Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.23

अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति । प्राणाद्वा एष उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च । नेन्मा पाप्मा मृत्युराप्नवदिति । यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ २३ ॥

पदच्छेद

अथathaएषःeṣaḥश्लोकःślokaḥभवतिbhavatiयतःyataḥचcaउदेतिudetiसूर्यःsūryaḥअस्तम्astamयत्रyatraचcaगच्छतिgacchatiइतिitiप्राणात्prāṇātवैvaiएषःeṣaḥउदेतिudetiप्राणेprāṇeअस्तम्astamएतिetiतम्tamदेवाःdevāḥचक्रिरेcakrireधर्मम्dharmamसःsaḥएवevaअद्यadyaसःsaḥउuश्वःśvaḥइतिitiयत्yatवैvaiएतेeteअमुर्हिamurhiअध्रियन्तadhriyantaतत्tatएवevaअपिapiअद्यadyaकुर्वन्तिkurvantiतस्मात्tasmātएकम्ekamएवevaव्रतम्vratamचरेत्caretप्राण्यात्prāṇyātचcaएवevaअपान्यात्apānyātचcaनnaइत्itमाmāपाप्माpāpmāमृत्युःmṛtyuḥआप्नवत्āpnavatइतिitiयदिyadiउuचरेत्caretसमापिपयिषेत्samāpipayiṣetतेनtenaउuएतस्यैetasyaiदेवतायैdevatāyaiसायुज्यम्sāyujyamसलोकताम्salokatāmजयतिjayati

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →