Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.21

अथातो व्रतमीमांसा । प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्योऽन्येनास्पर्धन्त । वदिष्याम्येवाहमिति वाग्दध्रे । द्रक्ष्याम्यहमिति चक्षुः । श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि कर्माणि यथाकर्मम् । तानि मृत्युः श्रमो भूत्वोपयेमे । तान्याप्नोत् । तान्याप्त्वा मृत्युरवारुन्ध । तस्माच्छ्राम्यत्येव वाक् । श्राम्यति चक्षुः । श्राम्यति श्रोत्रम् । अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति । हन्तास्यैव सर्वे रूपं भवामेति । त एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धतेऽनुशुष्यति । अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१ ॥

पदच्छेद

अथathaअतःataḥव्रतमीमांसाvratamīmāṃsāप्रजापतिःprajāpatiḥहhaकर्माणिkarmāṇiससृजेsasṛjeतानिtāniसृष्टानिsṛṣṭāniअन्यःanyaḥअन्येनanyenaअस्पर्धन्तaspardhantaवदिष्यामिvadiṣyāmiएवevaअहम्ahamइतिitiवाक्vākदध्रेdadhreद्रक्ष्यामिdrakṣyāmiअहम्ahamइतिitiचक्षुःcakṣuḥश्रोष्यामिśroṣyāmiअहम्ahamइतिitiश्रोत्रम्śrotramएवम्evamअन्यानिanyāniकर्माणिkarmāṇiयथाकर्मम्yathākarmamतानिtāniमृत्युःmṛtyuḥश्रमःśramaḥभूत्वाbhūtvāउपयेमेupayemeतानिtāniआप्नोत्āpnotतानिtāniआप्त्वाāptvāमृत्युःmṛtyuḥअवारुन्धavārundhaतस्मात्tasmātश्राम्यतिśrāmyatiएवevaवाक्vākश्राम्यतिśrāmyatiचक्षुःcakṣuḥश्राम्यतिśrāmyatiश्रोत्रम्śrotramअथathaइमम्imamएवevaनnaआप्नोत्āpnotयःyaḥअयम्ayamमध्यमःmadhyamaḥप्राणःprāṇaḥतानिtāniज्ञातुम्jñātumदध्रिरेdadhrireअयम्ayamवैvaiनःnaḥश्रेष्ठःśreṣṭhaḥयःyaḥसंचरन्saṃcaranचcaअसंचरन्asaṃcaranचcaनnaव्यथतेvyathateअथathaउuनnaरिष्यतिriṣyatiहन्तhantaअस्यasyaएवevaसर्वेsarveरूपम्rūpamभवामbhavāmaइतिitiतेteएतस्यetasyaएवevaसर्वेsarveरूपम्rūpamअभवन्abhavanतस्मात्tasmātएतेeteएतेनetenaआख्यायन्तेākhyāyanteप्राणाःprāṇāḥइतिitiतेनtenaहhaवावvāvaतत्tatकुलम्kulamआचक्षतेācakṣateयस्मिन्yasminकुलेkuleभवतिbhavatiयःyaḥएवम्evamवेदvedaयःyaḥउuहhaएवंविदाevaṃvidāस्पर्धतेspardhateअनुशुष्यतिanuśuṣyatiअनुशुष्यanuśuṣyaहhaएवevaअन्ततःantataḥम्रियतेmriyateइतिitiअध्यात्मम्adhyātmam

अन्वय

अथ अतः व्रतमीमांसा [प्रवर्तते] । प्रजापतिः ह कर्माणि ससृजे । सृष्टानि तानि अन्योन्येन अस्पर्धन्त । अहम् वदिष्यामि एव इति वाक् दध्रे । अहम् द्रक्ष्यामि इति चक्षुः [दध्रे]; अहम् श्रोष्यामि इति श्रोत्रम् [दध्रे] । एवम् अन्यानि कर्माणि यथाकर्मम् [दध्रिरे] । मृत्युः श्रमः भूत्वा तानि उपयेमे; तानि आप्नोत् । मृत्युः तानि आप्त्वा अवारुन्ध । तस्मात् वाक् श्राम्यति एव; चक्षुः श्राम्यति; श्रोत्रम् श्राम्यति । अथ यः अयम् मध्यमः प्राणः [अस्ति], इमम् एव न आप्नोति । तानि ज्ञातुम् दध्रिरे-अयम् वै नः श्रेष्ठः [अस्ति], यः संचरन् च असंचरन् च न व्यथते, अथो न रिष्यति । हन्त, [वयम्] सर्वे अस्य एव रूपम् भवाम इति । ते एतस्य एव सर्वे रूपम् अभवन् । तस्मात् एते एतेन प्राणाः इति आख्यायन्ते । यः एवम् वेद [सः] यस्मिन् कुले भवति, तत् कुलम् तेन ह वाव आचक्षते । यः उ ह एवम्‌विदा स्पर्धते, [सः] अनुशुष्यति; ह अनुशुष्य एव अन्ततः म्रियते इति अध्यात्मम् ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →