Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण १४

संस्कृत

Passage 41.1

भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥

पदच्छेद

भूमिःbhūmiḥअन्तरिक्षम्antarikṣamद्यौःdyauḥइतिitiअष्टौaṣṭauअक्षराणिakṣarāṇiअष्टाक्षरम्aṣṭākṣaramहhaवैvaiएकम्ekamगायत्र्यैgāyatryaiपदम्padamएतत्etatउuहhaएवevaअस्याःasyāḥएतत्etatसःsaḥयावत्yāvatएषुeṣuत्रिषुtriṣuलोकेषुlokeṣuतावत्tāvatहhaजयतिjayatiयःyaḥअस्याःasyāḥएतत्etatएवम्evamपदम्padamवेदveda

अन्वय

भूमिः, अन्तरिक्षम्, द्यौः इति अष्टौ अक्षराणि [सन्ति] । गायत्र्यै एकम् पदम् अष्टाक्षरम् ह वै [अस्ति] । एतत् उ ह एव अस्याः एतत् [पदम् अस्ति] । यः अस्याः एतत् पदम् एवम् वेद, सः एषु त्रिषु लोकेषु यावत् [जेतव्यम् अस्ति], तावत् ह जयति ।

Passage 41.2

ऋचो यजूंषि सामानीत्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥

पदच्छेद

ऋचःṛcaḥयजूंषिyajūṃṣiसामानिsāmāniइतिitiअष्टौaṣṭauअक्षराणिakṣarāṇiअष्टाक्षरम्aṣṭākṣaramहhaवैvaiएकम्ekamगायत्र्यैgāyatryaiपदम्padamएतत्etatउuहhaएवevaअस्याःasyāḥएतत्etatसःsaḥयावतीyāvatīइयम्iyamत्रयीtrayīविद्याvidyāतावत्tāvatहhaजयतिjayatiयःyaḥअस्याःasyāḥएतत्etatएवम्evamपदम्padamवेदveda

अन्वय

ऋचः, यजूंषि, सामानि इति अष्टौ अक्षराणि [सन्ति] । गायत्र्यै एकम् पदम् अष्टाक्षरम् ह वै [अस्ति] । एतत् उ ह एव अस्याः एतत् [पदम् अस्ति] । यः अस्याः एतत् पदम् एवम् वेद, सः इयम् त्रयी विद्या यावती [अस्ति], तावत् ह जयति ।

Passage 41.3

प्राणोऽपानो व्यान इत्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति । यद्वै चतुर्थं तत्तुरीयम् । दर्शतं पदमिति ददृश इव ह्येषः । परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति । एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३ ॥

पदच्छेद

प्राणःprāṇaḥअपानःapānaḥव्यानःvyānaḥइतिitiअष्टौaṣṭauअक्षराणिakṣarāṇiअष्टाक्षरम्aṣṭākṣaramहhaवैvaiएकम्ekamगायत्र्यैgāyatryaiपदम्padamएतत्etatउuहhaएवevaअस्याःasyāḥएतत्etatसःsaḥयावत्yāvatइदम्idamप्राणिprāṇiतावत्tāvatहhaजयतिjayatiयःyaḥअस्याःasyāḥएतत्etatएवम्evamपदम्padamवेदvedaअथathaअस्याःasyāḥएतत्etatएवevaतुरीयम्turīyamदर्शतम्darśatamपदम्padamपरोरजाःparorajāḥयःyaḥएषःeṣaḥतपतिtapatiयत्yatवैvaiचतुर्थम्caturthamतत्tatतुरीयम्turīyamदर्शतम्darśatamपदम्padamइतिitiददृशेdadṛśeइवivaहिhiएषःeṣaḥपरोरजाःparorajāḥइतिitiसर्वम्sarvamउuहिhiएवevaएषःeṣaḥरजःrajaḥउपरिupariउपरिupariतपतिtapatiएवम्evamहhaएवevaश्रियाśriyāयशसाyaśasāतपतिtapatiयःyaḥअस्याःasyāḥएतत्etatएवम्evamपदम्padamवेदveda

अन्वय

प्राणः, अपानः, व्यानः इति अष्टौ अक्षराणि [सन्ति] । गायत्र्यै एकम् पदम् अष्टाक्षरम् ह वै [अस्ति] । एतत् उ ह एव अस्याः एतत् [पदम् अस्ति] । यः अस्याः एतत् पदम् एवम् वेद, सः यावत् इदम् प्राणि [अस्ति], तावत् ह जयति । अथ यः एषः परोरजाः तपति, [सः] अस्याः एतत् एव तुरीयम् दर्शतम् पदम् [अस्ति] । यत् वै चतुर्थम् [अस्ति], तत् तुरीयम् [अस्ति] । एषः हि ददृशे इव [इति] दर्शतम् पदम् इति [उच्यते] । एषः हि सर्वम् उ रजः उपरि उपरि एव तपति इति परोरजाः इति [उच्यते] । यः अस्याः एतत् पदम् एवम् वेद, [सः] एवम् ह एव श्रिया यशसा तपति ।

Passage 41.4

सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । तद्वै तत्सत्ये प्रतिष्ठितम् । चक्षुर्वै सत्यम् । चक्षुर्हि वै सत्यम् । तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति । य एवं ब्रूयादहमदर्शमिति । तस्मा एव श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितम् । प्राणो वै बलम् । तत्प्राणे प्रतिष्ठितम् । तस्मादाहुर्बलं सत्यादोगीय इति । एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयांस्तत्रे । प्राणा वै गयाः । तत्प्राणास्तत्रे । तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम । स यामेवामूं सावित्रीमन्वाहैषैव सा । स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ४ ॥

पदच्छेद

साsāएषाeṣāगायत्रीgāyatrīएतस्मिन्etasminतुरीयेturīyeदर्शतेdarśateपदेpadeपरोरजसिparorajasiप्रतिष्ठिताpratiṣṭhitāतत्tatवैvaiतत्tatसत्येsatyeप्रतिष्ठितम्pratiṣṭhitamचक्षुःcakṣuḥवैvaiसत्यम्satyamचक्षुःcakṣuḥहिhiवैvaiसत्यम्satyamतस्मात्tasmātयत्yatइदानीम्idānīmद्वौdvauविवदमानौvivadamānauएयातम्eyātamअहम्ahamअदर्शम्adarśamअहम्ahamअश्रौषम्aśrauṣamइतिitiयःyaḥएवम्evamब्रूयात्brūyātअहम्ahamअदर्शम्adarśamइतिitiतस्मैtasmaiएवevaश्रद्दध्यामśraddadhyāmaतत्tatवैvaiतत्tatसत्यम्satyamबलेbaleप्रतिष्ठितम्pratiṣṭhitamप्राणःprāṇaḥवैvaiबलम्balamतत्tatप्राणेprāṇeप्रतिष्ठितम्pratiṣṭhitamतस्मात्tasmātआहुःāhuḥबलम्balamसत्यात्satyātओगीयःogīyaḥइतिitiएवम्evamवैvaiएषाeṣāगायत्रीgāyatrīअध्यात्मम्adhyātmamप्रतिष्ठिताpratiṣṭhitāसाsāहhaएषाeṣāगयान्gayānतत्रेtatreप्राणाःprāṇāḥवैvaiगयाःgayāḥतत्tatप्राणान्prāṇānतत्रेtatreतत्tatयत्yatगयान्gayānतत्रेtatreतस्मात्tasmātगायत्रीgāyatrīनामnāmaसःsaḥयाम्yāmएवevaअमूम्amūmसावित्रीम्sāvitrīmअन्वाहanvāhaएषाeṣāएवevaसाsāसःsaḥयस्मैyasmaiअन्वाहanvāhaतस्यtasyaप्राणान्prāṇānत्रायतेtrāyate

Passage 41.5

तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः । वागनुष्टुप् । एतद्वाचमनुब्रूम इति । न तथा कुर्यात् । गायत्रीमेव सावित्रीमनुब्रूयात् । यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५ ॥

पदच्छेद

ताम्tāmहhaएताम्etāmएकेekeसावित्रीम्sāvitrīmअनुष्टुभम्anuṣṭubhamअन्वाहुःanvāhuḥवाक्vākअनुष्टुप्anuṣṭupएतत्etatवाचम्vācamअनुब्रूमःanubrūmaḥइतिitiनnaतथाtathāकुर्यात्kuryātगायत्रीम्gāyatrīmएवevaसावित्रीम्sāvitrīmअनुब्रूयात्anubrūyātयदिyadiहhaवैvaiअपिapiएवम्वित्evamvitबहुbahuइवivaप्रतिगृह्णातिpratigṛhṇātiनnaहhaएवevaतत्tatगायत्र्याःgāyatryāḥएकम्ekamचनcanaपदम्padamप्रतिprati

अन्वय

एके ताम् ह एताम् अनुष्टुभम् सावित्रीम्, वाक् अनुष्टुप् [अस्ति]; एतत् वाचम् अनुब्रूमः इति अन्वाहुः । तथा न कुर्यात्; गायत्रीम् एव सावित्रीम् अनुब्रूयात् । यदि ह वै अपि एवम्वित् बहु इव प्रतिगृह्णाति, तत् गायत्र्याः एकम् चन पदम् प्रति न ह एव [पर्याप्तम् भवति] ।

Passage 41.6

स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् । अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् । अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति । नैव केन चनाप्यम् । कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६ ॥

पदच्छेद

सःsaḥयःyaḥइमान्imānत्रीन्trīnलोकान्lokānपूर्णान्pūrṇānप्रतिगृह्णीयात्pratigṛhṇīyātसःsaḥअस्याःasyāḥएतत्etatप्रथमम्prathamamपदम्padamआप्नुयात्āpnuyātअथathaयावतीyāvatīइयम्iyamत्रयीtrayīविद्याvidyāयःyaḥतावत्tāvatप्रतिगृह्णीयात्pratigṛhṇīyātसःsaḥअस्याःasyāḥएतत्etatद्वितीयम्dvitīyamपदम्padamआप्नुयात्āpnuyātअथathaयावत्yāvatइदम्idamप्राणिprāṇiयःyaḥतावत्tāvatप्रतिगृह्णीयात्pratigṛhṇīyātसःsaḥअस्याःasyāḥएतत्etatतृतीयम्tṛtīyamपदम्padamआप्नुयात्āpnuyātअथathaअस्याःasyāḥएतत्etatएवevaतुरीयम्turīyamदर्शतम्darśatamपदम्padamपरोरजाःparorajāḥयःyaḥएषःeṣaḥतपतिtapatiनnaएवevaकेनkenaचनcanaआप्यम्āpyamकुतःkutaḥउuएतावत्etāvatप्रतिगृह्णीयात्pratigṛhṇīyāt

अन्वय

सः यः इमान् त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात्, सः अस्याः एतत् प्रथमम् पदम् आप्नुयात् । अथ इयम् त्रयी विद्या यावती [अस्ति], यः तावत् प्रतिगृह्णीयात्, सः अस्याः एतत् द्वितीयम् पदम् आप्नुयात् । अथ यावत् इदम् प्राणि [अस्ति], यः तावत् प्रतिगृह्णीयात्, सः अस्याः एतत् तृतीयम् पदम् आप्नुयात् । अथ यः एषः परोरजाः तपति, [सः] अस्याः एतत् एव तुरीयम् दर्शतम् पदम् [अस्ति] । [तत्] केन चन नैव आप्यम् [अस्ति] । कुतः उ एतावत् प्रतिगृह्णीयात् ।

Passage 41.7

तस्या उपस्थानम् । गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि । अपदसि । न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसे । असावदो मा प्रापदिति । यं द्विष्यादसावस्मै कामो मा समर्धीति वा । न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते । अहमदः प्रापमिति वा ॥ ७ ॥

पदच्छेद

तस्याःtasyāḥउपस्थानम्upasthānamगायत्रिgāyatriअसिasiएकपदीekapadīद्विपदीdvipadīत्रिपदीtripadīचतुष्पदिcatuṣpadiअपत्apatअसिasiनnaहिhiपद्यसेpadyaseनमःnamaḥतेteतुरीयायturīyāyaदर्शतायdarśatāyaपदायpadāyaपरोरजसेparorajaseअसौasauअदःadaḥमाmāप्रापत्prāpatइतिitiयम्yamद्विष्यात्dviṣyātअसौasauअस्मैasmaiकामःkāmaḥमाmāसमर्धिsamardhiइतिitiवाvāनnaहhaएवevaअस्मैasmaiसःsaḥकामःkāmaḥसमृध्यतेsamṛdhyateयस्मैyasmaiएवम्evamउपतिष्ठतेupatiṣṭhateअहम्ahamअदःadaḥप्रापम्prāpamइतिitiवाvā

Passage 41.8

एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः । अथ कथं हस्तीभूतो वहसीति । मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच । तस्या अग्निरेव मुखम् । यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति । एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥ ८ ॥

पदच्छेद

एतत्etatहhaवैvaiतत्tatजनकःjanakaḥवैदेहःvaidehaḥबुडिलम्buḍilamआश्वतराश्विम्āśvatarāśvimउवाचuvācaयत्yatनुnuहhaउuतत्tatगायत्रीवित्gāyatrīvitअब्रूथाःabrūthāḥअथathaकथम्kathamहस्तीभूतःhastībhūtaḥवहसिvahasiइतिitiमुखम्mukhamहिhiअस्याःasyāḥसम्राट्samrāṭनnaविदाम्vidāmचकरcakaraइतिitiहhaउवाचuvācaतस्याःtasyāḥअग्निःagniḥएवevaमुखम्mukhamयदिyadiहhaवैvaiअपिapiबहुbahuइवivaअग्नौagnauअभ्यादधतिabhyādadhatiसर्वम्sarvamएवevaतत्tatसंदहतिsaṃdahatiएवम्evamहhaएवevaएवम्वित्evamvitयदिyadiअपिapiबहुbahuइवivaपापम्pāpamकुरुतेkuruteसर्वम्sarvamएवevaतत्tatसंप्सायsaṃpsāyaशुद्धःśuddhaḥपूतःpūtaḥअजरःajaraḥअमृतःamṛtaḥसंभवतिsaṃbhavati

अन्वय

एतत् ह वै तत् जनकः वैदेहः बुडिलम् आश्वतराश्विम्, यत् नु हो तत् [अहम्] गायत्रीवित् [इति] अब्रूथाः, अथ कथम् हस्तीभूतः वहसि इति उवाच । [बुडिलः], सम्राट्, अस्याः मुखम् हि न विदाम् चकार इति ह उवाच । तस्याः अग्निः एव मुखम् [अस्ति] । यदि ह वै अपि बहु इव अग्नौ अभ्यादधति, [अग्निः] तत् सर्वम् एव सन्दहति । एवम् ह एव एवम्वित् यदि अपि बहु इव पापम् कुरुते, तत् सर्वम् एव सम्प्साय शुद्धः पूतः अजरः अमृतः सम्भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण १४

Read the whole section →