Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण ३

संस्कृत

Passage 45.1

स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ १ ॥

पदच्छेद

सःsaḥयःyaḥकामयेतkāmayetaमहत्mahatप्राप्नुयाम्prāpnuyāmइतिitiउदगयनेudagayaneआपूर्यमाणपक्षस्यāpūryamāṇapakṣasyaपुण्याहेpuṇyāheद्वादशाहम्dvādaśāhamउपसद्व्रतीupasadvratīभूत्वाbhūtvāऔदुम्बरेaudumbareकंसेkaṃseचमसेcamaseवाvāसर्वौषधम्sarvauṣadhamफलानिphalāniइतिitiसंभृत्यsaṃbhṛtyaपरिसमुह्यparisamuhyaपरिलिप्यparilipyaअग्निम्agnimउपसमाधायupasamādhāyaपरिस्तीर्यparistīryaआवृताāvṛtāआज्यम्ājyamसंस्कृत्यsaṃskṛtyaपुंसाpuṃsāनक्षत्रेणnakṣatreṇaमन्थम्manthamसंनीयsaṃnīyaजुहोतिjuhotiयावन्तःyāvantaḥदेवाःdevāḥत्वयिtvayiजातवेदःjātavedaḥतिर्यञ्चःtiryañcaḥघ्नन्तिghnantiपुरुषस्यpuruṣasyaकामान्kāmānतेभ्यःtebhyaḥअहम्ahamभागधेयम्bhāgadheyamजुहोमिjuhomiतेteमाmāतृप्ताःtṛptāḥसर्वैःsarvaiḥकामैःkāmaiḥतर्पयन्तुtarpayantuस्वाहाsvāhāयाyāतिरश्चीtiraścīनिपद्यसेnipadyaseअहम्ahamविधरणीvidharaṇīइतिitiताम्tāmत्वाtvāघृतस्यghṛtasyaधारयाdhārayāयजेyajeसंराधनीम्saṃrādhanīmअहम्ahamस्वाहाsvāhā

अन्वय

सः यः महत् प्राप्नुयाम् इति कामयेत, [सः] उदगयने आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहम् उपसद्व्रती भूत्वा औदुम्बरे कंसे चमसे वा सर्वौषधम् फलानि इति सम्भृत्य परिसमुह्य परिलिप्य अग्निम् उपसमाधाय परिस्तीर्य आवृता आज्यम् संस्कृत्य पुंसा नक्षत्रेण मन्थम् संनीय जुहोति—जातवेदः, त्वयि यावन्तः तिर्यञ्चः देवाः पुरुषस्य कामान् घ्नन्ति, तेभ्यः अहम् भागधेयम् जुहोमि; ते तृप्ताः मा सर्वैः कामैः तर्पयन्तु, स्वाहा । या अहम् विधरणी इति तिरश्ची निपद्यसे, ताम् त्वा संराधनीम् अहम् घृतस्य धारया यजे, स्वाहा ।

Passage 45.2

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ २ ॥

पदच्छेद

ज्येष्ठायjyeṣṭhāyaस्वाहाsvāhāश्रेष्ठायśreṣṭhāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiप्राणायprāṇāyaस्वाहाsvāhāवसिष्ठायैvasiṣṭhāyaiस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiवाचेvāceस्वाहाsvāhāप्रतिष्ठायैpratiṣṭhāyaiस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiचक्षुषेcakṣuṣeस्वाहाsvāhāसंपदेsaṃpadeस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiश्रोत्रायśrotrāyaस्वाहाsvāhāआयतनायāyatanāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiमनसेmanaseस्वाहाsvāhāप्रजात्यैprajātyaiस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiरेतसेretaseस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayati

अन्वय

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । चक्षुषे स्वाहा सम्पदे स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । श्रोत्राय स्वाहा आयतनाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । मनसे स्वाहा प्रजात्यै स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । रेतसे स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।

Passage 45.3

अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ३ ॥

पदच्छेद

अग्नयेagnayeस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiसोमायsomāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiभूःbhūḥस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiभुवःbhuvaḥस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiस्वःsvaḥस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiभूःbhūḥभुवःbhuvaḥस्वःsvaḥस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiब्रह्मणेbrahmaṇeस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiक्षत्रायkṣatrāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiभूतायbhūtāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiभविष्यतेbhaviṣyateस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiविश्वायviśvāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiसर्वायsarvāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiप्रजापतयेprajāpatayeस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayati

अन्वय

अग्नये स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । सोमाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भूः स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भुवः स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । स्वः स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भूर्भुवः स्वः स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । ब्रह्मणे स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । क्षत्राय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भूताय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भविष्यते स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । विश्वाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । सर्वाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । प्रजापतये स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।

Passage 45.4

अथैनमभिमृशति भ्रमदसि । ज्वलदसि । पूर्णमसि । प्रस्तब्धमसि । एकसभमसि । हिङ्कृतमसि । हिङ्क्रियमानमसि । उद्गीथमसि । उद्गीयमानमसि । श्रावितमसि । प्रत्याश्रावितमसि । आर्द्रे संदीप्तमसि । विभूरसि । प्रभूरसि । अन्नमसि । ज्योतिरसि । निधनमसि । संवर्गोऽसीति ॥ ४ ॥

पदच्छेद

अथathaएनम्enamअभिमृशतिabhimṛśatiभ्रमत्bhramatअसिasiज्वलत्jvalatअसिasiपूर्णम्pūrṇamअसिasiप्रस्तब्धम्prastabdhamअसिasiएकसभम्ekasabhamअसिasiहिङ्कृतम्hiṅkṛtamअसिasiहिङ्क्रियमानम्hiṅkriyamānamअसिasiउद्गीथम्udgīthamअसिasiउद्गीयमानम्udgīyamānamअसिasiश्रावितम्śrāvitamअसिasiप्रत्याश्रावितम्pratyāśrāvitamअसिasiआर्द्रेārdreसंदीप्तम्saṃdīptamअसिasiविभूःvibhūḥअसिasiप्रभूःprabhūḥअसिasiअन्नम्annamअसिasiज्योतिःjyotiḥअसिasiनिधनम्nidhanamअसिasiसंवर्गःsaṃvargaḥअसिasiइतिiti

Passage 45.5

अथैनमुद्यच्छत्यामंस्यामं हि ते महि । स हि राजेशानोऽधिपतिः । स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥

पदच्छेद

अथathaएनम्enamउद्यच्छतिudyacchatiआमंसिāmaṃsiआमम्āmamहिhiतेteमहिmahiसःsaḥहिhiराजाrājāईशानःīśānaḥअधिपतिःadhipatiḥसःsaḥमाम्māmराजाrājāईशानःīśānaḥअधिपतिम्adhipatimकरोतुkarotuइतिiti

Passage 45.6

अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गवो भवन्तु नः । स्वः स्वाहा । सर्वां च सावित्रीमन्वाह । सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति । प्रातरादित्यमुपतिष्ठते । दिशामेकपुण्डरीकमसि । अहं मनुष्याणामेकपुण्डरीकं भूयासमिति । यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ ६ ॥

पदच्छेद

अथathaएनम्enamआचामतिācāmatiतत्tatसवितुःsavituḥवरेण्यम्vareṇyamमधुmadhuवाताःvātāḥऋतायतेṛtāyateमधुmadhuक्षरन्तिkṣarantiसिन्धवःsindhavaḥमाध्वीःmādhvīḥनःnaḥसन्तुsantuओषधीःoṣadhīḥभूःbhūḥस्वाहाsvāhāभर्गःbhargaḥदेवस्यdevasyaधीमहिdhīmahiमधुmadhuनक्तम्naktamउतutaउषसःuṣasaḥमधुमत्madhumatपार्थिवम्pārthivamरजःrajaḥमधुmadhuद्यौःdyauḥअस्तुastuनःnaḥपिताpitāभुवःbhuvaḥस्वाहाsvāhāधियःdhiyaḥयःyaḥनःnaḥप्रचोदयात्pracodayātमधुमान्madhumānनःnaḥवनस्पतिःvanaspatiḥमधुमान्madhumānअस्तुastuसूर्यःsūryaḥमाध्वीःmādhvīḥगवःgavaḥभवन्तुbhavantuनःnaḥस्वःsvaḥस्वाहाsvāhāसर्वाम्sarvāmचcaसावित्रीम्sāvitrīmअन्वाहanvāhaसर्वाःsarvāḥचcaमधुमतीःmadhumatīḥअहम्ahamएवevaइदम्idamसर्वम्sarvamभूयासम्bhūyāsamभूःbhūḥभुवःbhuvaḥस्वःsvaḥस्वाहाsvāhāइतिitiअन्ततःantataḥआचम्यācamyaपाणीpāṇīप्रक्षाल्यprakṣālyaजघनेनjaghanenaअग्निम्agnimप्राक्शिराःprākśirāḥसंविशतिsaṃviśatiप्रातःprātaḥआदित्यम्ādityamउपतिष्ठतेupatiṣṭhateदिशाम्diśāmएकपुण्डरीकम्ekapuṇḍarīkamअसिasiअहम्ahamमनुष्याणाम्manuṣyāṇāmएकपुण्डरीकम्ekapuṇḍarīkamभूयासम्bhūyāsamइतिitiयथेतम्yathetamएत्यetyaजघनेनjaghanenaअग्निम्agnimआसीनःāsīnaḥवंशम्vaṃśamजपतिjapati

Passage 45.7

तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ७ ॥

पदच्छेद

तम्tamहhaएतम्etamउद्दालकःuddālakaḥआरुणिःāruṇiḥवाजसनेयायvājasaneyāyaयाज्ञवल्क्यायyājñavalkyāyaअन्तेवासिनेantevāsineउक्त्वाuktvāउवाचuvācaअपिapiयःyaḥएनम्enamशुष्केśuṣkeस्थाणौsthāṇauनिषिञ्चेत्niṣiñcetजायेरन्jāyeranशाखाःśākhāḥप्ररोहेयुःpraroheyuḥपलाशानिpalāśāniइतिiti

अन्वय

उद्दालकः आरुणिः तम् ह एतम् वाजसनेयाय याज्ञवल्क्याय अन्तेवासिने उक्त्वा उवाच—अपि यः एनम् शुष्के स्थाणौ निषिञ्चेत्, शाखाः जायेरन्, पलाशानि प्ररोहेयुः इति ।

Passage 45.8

एतमु हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८ ॥

पदच्छेद

एतम्etamउuहhaएवevaवाजसनेयःvājasaneyaḥयाज्नवल्क्यःyājnavalkyaḥमधुकायmadhukāyaपैङ्ग्यायpaiṅgyāyaअन्तेवासिनेantevāsineउक्त्वाuktvāउवाचuvācaअपिapiयःyaḥएनम्enamशुष्केśuṣkeस्थाणौsthāṇauनिषिञ्चेत्niṣiñcetजायेरन्jāyeranशाखाःśākhāḥप्ररोहेयुःpraroheyuḥपलाशानिpalāśāniइतिiti

Passage 45.9

एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ९ ॥

पदच्छेद

एतम्etamउuहhaएवevaमधुकःmadhukaḥपैङ्ग्यःpaiṅgyaḥचूलायcūlāyaभागवित्तयेbhāgavittayeअन्तेवासिनेantevāsineउक्त्वाuktvāउवाचuvācaअपिapiयःyaḥएनम्enamशुष्केśuṣkeस्थाणौsthāṇauनिषिञ्चेत्niṣiñcetजायेरन्jāyeranशाखाःśākhāḥप्ररोहेयुःpraroheyuḥपलाशानिpalāśāniइतिiti

अन्वय

मधुकः पैङ्ग्यः एतम् उ ह एव चूलाय भागवित्तये अन्तेवासिने उक्त्वा उवाच—अपि यः एनम् शुष्के स्थाणौ निषिञ्चेत्, शाखाः जायेरन्, पलाशानि प्ररोहेयुः इति ।

Passage 45.10

एतमु हैव चूलो भागवित्तिर्जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ १० ॥

पदच्छेद

एतम्etamउuहhaएवevaचूलःcūlaḥभागवित्तिःbhāgavittiḥजानकयjānakayaआयःस्थूणायāyaḥsthūṇāyaअन्तेवासिनेantevāsineउक्त्वाuktvāउवाचuvācaअपिapiयःyaḥएनम्enamशुष्केśuṣkeस्थाणौsthāṇauनिषिञ्चेत्niṣiñcetजायेरन्jāyeranशाखाःśākhāḥप्ररोहेयुःpraroheyuḥपलाशानिpalāśāniइतिiti

