Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण १०

संस्कृत

Passage 37.1

यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति । तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् । तेन स ऊर्ध्व आक्रमते । स आदित्यमागच्छति । तस्मै स तत्र विजिहीते । यथा लम्बरस्य खम् । तेन स ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति । तस्मै स तत्र विजिहीते । यथा दुन्दुभेः खम् । तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमम् । तस्मिन् वसति शाश्वतीः समाः ॥ १ ॥

पदच्छेद

यदाyadāवैvaiपुरुषःpuruṣaḥअस्मात्asmātलोकात्lokātप्रैतिpraitiसःsaḥवायुम्vāyumआगच्छतिāgacchatiतस्मैtasmaiसःsaḥतत्रtatraविजिहीतेvijihīteयथाyathāरथचक्रस्यrathacakrasyaखम्khamतेनtenaसःsaḥऊर्ध्वःūrdhvaḥआक्रमतेākramateसःsaḥआदित्यम्ādityamआगच्छतिāgacchatiतस्मैtasmaiसःsaḥतत्रtatraविजिहीतेvijihīteयथाyathāलम्बरस्यlambarasyaखम्khamतेनtenaसःsaḥऊर्ध्वःūrdhvaḥआक्रमतेākramateसःsaḥचन्द्रमसम्candramasamआगच्छतिāgacchatiतस्मैtasmaiसःsaḥतत्रtatraविजिहीतेvijihīteयथाyathāदुन्दुभेःdundubheḥखम्khamतेनtenaसःsaḥऊर्ध्वःūrdhvaḥआक्रमतेākramateसःsaḥलोकम्lokamआगच्छतिāgacchatiअशोकम्aśokamअहिमम्ahimamतस्मिन्tasminवसतिvasatiशाश्वतीःśāśvatīḥसमाःsamāḥ

अन्वय

यदा वै पुरुषः अस्मात् लोकात् प्रैति, सः वायुम् आगच्छति । सः [वायुः] तत्र तस्मै विजिहीते, यथा रथचक्रस्य खम् [तथा] । तेन सः ऊर्ध्वः आक्रमते । सः आदित्यम् आगच्छति । सः [आदित्यः] तत्र तस्मै विजिहीते, यथा लम्बरस्य खम् [तथा] । तेन सः ऊर्ध्वः आक्रमते । सः चन्द्रमसम् आगच्छति । सः [चन्द्रमाः] तत्र तस्मै विजिहीते, यथा दुन्दुभेः खम् [तथा] । तेन सः ऊर्ध्वः आक्रमते । सः अशोकम् अहिमम् लोकम् आगच्छति; तस्मिन् शाश्वतीः समाः वसति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण १०

Read the whole section →