Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ५

संस्कृत

Passage 17.1

अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच । यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा । उभे ह्येते एषणे एव भवतः । तस्माद्ब्रामणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः । अमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव । अतोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamकहोलःkaholaḥकौषीतकेयःkauṣītakeyaḥपप्रच्छpapracchaयाज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्yatएवevaसाक्षात्sākṣātअपरोक्षात्aparokṣātब्रह्मbrahmaयःyaḥआत्माātmāसर्वान्तरःsarvāntaraḥतम्tamमेmeव्याचक्ष्वvyācakṣvaइतिitiएषःeṣaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥकतमःkatamaḥयाज्ञवल्क्यyājñavalkyaसर्वान्तरःsarvāntaraḥयःyaḥअशनायापिपासेaśanāyāpipāseशोकम्śokamमोहम्mohamजराम्jarāmमृत्युम्mṛtyumअत्येतिatyetiएतम्etamवैvaiतम्tamआत्मानम्ātmānamविदित्वाviditvāब्राह्मणाःbrāhmaṇāḥपुत्रैषणायाःputraiṣaṇāyāḥचcaवित्तैषणायाःvittaiṣaṇāyāḥचcaलोकैषणायाःlokaiṣaṇāyāḥचcaव्युत्थायvyutthāyaअथathaभिक्षाचर्यम्bhikṣācaryamचरन्तिcarantiयाyāहिhiएवevaपुत्रैषणाputraiṣaṇāसाsāवित्तैषणाvittaiṣaṇāयाyāवित्तैषणाvittaiṣaṇāसाsāलोकैषणाlokaiṣaṇāउभेubheहिhiएतेeteएषणेeṣaṇeएवevaभवतःbhavataḥतस्मात्tasmātब्राह्मणःbrāhmaṇaḥपाण्डित्यम्pāṇḍityamनिर्विद्यnirvidyaबाल्येनbālyenaतिष्ठासेत्tiṣṭhāsetबाल्यम्bālyamचcaपाण्डित्यम्pāṇḍityamचcaनिर्विद्यnirvidyaअथathaमुनिःmuniḥअमौनम्amaunamचcaमौनम्maunamचcaनिर्विद्यnirvidyaअथathaब्राह्मणःbrāhmaṇaḥसःsaḥब्राह्मणःbrāhmaṇaḥकेनkenaस्यात्syātयेनyenaस्यात्syātतेनtenaईदृशःīdṛśaḥएवevaअतःataḥअन्यत्anyatआर्तम्ārtamततःtataḥहhaकहोलःkaholaḥकौषीतकेयःkauṣītakeyaḥउपररामupararāma

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ५

Read the whole section →