Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.20

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति । स एष एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा देवतैवं सः । यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति । पुण्यमेवामुं गच्छति । न ह वै देवान् पापं गच्छति ॥ २० ॥

पदच्छेद

अद्भ्यःadbhyaḥचcaएनम्enamचन्द्रमसःcandramasaḥचcaदैवःdaivaḥप्राणःprāṇaḥआविशतिāviśatiसःsaḥवैvaiदैवःdaivaḥप्राणःprāṇaḥयःyaḥसंचरन्saṃcaranचcaअसंचरन्asaṃcaranचcaनnaव्यथतेvyathateअथathaउuनnaरिष्यतिriṣyatiसःsaḥएषःeṣaḥएवंवित्evaṃvitसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmआत्माātmāभवतिbhavatiयथाyathāएषाeṣāदेवताdevatāएवम्evamसःsaḥयथाyathāएताम्etāmदेवताम्devatāmसर्वाणिsarvāṇiभूतानिbhūtāniअवन्तिavantiएवम्evamहhaएवंविदम्evaṃvidamसर्वाणिsarvāṇiभूतानिbhūtāniअवन्तिavantiयत्yatउuकिञ्चkiñcaइमाःimāḥप्रजाःprajāḥशोचन्तिśocantiअमाamāएवevaआसाम्āsāmतत्tatभवतिbhavatiपुण्यम्puṇyamएवevaअमुम्amumगच्छतिgacchatiनnaहhaवैvaiदेवान्devānपापम्pāpamगच्छतिgacchati

अन्वय

अद्भ्यः च चन्द्रमसः च दैवः प्राणः एनम् आविशति । यः संचरन् च असंचरन् च न व्यथते, अथो न रिष्यति, सः वै दैवः प्राणः [अस्ति] । सः एषः एवम्‌वित् सर्वेषाम् भूतानाम् आत्मा भवति । यथा एषा देवता [अस्ति], एवम् सः [अस्ति] । यथा सर्वाणि भूतानि एताम् देवताम् अवन्ति, एवम् ह सर्वाणि भूतानि एवम्‌विदम् अवन्ति । इमाः प्रजाः यत् उ किञ्च शोचन्ति, तत् आसाम् अमा एव भवति । पुण्यम् एव अमुम् गच्छति; पापम् ह वै देवान् न गच्छति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →