Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण १

संस्कृत

Passage 22.1

जनको ह वैदेह आसां चक्रे । अथ ह याज्ञवल्क्य आवव्राज । तं होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छनण्वन्तानीति । उभयमेव संराडिति होवाच ॥ १ ॥

पदच्छेद

जनकःjanakaḥहhaवैदेहःvaidehaḥआसाम्āsāmचक्रेcakreअथathaहhaयाज्ञवल्क्यःyājñavalkyaḥआवव्राजāvavrājaतम्tamहhaउवाचuvācaयाज्ञवल्क्यyājñavalkyaकिमर्थम्kimarthamअचारीःacārīḥपशून्paśūnइच्छन्icchanअण्वन्तानिaṇvantāniइतिitiउभयम्ubhayamएवevaसम्राट्samrāṭइतिitiहhaउवाचuvāca

Passage 22.2

यत्ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्मे जित्वा शैलिनिः वाग्वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेति । अवदतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राडिति होवाच । वाचा वै सम्राड्बन्धुः प्रज्ञायते । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव संराट्प्रज्ञायन्ते । वाग्वै सम्राट्परमं ब्रह्म । नैनं वाग्जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ २ ॥

पदच्छेद

यत्yatतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeजित्वाjitvāशैलिनिःśailiniḥवाक्vākवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatशैलिनिःśailiniḥअब्रवीत्abravītवाक्vākवैvaiब्रह्मbrahmaइतिitiअवदतःavadataḥहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaवाक्vākएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāप्रज्ञाprajñāइतिitiएनत्enatउपासीतupāsītaकाkāप्रज्ञताprajñatāयाज्ञवल्क्यyājñavalkyaवाक्vākएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaवाचाvācāवैvaiसम्राट्samrāṭबन्धुःbandhuḥप्रज्ञायतेprajñāyateऋग्वेदःṛgvedaḥयजुर्वेदःyajurvedaḥसामवेदःsāmavedaḥअथर्वाङ्गिरसःatharvāṅgirasaḥइतिहासःitihāsaḥपुराणम्purāṇamविद्याःvidyāḥउपनिषदःupaniṣadaḥश्लोकाःślokāḥसूत्राणिsūtrāṇiअनुव्याख्यानानिanuvyākhyānāniव्याख्यानानिvyākhyānāniइष्टम्iṣṭamहुतम्hutamआशितम्āśitamपायितम्pāyitamअयम्ayamचcaलोकःlokaḥपरःparaḥचcaलोकःlokaḥसर्वाणिsarvāṇiचcaभूतानिbhūtāniवाचाvācāएवevaसम्राट्samrāṭप्रज्ञायन्तेprajñāyanteवाक्vākवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamवाक्vākजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

Passage 22.3

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्म उदङ्कः शौल्बायनः । प्राणो वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेति । अप्राणतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । प्राण एवायतनमाकाशः प्रतिष्ठा । प्रियमित्येनदुपासीत । का प्रियता याज्ञवल्क्य । प्राण एव सम्राडिति होवाच । प्राणस्य वै सम्राट्कामायायाज्यं याजयति । अप्रतिगृह्यस्य प्रतिगृह्णाति । अपि तत्र वधाशङ्का भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय । प्राणो वै सम्राट्परमं ब्रह्म । नैनं प्राणो जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहह् । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥

पदच्छेद

यत्yatएवevaतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeउदङ्कःudaṅkaḥशौल्बायनःśaulbāyanaḥप्राणःprāṇaḥवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatशौल्बायनःśaulbāyanaḥअब्रवीत्abravītप्राणःprāṇaḥवैvaiब्रह्मbrahmaइतिitiअप्राणतःaprāṇataḥहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaप्राणःprāṇaḥएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāप्रियम्priyamइतिitiएनत्enatउपासीतupāsītaकाkāप्रियताpriyatāयाज्ञवल्क्यyājñavalkyaप्राणःprāṇaḥएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaप्राणस्यprāṇasyaवैvaiसम्राट्samrāṭकामायkāmāyaअयाज्यम्ayājyamयाजयतिyājayatiअप्रतिगृह्यस्यapratigṛhyasyaप्रतिगृह्णातिpratigṛhṇātiअपिapiतत्रtatraवधाशङ्काvadhāśaṅkāभवतिbhavatiयाम्yāmदिशम्diśamएतिetiप्राणस्यprāṇasyaएवevaसम्राट्samrāṭकामायkāmāyaप्राणःprāṇaḥवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamप्राणःprāṇaḥजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

Passage 22.4

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्मे बर्कुर्वार्ष्णः । चक्षुर्वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेति । अपश्यतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । चक्षुरेवायतनमाकाशः प्रतिष्ठा । सत्यमित्येतदुपासीत । का सत्यता याज्ञवल्क्य । चक्षुरेव सम्राडिति होवाच । चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति । स आहाद्राक्षमिति तत्सत्यं भवति । चक्षुर्वै सम्राट्परमं ब्रह्म । नैनं चक्षुर्जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥

पदच्छेद

यत्yatएवevaतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeबर्कुःbarkuḥवार्ष्णःvārṣṇaḥचक्षुःcakṣuḥवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatवार्ष्णःvārṣṇaḥअब्रवीत्abravītचक्षुःcakṣuḥवैvaiब्रह्मbrahmaइतिitiअपश्यतःapaśyataḥहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaचक्षुःcakṣuḥएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāसत्यम्satyamइतिitiएतत्etatउपासीतupāsītaकाkāसत्यताsatyatāयाज्ञवल्क्यyājñavalkyaचक्षुःcakṣuḥएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaचक्षुषाcakṣuṣāवैvaiसम्राट्samrāṭपश्यन्तम्paśyantamआहुःāhuḥअद्राक्षीःadrākṣīḥइतिitiसःsaḥआहāhaअद्राक्षम्adrākṣamइतिitiतत्tatसत्यम्satyamभवतिbhavatiचक्षुःcakṣuḥवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamचक्षुःcakṣuḥजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

अन्वय

[याज्ञवल्क्यः आह—] यत् एव ते कश्चित् अब्रवीत्, तत् शृणवाम इति । [जनकः आह—] बर्कुः वार्ष्णः मे अब्रवीत्—वै चक्षुः ब्रह्म [अस्ति] इति । [याज्ञवल्क्यः आह—] यथा मातृमान् पितृमान् आचार्यवान् [आचार्यः] ब्रूयात्, तथा वार्ष्णः तत् अब्रवीत्—वै चक्षुः ब्रह्म [अस्ति] इति । हि अपश्यतः किम् स्यात् इति । तु ते तस्य आयतनम् प्रतिष्ठाम् [च] अब्रवीत् [किम्] । [जनकः आह—] मे न अब्रवीत् इति । [याज्ञवल्क्यः आह—] सम्राट्, वा एतत् एकपाद् [ब्रह्म अस्ति] इति । [जनकः आह—] याज्ञवल्क्य, सः वै [त्वम्] नः ब्रूहि । [याज्ञवल्क्यः आह—] चक्षुः एव आयतनम् [अस्ति]; आकाशः प्रतिष्ठा [अस्ति] । सत्यम् इति एतद् उपासीत । [जनकः पप्रच्छ—] याज्ञवल्क्य, का सत्यता । [याज्ञवल्क्यः] ह उवाच—सम्राट्, चक्षुः एव [सत्यम् अस्ति] इति । सम्राट्, वै चक्षुषा पश्यन्तम् आहुः—अद्राक्षीः इति । सः आह—अद्राक्षम् इति । तत् सत्यम् भवति । सम्राट्, वै चक्षुः परमम् ब्रह्म [अस्ति] । यः एवम् विद्वान् एतद् उपास्ते, एनम् चक्षुः न जहाति; सर्वाणि भूतानि एनम् अभिक्षरन्ति; [सः] देवः भूत्वा देवान् अप्येति । जनकः वैदेहः ह उवाच—हस्त्यृषभम् सहस्रम् ददामि इति । सः याज्ञवल्क्यः ह उवाच—मे पिता अमन्यत, अननुशिष्य [धनम्] न हरेत् इति ।

Passage 22.5

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्मे गर्दभीविपीतो भारद्वाजः । श्रोत्रं वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेति । अशृण्वतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्तमित्येनदुपासीत । कानन्तता याज्ञवल्क्य । दिश एव सम्राडिति होवाच । तस्माद्वै सम्राडपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति । अनन्ता हि दिशः । दिशो वै सम्राट्श्रोत्रम् । श्रोत्रं वै सम्राट्परमं ब्रह्म । नैनं श्रोत्रं जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥

