Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ८

संस्कृत

Passage 20.1

अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि । तौ चेन्मे विवक्ष्यति । न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति ॥ १ ॥

पदच्छेद

अथathaहhaवाचक्नवीvācaknavīउवाचuvācaब्राह्मणाःbrāhmaṇāḥभगवन्तःbhagavantaḥहन्तhantaअहम्ahamइमम्imamद्वौdvauप्रश्नौpraśnauप्रक्ष्यामिprakṣyāmiतौtauचेत्cetमेmeविवक्ष्यतिvivakṣyatiनnaवैvaiजातुjātuयुष्माकम्yuṣmākamइमम्imamकःkaḥचित्citब्रह्मोद्यम्brahmodyamजेताjetāइतिitiपृच्छpṛcchaगार्गिgārgiइतिiti

अन्वय

अथ ह वाचक्नवी उवाच—ब्राह्मणाः भगवन्तः, हन्त अहम् इमम् द्वौ प्रश्नौ प्रक्ष्यामि । चेत् [सः] मे तौ विवक्ष्यति, वै युष्माकम् [मध्ये] कश्चित् जातु इमम् ब्रह्मोद्यम् [प्रति] न जेता इति । [ब्राह्मणाः आहुः—] गार्गि, पृच्छ इति ।

Passage 20.2

सा होवाच अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २ ॥

पदच्छेद

साsāहhaउवाचuvācaअहम्ahamवैvaiत्वाtvāयाज्ञवल्क्यyājñavalkyaयथाyathāकाश्यःkāśyaḥवाvāवैदेहःvaidehaḥवाvāउग्रपुत्रःugraputraḥउज्ज्यम्ujjyamधनुःdhanuḥअधिज्यम्adhijyamकृत्वाkṛtvāद्वौdvauबाणवन्तौbāṇavantauसपत्नातिव्याधिनौsapatnātivyādhinauहस्तेhasteकृत्वाkṛtvāउपोत्तिष्ठेत्upottiṣṭhetएवम्evamएवevaअहम्ahamत्वाtvāद्वाभ्याम्dvābhyāmप्रश्नाभ्याम्praśnābhyāmउपोदस्थाम्upodasthāmतौtauमेmeब्रूहिbrūhiइतिitiपृच्छpṛcchaगार्गिgārgiइतिiti

अन्वय

सा ह उवाच—याज्ञवल्क्य, वै अहम् त्वा, यथा काश्यः वा वैदेहः वा उग्रपुत्रः उज्ज्यम् धनुः अधिज्यम् कृत्वा, बाणवन्तौ सपत्नातिव्याधिनौ द्वौ [शरौ] हस्ते कृत्वा उपोत्तिष्ठेत्, एवम् एव अहम् त्वा द्वाभ्याम् प्रश्नाभ्याम् उपोदस्थाम् । तौ मे ब्रूहि इति । [याज्ञवल्क्यः आह—] गार्गि, पृच्छ इति ।

Passage 20.3

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३ ॥

पदच्छेद

साsāहhaउवाचuvācaयत्yatऊर्ध्वम्ūrdhvamयाज्ञवल्क्यyājñavalkyaदिवःdivaḥयत्yatअवाक्avākपृथिव्याःpṛthivyāḥयत्yatअन्तराantarāद्यावापृथिवीdyāvāpṛthivīइमेimeयत्yatभूतम्bhūtamचcaभवत्bhavatचcaभविष्यत्bhaviṣyatचcaइतिitiआचक्षतेācakṣateकस्मिन्kasminतत्tatओतम्otamचcaप्रोतम्protamचcaइतिiti

अन्वय

सा ह उवाच—याज्ञवल्क्य, यत् दिवः ऊर्ध्वम् [अस्ति], यत् पृथिव्याः अवाक् [अस्ति], यत् इमे द्यावापृथिवी अन्तरा [अस्ति], यत् भूतम् च भवत् च भविष्यत् च इति आचक्षते, तत् कस्मिन् ओतम् च प्रोतम् च [अस्ति] इति ।

Passage 20.4

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ४ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaयत्yatऊर्ध्वम्ūrdhvamगार्गिgārgiदिवःdivaḥयत्yatअवाक्avākपृथिव्याःpṛthivyāḥयत्yatअन्तराantarāद्यावापृथिवीdyāvāpṛthivīइमेimeयत्yatभूतम्bhūtamचcaभवत्bhavatचcaभविष्यत्bhaviṣyatचcaइतिitiआचक्षतेācakṣateआकाशेākāśeतत्tatओतम्otamचcaप्रोतम्protamचcaइतिiti

अन्वय

सः ह उवाच—गार्गि, यत् दिवः ऊर्ध्वम् [अस्ति], यत् पृथिव्याः अवाक् [अस्ति], यत् इमे द्यावापृथिवी अन्तरा [अस्ति], यत् भूतम् च भवत् च भविष्यत् च इति आचक्षते, तत् आकाशे ओतम् च प्रोतम् च [अस्ति] इति ।

Passage 20.5

सा होवच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ५ ॥

पदच्छेद

साsāहhaउवाचuvācaनमःnamaḥतेteअस्तुastuयाज्ञवल्क्यyājñavalkyaयःyaḥमेmeएतम्etamव्यवोचःvyavocaḥअपरस्मैaparasmaiधारयस्वdhārayasvaइतिitiपृच्छpṛcchaगार्गिgārgiइतिiti

Passage 20.6

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ६ ॥

पदच्छेद

साsāहhaउवाचuvācaयत्yatऊर्ध्वम्ūrdhvamयाज्ञवल्क्यyājñavalkyaदिवःdivaḥयत्yatअवाक्avākपृथिव्याःpṛthivyāḥयत्yatअन्तराantarāद्यावापृथिवीdyāvāpṛthivīइमेimeयत्yatभूतम्bhūtamचcaभवत्bhavatचcaभविष्यत्bhaviṣyatचcaइतिitiआचक्षतेācakṣateकस्मिन्kasminतत्tatओतम्otamचcaप्रोतम्protamचcaइतिiti

अन्वय

सा ह उवाच—याज्ञवल्क्य, यत् दिवः ऊर्ध्वम् [अस्ति], यत् पृथिव्याः अवाक् [अस्ति], यत् इमे द्यावापृथिवी अन्तरा [अस्ति], यत् भूतम् च भवत् च भविष्यत् च इति आचक्षते, तत् कस्मिन् ओतम् च प्रोतम् च [अस्ति] इति ।

Passage 20.7

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaयत्yatऊर्ध्वम्ūrdhvamगार्गिgārgiदिवःdivaḥयत्yatअवाक्avākपृथिव्याःpṛthivyāḥयत्yatअन्तराantarāद्यावापृथिवीdyāvāpṛthivīइमेimeयत्yatभूतम्bhūtamचcaभवत्bhavatचcaभविष्यत्bhaviṣyatचcaइतिitiआचक्षतेācakṣateआकाशेākāśeएवevaतत्tatओतम्otamचcaप्रोतम्protamचcaइतिitiकस्मिन्kasminनुnuखलुkhaluआकाशःākāśaḥओतःotaḥचcaप्रोतःprotaḥचcaइतिiti

अन्वय

सः ह उवाच—गार्गि, यत् दिवः ऊर्ध्वम् [अस्ति], यत् पृथिव्याः अवाक् [अस्ति], यत् इमे द्यावापृथिवी अन्तरा [अस्ति], यत् भूतम् च भवत् च भविष्यत् च इति आचक्षते, तत् आकाशे एव ओतम् च प्रोतम् च [अस्ति] इति । [गार्गी पप्रच्छ—] आकाशः कस्मिन् नु खलु ओतः च प्रोतः च [अस्ति] इति ।

Passage 20.8

स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखमगात्रमनन्तरमबाह्यम् । न तदश्नाति किं चन । न तदश्नाति कश्चन ॥ ८ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaएतत्etatवैvaiतत्tatअक्षरम्akṣaramगार्गिgārgiब्राह्मणाःbrāhmaṇāḥअभिवदन्तिabhivadantiअस्थूलम्asthūlamअनणुanaṇuअह्रस्वम्ahrasvamअदीर्घम्adīrghamअलोहितम्alohitamअस्नेहम्asnehamअच्छायम्acchāyamअतमःatamaḥअवायुavāyuअनाकाशम्anākāśamअसङ्गम्asaṅgamअरसम्arasamअगन्धम्agandhamअचक्षुष्कम्acakṣuṣkamअश्रोत्रम्aśrotramअवाक्avākअमनःamanaḥअतेजस्कम्atejaskamअप्राणम्aprāṇamअमुखम्amukhamअगात्रम्agātramअनन्तरम्anantaramअबाह्यम्abāhyamनnaतत्tatअश्नातिaśnātiकिम्kimचनcanaनnaतत्tatअश्नातिaśnātiकःkaḥचनcana

अन्वय

सः ह उवाच—गार्गि, ब्राह्मणाः एतत् वै तत् अक्षरम् अस्थूलम् अनणु अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् अतमः अवायु अनाकाशम् असङ्गम् अरसम् अगन्धम् अचक्षुष्कम् अश्रोत्रम् अवाक् अमनः अतेजस्कम् अप्राणम् अमुखम् अगात्रम् अनन्तरम् अबाह्यम् अभिवदन्ति । तत् किम् चन न अश्नाति; कश्चन तत् न अश्नाति ।

Passage 20.9

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९ ॥

पदच्छेद

एतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiसूर्यचन्द्रमसौsūryacandramasauविधृतौvidhṛtauतिष्ठतःtiṣṭhataḥएतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiद्यावापृथिव्यौdyāvāpṛthivyauविधृतेvidhṛteतिष्ठतःtiṣṭhataḥएतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiनिमेषाःnimeṣāḥमुहूर्ताःmuhūrtāḥअहोरात्राणिahorātrāṇiअर्धमासाःardhamāsāḥमासाःmāsāḥऋतवःṛtavaḥसंवत्सराःsaṃvatsarāḥइतिitiविधृताःvidhṛtāḥतिष्ठन्तिtiṣṭhantiएतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiप्राच्यःprācyaḥअन्याःanyāḥनद्यःnadyaḥस्यन्दन्तेsyandanteश्वेतेभ्यःśvetebhyaḥपर्वतेभ्यःparvatebhyaḥप्रतीच्यःpratīcyaḥअन्याःanyāḥयाम्yāmयाम्yāmचcaदिशम्diśamअनुanuएतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiददतःdadataḥमनुष्याःmanuṣyāḥप्रशसन्तिpraśasantiयजमानम्yajamānamदेवाःdevāḥदर्वीम्darvīmपितरःpitaraḥअन्वायत्ताःanvāyattāḥ

अन्वय

गार्गि, एतस्य वा अक्षरस्य प्रशासने सूर्यचन्द्रमसौ विधृतौ तिष्ठतः । गार्गि, एतस्य वा अक्षरस्य प्रशासने द्यावापृथिव्यौ विधृते तिष्ठतः । गार्गि, एतस्य वा अक्षरस्य प्रशासने निमेषाः मुहूर्ताः अहोरात्राणि अर्धमासाः मासाः ऋतवः संवत्सराः इति विधृताः तिष्ठन्ति । गार्गि, एतस्य वा अक्षरस्य प्रशासने श्वेतेभ्यः पर्वतेभ्यः अन्याः प्राच्यः नद्यः स्यन्दन्ते, अन्याः प्रतीच्यः [नद्यः स्यन्दन्ते], याम् याम् च दिशम् अनु [नद्यः स्यन्दन्ते] । गार्गि, एतस्य वा अक्षरस्य प्रशासने मनुष्याः ददतः प्रशसन्ति; देवाः यजमानम् [अन्वायत्ताः सन्ति]; पितरः दर्वीम् अन्वायत्ताः [सन्ति] ।

Passage 20.10

यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः । अथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ १० ॥

पदच्छेद

यःyaḥवैvaiएतत्etatअक्षरम्akṣaramगार्गिgārgiअविदित्वाaviditvāअस्मिन्asminलोकेlokeजुहोतिjuhotiयजतेyajateतपःtapaḥतप्यतेtapyateबहूनिbahūniवर्षसहस्राणिvarṣasahasrāṇiअन्तवत्antavatएवevaअस्यasyaतत्tatभवतिbhavatiयःyaḥवैvaiएतत्etatअक्षरम्akṣaramगार्गिgārgiअविदित्वाaviditvāअस्मात्asmātलोकात्lokātप्रैतिpraitiसःsaḥकृपणःkṛpaṇaḥअथathaयःyaḥएतत्etatअक्षरम्akṣaramगार्गिgārgiविदित्वाviditvāअस्मात्asmātलोकात्lokātप्रैतिpraitiसःsaḥब्राह्मणःbrāhmaṇaḥ

अन्वय

गार्गि, यः वा एतत् अक्षरम् अविदित्वा अस्मिन् लोके बहूनि वर्षसहस्राणि जुहोति यजते तपः तप्यते, अस्य तत् अन्तवत् एव भवति । गार्गि, यः वा एतत् अक्षरम् अविदित्वा अस्मात् लोकात् प्रैति, सः कृपणः [अस्ति] । अथ गार्गि, यः एतत् अक्षरम् विदित्वा अस्मात् लोकात् प्रैति, सः ब्राह्मणः [अस्ति] ।

Passage 20.11

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ । नान्यदतोऽस्ति द्रष्टृ । नान्यदतोऽस्ति श्रोतृ । नान्यदतोऽस्ति मन्तृ । नान्यदतोऽस्ति विज्ञातृ । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च ॥ ११ ॥

पदच्छेद

तत्tatवैvaiएतत्etatअक्षरम्akṣaramगार्गिgārgiअदृष्टम्adṛṣṭamद्रष्टृdraṣṭṛअश्रुतम्aśrutamश्रोतृśrotṛअमतम्amatamमन्तृmantṛअविज्ञातम्avijñātamविज्ञातृvijñātṛनnaअन्यत्anyatअतःataḥअस्तिastiद्रष्टृdraṣṭṛनnaअन्यत्anyatअतःataḥअस्तिastiश्रोतृśrotṛनnaअन्यत्anyatअतःataḥअस्तिastiमन्तृmantṛनnaअन्यत्anyatअतःataḥअस्तिastiविज्ञातृvijñātṛएतस्मिन्etasminनुnuखलुkhaluअक्षरेakṣareगार्गिgārgiआकाशःākāśaḥओतःotaḥचcaप्रोतःprotaḥचca

अन्वय

गार्गि, तत् वा एतत् अक्षरम् अदृष्टम् द्रष्टृ [अस्ति], अश्रुतम् श्रोतृ [अस्ति], अमतम् मन्तृ [अस्ति], अविज्ञातम् विज्ञातृ [अस्ति] । अतः अन्यत् द्रष्टृ न अस्ति; अतः अन्यत् श्रोतृ न अस्ति; अतः अन्यत् मन्तृ न अस्ति; अतः अन्यत् विज्ञातृ न अस्ति । गार्गि, नु खलु एतस्मिन् अक्षरे आकाशः ओतः च प्रोतः च [अस्ति] ।

Passage 20.12

सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्येध्वम् । न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति । ततो ह वाचक्नव्युपरराम ॥ १२ ॥

पदच्छेद

साsāहhaउवाचuvācaब्राह्मणाःbrāhmaṇāḥभगवन्तःbhagavantaḥतत्tatएवevaबहुbahuमन्यध्वम्manyadhvamयत्yatअस्मात्asmātनमस्कारेणnamaskāreṇaमुच्येध्वम्mucyedhvamनnaवैvaiजातुjātuयुष्माकम्yuṣmākamइमम्imamकःkaḥचित्citब्रह्मोद्यम्brahmodyamजेताjetāइतिitiततःtataḥहhaवाचक्नवीvācaknavīउपररामupararāma

अन्वय

सा ह उवाच—ब्राह्मणाः भगवन्तः, यत् अस्मात् नमस्कारेण मुच्येध्वम्, तत् एव बहु मन्यध्वम् । वै युष्माकम् [मध्ये] कश्चित् जातु इमम् ब्रह्मोद्यम् [प्रति] न जेता इति । ततः ह वाचक्नवी उपरराम ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ८

Read the whole section →