Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.13

अथैतस्य प्राणस्यापः शरीरम् । ज्योतीरूपमसौ चन्द्रः । तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समाः सर्वेऽनन्ताः । स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति । अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ १३ ॥

पदच्छेद

अथathaएतस्यetasyaप्राणस्यprāṇasyaआपःāpaḥशरीरम्śarīramज्योतीरूपम्jyotīrūpamअसौasauचन्द्रःcandraḥतत्tatयावान्yāvānएवevaप्राणःprāṇaḥतावत्यःtāvatyaḥआपःāpaḥतावान्tāvānअसौasauचन्द्रःcandraḥतेteएतेeteसर्वेsarveएवevaसमाःsamāḥसर्वेsarveअनन्ताःanantāḥसःsaḥयःyaḥहhaएतान्etānअन्तवतःantavataḥउपास्तेupāsteअन्तवन्तम्antavantamसःsaḥलोकम्lokamजयतिjayatiअथathaयःyaḥहhaएतान्etānअनन्तान्anantānउपास्तेupāsteअनन्तम्anantamसःsaḥलोकम्lokamजयतिjayati

अन्वय

अथ एतस्य प्राणस्य आपः शरीरम् [अस्ति]; असौ चन्द्रः ज्योतीरूपम् [अस्ति] । तत् यावान् एव प्राणः [अस्ति], तावत्यः आपः [सन्ति], तावान् असौ चन्द्रः [अस्ति] । ते एते सर्वे एव समाः [सन्ति]; सर्वे अनन्ताः [सन्ति] । सः यः ह एतान् अन्तवतः उपास्ते, सः अन्तवन्तम् लोकम् जयति । अथ यः ह एतान् अनन्तान् उपास्ते, सः अनन्तम् लोकम् जयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →