Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ३

संस्कृत

Passage 15.1

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम । ते पतञ्चलस्य काप्यस्य गृहानैम । तस्यासीद्दुहिता गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत्सुधन्वाङ्गिरस इति । तं यदा लोकानामन्तानपृच्छाम । अथैनमब्रूम क्व पारिक्षिता अभवन्निति । क्व पारिक्षिता अभवन् । स त्वा पृच्छामि याज्ञवल्क्य । क्व पारिक्षिता अभवन्निति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamभुज्युःbhujyuḥलाह्यायनिःlāhyāyaniḥपप्रच्छpapracchaयाज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaमद्रेषुmadreṣuचरकाःcarakāḥपर्यव्रजामparyavrajāmaतेteपतञ्चलस्यpatañcalasyaकाप्यस्यkāpyasyaगृहान्gṛhānऐमaimaतस्यtasyaआसीत्āsītदुहिताduhitāगन्धर्वगृहीताgandharvagṛhītāतम्tamअपृच्छामapṛcchāmaकःkaḥअसिasiइतिitiसःsaḥअब्रवीत्abravītसुधन्वाsudhanvāआङ्गिरसःāṅgirasaḥइतिitiतम्tamयदाyadāलोकानाम्lokānāmअन्तान्antānअपृच्छामapṛcchāmaअथathaएनम्enamअब्रूमabrūmaक्वkvaपारिक्षिताःpārikṣitāḥअभवन्abhavanइतिitiक्वkvaपारिक्षिताःpārikṣitāḥअभवन्abhavanसःsaḥत्वाtvāपृच्छामिpṛcchāmiयाज्ञवल्क्यyājñavalkyaक्वkvaपारिक्षिताःpārikṣitāḥअभवन्abhavanइतिiti

अन्वय

अथ ह लाह्यायनिः भुज्युः एनम् पप्रच्छ । [सः] ह उवाच—याज्ञवल्क्य, [वयम्] चरकाः मद्रेषु पर्यव्रजाम । ते [वयम्] काप्यस्य पतञ्चलस्य गृहान् ऐम । तस्य गन्धर्वगृहीता दुहिता आसीत् । [वयम्] तम् अपृच्छाम—कः असि इति । सः अब्रवीत्—सुधन्वा आङ्गिरसः [अस्मि] इति । यदा तम् लोकानाम् अन्तान् अपृच्छाम, अथ एनम् अब्रूम—पारिक्षिताः क्व अभवन् इति । पारिक्षिताः क्व अभवन् । याज्ञवल्क्य, सः [अहम्] त्वा पृच्छामि—पारिक्षिताः क्व अभवन् इति ।

Passage 15.2

स होवाच उवाच वै सः । अगच्छन् वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति । क्व न्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकः । तं समन्तं पृथिवी द्विस्तावत्पर्येति । तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्त्रं तावानन्तरेणाकाशः तानैन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् । तान् वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्निति । एवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिः । अप पुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaउवाचuvācaवैvaiसःsaḥअगच्छन्agacchanवैvaiतेteतत्tatयत्रyatraअश्वमेधयाजिनःaśvamedhayājinaḥगच्छन्तिgacchantiइतिitiक्वkvaनुnuअश्वमेधयाजिनःaśvamedhayājinaḥगच्छन्तिgacchantiइतिitiद्वात्रिंशतम्dvātriṃśatamवैvaiदेवरथाह्न्यानिdevarathāhnyāniअयम्ayamलोकःlokaḥतम्tamसमन्तम्samantamपृथिवीpṛthivīद्विस्तावत्dvistāvatपर्येतिparyetiताम्tāmसमन्तम्samantamपृथिवीम्pṛthivīmद्विस्तावत्dvistāvatसमुद्रःsamudraḥपर्येतिparyetiतत्tatयावतीyāvatīक्षुरस्यkṣurasyaधाराdhārāयावत्yāvatवाvāमक्षिकायाःmakṣikāyāḥपत्त्रम्pattramतावान्tāvānअन्तरेणantareṇaआकाशःākāśaḥतान्tānऐन्द्रःaindraḥसुपर्णःsuparṇaḥभूत्वाbhūtvāवायवेvāyaveप्रायच्छत्prāyacchatतान्tānवायुःvāyuḥआत्मनिātmaniधित्वाdhitvāतत्रtatraअगमयत्agamayatयत्रyatraअश्वमेधयाजिनःaśvamedhayājinaḥअभवन्abhavanइतिitiएवम्evamइवivaवैvaiसःsaḥवायुम्vāyumएवevaप्रशशंसpraśaśaṃsaतस्मात्tasmātवायुःvāyuḥएवevaव्यष्टिःvyaṣṭiḥवायुःvāyuḥसमष्टिःsamaṣṭiḥअपapaपुनर्मृत्युम्punarmṛtyumजयतिjayatiयःyaḥएवम्evamवेदvedaततःtataḥहhaभुज्युःbhujyuḥलाह्यायनिःlāhyāyaniḥउपररामupararāma

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ३

Read the whole section →