Passage 45.11

एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ११ ॥

पदच्छेद

एतम्etamउuहhaएवevaजानकिःjānakiḥआयस्थूणःāyasthūṇaḥसत्यकामायsatyakāmāyaजाबालायjābālāyaअन्तेवासिनेantevāsineउक्त्वाuktvāउवाचuvācaअपिapiयःyaḥएनम्enamशुष्केśuṣkeस्थाणौsthāṇauनिषिञ्चेत्niṣiñcetजायेरन्jāyeranशाखाःśākhāḥप्ररोहेयुःpraroheyuḥपलाशानिpalāśāniइतिiti

अन्वय

जानकिः आयस्थूणः एतम् उ ह एव सत्यकामाय जाबालाय अन्तेवासिने उक्त्वा उवाच—अपि यः एनम् शुष्के स्थाणौ निषिञ्चेत्, शाखाः जायेरन्, पलाशानि प्ररोहेयुः इति ।

Passage 45.12

एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति । तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ १२ ॥

पदच्छेद

एतम्etamउuहhaएवevaसत्यकामःsatyakāmaḥजाबालःjābālaḥअन्तेवासिभ्यःantevāsibhyaḥउक्त्वाuktvāउवाचuvācaअपिapiयःyaḥएनम्enamशुष्केśuṣkeस्थाणौsthāṇauनिषिञ्चेत्niṣiñcetजायेरन्jāyeranशाखाःśākhāḥप्ररोहेयुःpraroheyuḥपलाशानिpalāśāniइतिitiतम्tamएतम्etamनnaअपुत्रायaputrāyaवाvāअनन्तेवासिनेanantevāsineवाvāब्रूयात्brūyāt

अन्वय

सत्यकामः जाबालः एतम् उ ह एव अन्तेवासिभ्यः उक्त्वा उवाच—अपि यः एनम् शुष्के स्थाणौ निषिञ्चेत्, शाखाः जायेरन्, पलाशानि प्ररोहेयुः इति । तम् एतम् अपुत्राय वा अनन्तेवासिने वा न ब्रूयात् ।

Passage 45.13

चतुरौदुम्बरो भवति । औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ । दश ग्राम्याणि धान्यानि भवन्ति । व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च । तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति । आज्यस्य जुहोति ॥ १३ ॥

पदच्छेद

चतुरौदुम्बरःcaturaudumbaraḥभवतिbhavatiऔदुम्बरःaudumbaraḥस्रुवःsruvaḥऔदुम्बरःaudumbaraḥचमसःcamasaḥऔदुम्बरःaudumbaraḥइध्मःidhmaḥऔदुम्बर्यौaudumbaryauउपमन्थन्यौupamanthanyauदशdaśaग्राम्याणिgrāmyāṇiधान्यानिdhānyāniभवन्तिbhavantiव्रीहियवाःvrīhiyavāḥतिलमाषाःtilamāṣāḥअणुप्रियंगवःaṇupriyaṃgavaḥगोधूमाःgodhūmāḥचcaमसूराःmasūrāḥचcaखल्वाःkhalvāḥचcaखलकुलाःkhalakulāḥचcaतान्tānपिष्टान्piṣṭānदधनिdadhaniमधुनिmadhuniघृतेghṛteउपसिञ्चतिupasiñcatiआज्यस्यājyasyaजुहोतिjuhoti

अन्वय

[सः कर्ता] चतुरौदुम्बरः भवति । स्रुवः औदुम्बरः, चमसः औदुम्बरः, इध्मः औदुम्बरः, उपमन्थन्यौ औदुम्बर्या [औदुम्बर्यौ इति पदच्छेदः] [भवतः] । दश ग्राम्याणि धान्यानि भवन्ति—व्रीहियवाः, तिलमाषाः, अणुप्रियंगवः, गोधूमाः च, मसूराः च, खल्वाः च, खलकुलाः च । तान् पिष्टान् दधनि मधुनि घृते उपसिञ्चति । आज्यस्य जुहोति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण ३

Read the whole section →