पदच्छेद

यत्yatएवevaतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeगर्दभीविपीतःgardabhīvipītaḥभारद्वाजःbhāradvājaḥश्रोत्रम्śrotramवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatभारद्वाजःbhāradvājaḥअब्रवीत्abravītश्रोत्रम्śrotramवैvaiब्रह्मbrahmaइतिitiअशृण्वतःaśṛṇvataḥहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaश्रोत्रम्śrotramएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāअनन्तम्anantamइतिitiएनत्enatउपासीतupāsītaकाkāअनन्तताanantatāयाज्ञवल्क्यyājñavalkyaदिशःdiśaḥएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaतस्मात्tasmātवैvaiसम्राट्samrāṭअपिapiयाम्yāmकाञ्चkāñcaदिशम्diśamगच्छतिgacchatiनnaएवevaअस्याःasyāḥअन्तम्antamगच्छतिgacchatiअनन्ताःanantāḥहिhiदिशःdiśaḥदिशःdiśaḥवैvaiसम्राट्samrāṭश्रोत्रम्śrotramश्रोत्रम्śrotramवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamश्रोत्रम्śrotramजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

अन्वय

[याज्ञवल्क्यः आह—] यत् एव ते कश्चित् अब्रवीत्, तत् शृणवाम इति । [जनकः आह—] गर्दभीविपीतः भारद्वाजः मे अब्रवीत्—वै श्रोत्रम् ब्रह्म [अस्ति] इति । [याज्ञवल्क्यः आह—] यथा मातृमान् पितृमान् आचार्यवान् [आचार्यः] ब्रूयात्, तथा भारद्वाजः तत् अब्रवीत्—वै श्रोत्रम् ब्रह्म [अस्ति] इति । हि अशृण्वतः किम् स्यात् इति । तु ते तस्य आयतनम् प्रतिष्ठाम् [च] अब्रवीत् [किम्] । [जनकः आह—] मे न अब्रवीत् इति । [याज्ञवल्क्यः आह—] सम्राट्, वा एतत् एकपाद् [ब्रह्म अस्ति] इति । [जनकः आह—] याज्ञवल्क्य, सः वै [त्वम्] नः ब्रूहि । [याज्ञवल्क्यः आह—] श्रोत्रम् एव आयतनम् [अस्ति]; आकाशः प्रतिष्ठा [अस्ति] । अनन्तम् इति एनद् उपासीत । [जनकः पप्रच्छ—] याज्ञवल्क्य, का अनन्तता । [याज्ञवल्क्यः] ह उवाच—सम्राट्, दिशः एव [अनन्ताः सन्ति] इति । सम्राट्, वै तस्मात् अपि याम् काम् च दिशम् [पुरुषः] गच्छति, अस्याः अन्तम् न एव गच्छति । हि दिशः अनन्ताः [सन्ति] । सम्राट्, वै दिशः श्रोत्रम् [सन्ति] । सम्राट्, वै श्रोत्रम् परमम् ब्रह्म [अस्ति] । यः एवम् विद्वान् एतद् उपास्ते, एनम् श्रोत्रम् न जहाति; सर्वाणि भूतानि एनम् अभिक्षरन्ति; [सः] देवः भूत्वा देवान् अप्येति । जनकः वैदेहः ह उवाच—हस्त्यृषभम् सहस्रम् ददामि इति । सः याज्ञवल्क्यः ह उवाच—मे पिता अमन्यत, अननुशिष्य [धनम्] न हरेत् इति ।

Passage 22.6

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्मे सत्यकामो जाबालः मनो वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेति । अमनसो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञावल्क्य । मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत । कानन्दता याज्ञवल्क्य । मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते । स आनन्दः । मनो वै सम्राट्परमं ब्रह्म । नैनं मनो जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥

पदच्छेद

यत्yatएवevaतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeसत्यकामःsatyakāmaḥजाबालःjābālaḥमनःmanaḥवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatजाबालःjābālaḥअब्रवीत्abravītमनःmanaḥवैvaiब्रह्मbrahmaइतिitiअमनसःamanasaḥहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaमनःmanaḥएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāआनन्दःānandaḥइतिitiएनत्enatउपासीतupāsītaकाkāआनन्दताānandatāयाज्ञवल्क्यyājñavalkyaमनःmanaḥएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaमनसाmanasāवैvaiसम्राट्samrāṭस्त्रियम्striyamअभिabhiहार्यतिhāryatiतस्याम्tasyāmप्रतिरूपःpratirūpaḥपुत्रःputraḥजायतेjāyateसःsaḥआनन्दःānandaḥमनःmanaḥवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamमनःmanaḥजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

Passage 22.7

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्मे विदग्धः शाकल्यः । हृदयं वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेति । अहृदयस्य हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । हृदयमेवायतनमाकाशः प्रतिष्ठा । स्थितिरित्येनदुपासीत । का स्थितिता याज्ञवल्क्य । हृदयमेव सम्राडिति होवाच । हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् । हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा । हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । हृदयं वै सम्राट्परमं ब्रह्म । नैनं हृदयं जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥

पदच्छेद

यत्yatएवevaतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeविदग्धःvidagdhaḥशाकल्यःśākalyaḥहृदयम्hṛdayamवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatशाकल्यःśākalyaḥअब्रवीत्abravītहृदयम्hṛdayamवैvaiब्रह्मbrahmaइतिitiअहृदयस्यahṛdayasyaहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaहृदयम्hṛdayamएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāस्थितिःsthitiḥइतिitiएनत्enatउपासीतupāsītaकाkāस्थितिताsthititāयाज्ञवल्क्यyājñavalkyaहृदयम्hṛdayamएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaहृदयम्hṛdayamवैvaiसम्राट्samrāṭसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmआयतनम्āyatanamहृदयम्hṛdayamवैvaiसम्राट्samrāṭसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmप्रतिष्ठाpratiṣṭhāहृदयेhṛdayeहिhiएवevaसम्राट्samrāṭसर्वाणिsarvāṇiभूतानिbhūtāniप्रतिष्ठितानिpratiṣṭhitāniभवन्तिbhavantiहृदयम्hṛdayamवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamहृदयम्hṛdayamजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

अन्वय

[याज्ञवल्क्यः आह—] यत् एव ते कश्चित् अब्रवीत्, तत् शृणवाम इति । [जनकः आह—] विदग्धः शाकल्यः मे अब्रवीत्—वै हृदयम् ब्रह्म [अस्ति] इति । [याज्ञवल्क्यः आह—] यथा मातृमान् पितृमान् आचार्यवान् [आचार्यः] ब्रूयात्, तथा शाकल्यः तत् अब्रवीत्—वै हृदयम् ब्रह्म [अस्ति] इति । हि अहृदयस्य किम् स्यात् इति । तु ते तस्य आयतनम् प्रतिष्ठाम् [च] अब्रवीत् [किम्] । [जनकः आह—] मे न अब्रवीत् इति । [याज्ञवल्क्यः आह—] सम्राट्, वा एतत् एकपाद् [ब्रह्म अस्ति] इति । [जनकः आह—] याज्ञवल्क्य, सः वै [त्वम्] नः ब्रूहि । [याज्ञवल्क्यः आह—] हृदयम् एव आयतनम् [अस्ति]; आकाशः प्रतिष्ठा [अस्ति] । स्थितिः इति एनद् उपासीत । [जनकः पप्रच्छ—] याज्ञवल्क्य, का स्थितिता । [याज्ञवल्क्यः] ह उवाच—सम्राट्, हृदयम् एव [स्थितिः अस्ति] इति । सम्राट्, वै हृदयम् सर्वेषाम् भूतानाम् आयतनम् [अस्ति] । सम्राट्, वै हृदयम् सर्वेषाम् भूतानाम् प्रतिष्ठा [अस्ति] । सम्राट्, हि एव हृदये सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । सम्राट्, वै हृदयम् परमम् ब्रह्म [अस्ति] । यः एवम् विद्वान् एतद् उपास्ते, एनम् हृदयम् न जहाति; सर्वाणि भूतानि एनम् अभिक्षरन्ति; [सः] देवः भूत्वा देवान् अप्येति । जनकः वैदेहः ह उवाच—हस्त्यृषभम् सहस्रम् ददामि इति । सः याज्ञवल्क्यः ह उवाच—मे पिता अमन्यत, अननुशिष्य [धनम्] न हरेत् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण १

Read the whole section →