Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.3

त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुत । अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव सा । एषा ह्यन्तं आयत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव । एतन्मयो वा अयमात्मा । वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥

पदच्छेद

त्रीणिtrīṇiआत्मनेātmaneअकुरुतakurutaइतिitiमनःmanaḥवाचम्vācamप्राणम्prāṇamतानिtāniआत्मनेātmaneअकुरुतakurutaअन्यत्रमनाःanyatramanāḥअभूवम्abhūvamनnaअदर्शम्adarśamअन्यत्रमनाःanyatramanāḥअभूवम्abhūvamनnaअश्रौषम्aśrauṣamइतिitiमनसाmanasāहिhiएवevaपश्यतिpaśyatiमनसाmanasāशृणोतिśṛṇotiकामःkāmaḥसंकल्पःsaṃkalpaḥविचिकित्साvicikitsāश्रद्धाśraddhāअश्रद्धाaśraddhāधृतिःdhṛtiḥअधृतिःadhṛtiḥह्रीःhrīḥधीःdhīḥभीःbhīḥइतिitiएतत्etatसर्वम्sarvamमनःmanaḥएवevaतस्मात्tasmātअपिapiपृष्ठतःpṛṣṭhataḥउपस्पृष्टःupaspṛṣṭaḥमनसाmanasāविजानातिvijānātiयःyaḥकश्चkaścaशब्दःśabdaḥवाक्vākएवevaसाsāएषाeṣāहिhiअन्तम्antamआयत्ताāyattāएषाeṣāहिhiनnaप्राणःprāṇaḥअपानःapānaḥव्यानःvyānaḥउदानःudānaḥसमानःsamānaḥअनःanaḥइतिitiएतत्etatसर्वम्sarvamप्राणःprāṇaḥएवevaएतन्मयःetanmayaḥवैvaiअयम्ayamआत्माātmāवाङ्मयःvāṅmayaḥमनोमयःmanomayaḥप्राणमयःprāṇamayaḥ

अन्वय

त्रीणि आत्मने अकुरुत इति; मनः वाचम् प्राणम् [इति] तानि आत्मने अकुरुत । अन्यत्रमनाः अभूवम्, न अदर्शम्; अन्यत्रमनाः अभूवम्, न अश्रौषम् इति । हि मनसा एव पश्यति, मनसा शृणोति । कामः संकल्पः विचिकित्सा श्रद्धा अश्रद्धा धृतिः अधृतिः ह्रीः धीः भीः इति एतत् सर्वम् मनः एव [अस्ति] । तस्मात् पृष्ठतः उपस्पृष्टः अपि मनसा विजानाति । यः कश्च शब्दः [अस्ति], सा वाक् एव [अस्ति] । हि एषा अन्तम् [अभिधेयावसानम्] आयत्ता [अस्ति]; हि एषा न [प्रकाश्या अस्ति] । प्राणः अपानः व्यानः उदानः समानः अनः इति एतत् सर्वम् प्राणः एव [अस्ति] । अयम् आत्मा [कार्यकरणसङ्घातः] वा एतन्मयः वाङ्मयः मनोमयः प्राणमयः [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →