Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.14

स एष संवत्सरः प्रजापतिष्षोडशकलः । तस्य रात्रय एव पञ्चदश कला । ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते । सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥

पदच्छेद

सःsaḥएषःeṣaḥसंवत्सरःsaṃvatsaraḥप्रजापतिःprajāpatiḥषोडशकलःṣoḍaśakalaḥतस्यtasyaरात्रयःrātrayaḥएवevaपञ्चदशpañcadaśaकलाःkalāḥध्रुवाdhruvāएवevaअस्यasyaषोडशीṣoḍaśīकलाkalāसःsaḥरात्रिभिःrātribhiḥएवevaआāचcaपूर्यतेpūryateअपapaचcaक्षीयतेkṣīyateसःsaḥअमावास्याम्amāvāsyāmरात्रिम्rātrimएतयाetayāषोडश्याṣoḍaśyāकलयाkalayāसर्वम्sarvamइदम्idamप्राणभृत्prāṇabhṛtअनुप्रविश्यanupraviśyaततःtataḥप्रातःprātaḥजायतेjāyateतस्मात्tasmātएताम्etāmरात्रिम्rātrimप्राणभृतःprāṇabhṛtaḥप्राणम्prāṇamनnaविच्छिन्द्यात्vicchindyātअपिapiकृकलासस्यkṛkalāsasyaएतस्याःetasyāḥएवevaदेवतायाःdevatāyāḥअपचित्यैapacityai

अन्वय

सः एषः संवत्सरः षोडशकलः प्रजापतिः [अस्ति] । तस्य रात्रयः एव पञ्चदश कलाः [सन्ति]; अस्य षोडशी कला ध्रुवा एव [अस्ति] । सः रात्रिभिः एव आ च पूर्यते, अप च क्षीयते । सः अमावास्याम् रात्रिम् एतया षोडश्या कलया इदम् सर्वम् प्राणभृत् अनुप्रविश्य ततः प्रातः जायते । तस्मात् एताम् रात्रिम् प्राणभृतः प्राणम् अपि कृकलासस्य न विच्छिन्द्यात्, एतस्याः एव देवतायाः अपचित्यै ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →