न वेद, यस्य द्यौः शरीरम् [अस्ति], यः अन्तरः दिवम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.9

य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ९ ॥

पदच्छेद

यःyaḥआदित्येādityeतिष्ठन्tiṣṭhanआदित्यात्ādityātअन्तरःantaraḥयम्yamआदित्यःādityaḥनnaवेदvedaयस्यyasyaआदित्यःādityaḥशरीरम्śarīramयःyaḥआदित्यम्ādityamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः आदित्ये तिष्ठन् आदित्यात् अन्तरः [अस्ति], यम् आदित्यः न वेद, यस्य आदित्यः शरीरम् [अस्ति], यः अन्तरः आदित्यम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.10

यो दिक्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १० ॥

पदच्छेद

यःyaḥदिक्षुdikṣuतिष्ठन्tiṣṭhanदिग्भ्यःdigbhyaḥअन्तरःantaraḥयम्yamदिशःdiśaḥनnaविदुःviduḥयस्यyasyaदिशःdiśaḥशरीरम्śarīramयःyaḥदिशःdiśaḥअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः दिक्षु तिष्ठन् दिग्भ्यः अन्तरः [अस्ति], यम् दिशः न विदुः, यस्य दिशः शरीरम् [अस्ति], यः अन्तरः दिशः यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.11

यश्चन्द्रतारके तिष्ठञ्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ११ ॥

पदच्छेद

यःyaḥचन्द्रतारकेcandratārakeतिष्ठन्tiṣṭhanचन्द्रतारकात्candratārakātअन्तरःantaraḥयम्yamचन्द्रतारकम्candratārakamनnaवेदvedaयस्यyasyaचन्द्रतारकम्candratārakamशरीरम्śarīramयःyaḥचन्द्रतारकम्candratārakamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः चन्द्रतारके तिष्ठन् चन्द्रतारकात् अन्तरः [अस्ति], यम् चन्द्रतारकम् न वेद, यस्य चन्द्रतारकम् शरीरम् [अस्ति], यः अन्तरः चन्द्रतारकम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.12

य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १२ ॥

पदच्छेद

यःyaḥआकाशेākāśeतिष्ठन्tiṣṭhanआकाशात्ākāśātअन्तरःantaraḥयम्yamआकाशःākāśaḥनnaवेदvedaयस्यyasyaआकाशःākāśaḥशरीरम्śarīramयःyaḥआकाशम्ākāśamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः आकाशे तिष्ठन् आकाशात् अन्तरः [अस्ति], यम् आकाशः न वेद, यस्य आकाशः शरीरम् [अस्ति], यः अन्तरः आकाशम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.13

यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १३ ॥

पदच्छेद

यःyaḥतमसिtamasiतिष्ठन्tiṣṭhanतमसःtamasaḥअन्तरःantaraḥयम्yamतमःtamaḥनnaवेदvedaयस्यyasyaतमःtamaḥशरीरम्śarīramयःyaḥतमःtamaḥअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः तमसि तिष्ठन् तमसः अन्तरः [अस्ति], यम् तमः न वेद, यस्य तमः शरीरम् [अस्ति], यः अन्तरः तमः यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.14

यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १४ ॥

पदच्छेद

यःyaḥतेजसिtejasiतिष्ठन्tiṣṭhanतेजसःtejasaḥअन्तरःantaraḥयम्yamतेजःtejaḥनnaवेदvedaयस्यyasyaतेजःtejaḥशरीरम्śarīramयःyaḥतेजःtejaḥअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः तेजसि तिष्ठन् तेजसः अन्तरः [अस्ति], यम् तेजः न वेद, यस्य तेजः शरीरम् [अस्ति], यः अन्तरः तेजः यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.15

अथाधिभूतम् । यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः । इत्यधिभूतम् ॥ १५ ॥

पदच्छेद

अथathaअधिभूतम्adhibhūtamयःyaḥसर्वेषुsarveṣuभूतेषुbhūteṣuतिष्ठन्tiṣṭhanसर्वेभ्यःsarvebhyaḥभूतेभ्यःbhūtebhyaḥअन्तरःantaraḥयम्yamसर्वाणिsarvāṇiभूतानिbhūtāniनnaविदुःviduḥयस्यyasyaसर्वाणिsarvāṇiभूतानिbhūtāniशरीरम्śarīramयःyaḥसर्वाणिsarvāṇiभूतानिbhūtāniअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥइतिitiअधिभूतम्adhibhūtam

Passage 19.16

अथाध्यात्मम् । यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ १६ ॥

पदच्छेद

अथathaअध्यात्मम्adhyātmamयःyaḥप्राणेprāṇeतिष्ठन्tiṣṭhanप्राणात्prāṇātअन्तरःantaraḥयम्yamप्राणःprāṇaḥनnaवेदvedaयस्यyasyaप्राणःprāṇaḥशरीरम्śarīramयःyaḥप्राणम्prāṇamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

अथ अध्यात्मम् । यः प्राणे तिष्ठन् प्राणात् अन्तरः [अस्ति], यम् प्राणः न वेद, यस्य प्राणः शरीरम् [अस्ति], यः अन्तरः प्राणम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.17

यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १७ ॥

पदच्छेद

यःyaḥवाचिvāciतिष्ठन्tiṣṭhanवाचःvācaḥअन्तरःantaraḥयम्yamवाक्vākनnaवेदvedaयस्यyasyaवाक्vākशरीरम्śarīramयःyaḥवाचम्vācamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः वाचि तिष्ठन् वाचः अन्तरः [अस्ति], यम् वाक् न वेद, यस्य वाक् शरीरम् [अस्ति], यः अन्तरः वाचम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.18

यश्चक्षुषि तिष्ठञ्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १८ ॥

पदच्छेद

यःyaḥचक्षुषिcakṣuṣiतिष्ठन्tiṣṭhanचक्षुषःcakṣuṣaḥअन्तरःantaraḥयम्yamचक्षुःcakṣuḥनnaवेदvedaयस्यyasyaचक्षुःcakṣuḥशरीरम्śarīramयःyaḥचक्षुःcakṣuḥअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः चक्षुषि तिष्ठन् चक्षुषः अन्तरः [अस्ति], यम् चक्षुः न वेद, यस्य चक्षुः शरीरम् [अस्ति], यः अन्तरः चक्षुः यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.19

यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १९ ॥

पदच्छेद

यःyaḥश्रोत्रेśrotreतिष्ठन्tiṣṭhanश्रोत्रात्śrotrātअन्तरःantaraḥयम्yamश्रोत्रम्śrotramनnaवेदvedaयस्यyasyaश्रोत्रम्śrotramशरीरम्śarīramयःyaḥश्रोत्रम्śrotramअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः श्रोत्रे तिष्ठन् श्रोत्रात् अन्तरः [अस्ति], यम् श्रोत्रम् न वेद, यस्य श्रोत्रम् शरीरम् [अस्ति], यः अन्तरः श्रोत्रम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.20

यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २० ॥

पदच्छेद

यःyaḥमनसिmanasiतिष्ठन्tiṣṭhanमनसःmanasaḥअन्तरःantaraḥयम्yamमनःmanaḥनnaवेदvedaयस्यyasyaमनःmanaḥशरीरम्śarīramयःyaḥमनःmanaḥअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः मनसि तिष्ठन् मनसः अन्तरः [अस्ति], यम् मनः न वेद, यस्य मनः शरीरम् [अस्ति], यः अन्तरः मनः यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.21

यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २१ ॥

पदच्छेद

यःyaḥत्वचिtvaciतिष्ठन्tiṣṭhanत्वचःtvacaḥअन्तरःantaraḥयम्yamत्वक्tvakनnaवेदvedaयस्यyasyaत्वक्tvakशरीरम्śarīramयःyaḥत्वचम्tvacamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः त्वचि तिष्ठन् त्वचः अन्तरः [अस्ति], यम् त्वक् न वेद, यस्य त्वक् शरीरम् [अस्ति], यः अन्तरः त्वचम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.22

यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २२ ॥

पदच्छेद

यःyaḥविज्ञानेvijñāneतिष्ठन्tiṣṭhanविज्ञानात्vijñānātअन्तरःantaraḥयम्yamविज्ञानम्vijñānamनnaवेदvedaयस्यyasyaविज्ञानम्vijñānamशरीरम्śarīramयःyaḥविज्ञानम्vijñānamअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥ

अन्वय

यः विज्ञाने तिष्ठन् विज्ञानात् अन्तरः [अस्ति], यम् विज्ञानम् न वेद, यस्य विज्ञानम् शरीरम् [अस्ति], यः अन्तरः विज्ञानम् यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।

Passage 19.23

यो रेतसि तिष्ठन् रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः । अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता । एष त आत्मान्तर्याम्यमृतः । अतोऽन्यदार्तम् । ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥

पदच्छेद

यःyaḥरेतसिretasiतिष्ठन्tiṣṭhanरेतसःretasaḥअन्तरःantaraḥयम्yamरेतःretaḥनnaवेदvedaयस्यyasyaरेतःretaḥशरीरम्śarīramयःyaḥरेतःretaḥअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥअदृष्टःadṛṣṭaḥद्रष्टाdraṣṭāअश्रुतःaśrutaḥश्रोताśrotāअमतःamataḥमन्ताmantāअविज्ञातःavijñātaḥविज्ञाताvijñātāनnaअन्यःanyaḥअतःataḥअस्तिastiद्रष्टाdraṣṭāनnaअन्यःanyaḥअतःataḥअस्तिastiश्रोताśrotāनnaअन्यःanyaḥअतःataḥअस्तिastiमन्ताmantāनnaअन्यःanyaḥअतःataḥअस्तिastiविज्ञाताvijñātāएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥअतःataḥअन्यत्anyatआर्तम्ārtamततःtataḥहhaउद्दालकःuddālakaḥआरुणिःāruṇiḥउपररामupararāma

अन्वय

यः रेतसि तिष्ठन् रेतसः अन्तरः [अस्ति], यम् रेतः न वेद, यस्य रेतः शरीरम् [अस्ति], यः अन्तरः रेतः यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।[एषः] अदृष्टः द्रष्टा [अस्ति]; [एषः] अश्रुतः श्रोता [अस्ति]; [एषः] अमतः मन्ता [अस्ति]; [एषः] अविज्ञातः विज्ञाता [अस्ति] । अतः अन्यः द्रष्टा न अस्ति; अतः अन्यः श्रोता न अस्ति; अतः अन्यः मन्ता न अस्ति; अतः अन्यः विज्ञाता न अस्ति । एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] । अतः अन्यत् आर्तम् [अस्ति] । ततः ह आरुणिः उद्दालकः उपरराम ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ७

Read the whole section →