Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण १३

संस्कृत

Passage 40.1

उक्थम् । प्राणो वा उक्थम् । प्राणो हीदं सर्वमुत्थापयति । उद्धस्मादुक्थविद्वीरस्तिष्ठति । उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ १ ॥

पदच्छेद

उक्थम्ukthamप्राणःprāṇaḥवैvaiउक्थम्ukthamप्राणःprāṇaḥहिhiइदम्idamसर्वम्sarvamउत्थापयतिutthāpayatiउत्utहhaअस्मात्asmātउक्थवित्ukthavitवीरःvīraḥतिष्ठतिtiṣṭhatiउक्थस्यukthasyaसायुज्यम्sāyujyamसलोकताम्salokatāmजयतिjayatiयःyaḥएवम्evamवेदveda

अन्वय

उक्थम् [इति उपासीत] । प्राणः वा उक्थम् [अस्ति]; प्राणः हि इदम् सर्वम् उत्थापयति । अस्मात् ह उक्थवित् वीरः उत् तिष्ठति । यः एवम् वेद, [सः] उक्थस्य सायुज्यम् सलोकताम् जयति ।

Passage 40.2

यजुः । प्राणो वै यजुः । प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय । यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ २ ॥

पदच्छेद

यजुःyajuḥप्राणःprāṇaḥवैvaiयजुःyajuḥप्राणेprāṇeहिhiइमानिimāniसर्वाणिsarvāṇiभूतानिbhūtāniयुज्यन्तेyujyanteयुज्यन्तेyujyanteहhaअस्मैasmaiसर्वाणिsarvāṇiभूतानिbhūtāniश्रैष्ठ्यायśraiṣṭhyāyaयजुषःyajuṣaḥसायुज्यम्sāyujyamसलोकताम्salokatāmजयतिjayatiयःyaḥएवम्evamवेदveda

अन्वय

यजुः [इति उपासीत] । प्राणः वै यजुः [अस्ति]; प्राणे हि इमानि सर्वाणि भूतानि युज्यन्ते । अस्मै ह सर्वाणि भूतानि श्रैष्ठ्याय युज्यन्ते । यः एवम् वेद, [सः] यजुषः सायुज्यम् सलोकताम् जयति ।

Passage 40.3

साम । प्राणो वै साम । प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते । साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ३ ॥

पदच्छेद

सामsāmaप्राणःprāṇaḥवैvaiसामsāmaप्राणेprāṇeहिhiइमानिimāniसर्वाणिsarvāṇiभूतानिbhūtāniसम्यञ्चिsamyañciसम्यञ्चिsamyañciहhaअस्मैasmaiसर्वाणिsarvāṇiभूतानिbhūtāniश्रैष्ठ्यायśraiṣṭhyāyaकल्पन्तेkalpanteसाम्नःsāmnaḥसायुज्यम्sāyujyamसलोकताम्salokatāmजयतिjayatiयःyaḥएवम्evamवेदveda

अन्वय

साम [इति उपासीत] । प्राणः वै साम [अस्ति]; प्राणे हि इमानि सर्वाणि भूतानि सम्यञ्चि [सन्ति] । अस्मै ह सर्वाणि भूतानि सम्यञ्चि श्रैष्ठ्याय कल्पन्ते । यः एवम् वेद, [सः] साम्नः सायुज्यम् सलोकताम् जयति ।

Passage 40.4

क्षत्रम् । प्राणो वै क्षत्रम् । प्राणो हि वै क्षत्रम् । त्रायते हैनं प्राणः क्षणितोः । प्र क्षत्रमत्रमाप्नोति । क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ४ ॥

पदच्छेद

क्षत्रम्kṣatramप्राणःprāṇaḥवैvaiक्षत्रम्kṣatramप्राणःprāṇaḥहिhiवैvaiक्षत्रम्kṣatramत्रायतेtrāyateहhaएनम्enamप्राणःprāṇaḥक्षणितोःkṣaṇitoḥप्रpraक्षत्रम्kṣatramअत्रम्atramआप्नोतिāpnotiक्षत्रस्यkṣatrasyaसायुज्यम्sāyujyamसलोकताम्salokatāmजयतिjayatiयःyaḥएवम्evamवेदveda

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण १३

Read the whole section →