Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.2

यत्सप्तान्नानि मेधया तपसाजनयत्पितेति । मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति । इदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते । मिश्रं ह्येतत् । द्वे देवानभाजयदिति । हुतं च प्रहुतं च । तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति । अथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति । तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति । तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति । अथ वत्सं जातमाहुस्तृणादिति । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति । न तथा विद्यात् । यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् । सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति । पुरुषो वा अक्षितिः । स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति । पुरुषो वा अक्षितिः । स हीदमन्नं धियाधिया जनयते कर्मभिः । यद्धैतन्न कुर्यात्क्षीयेत ह । सोऽन्नमत्ति प्रतीकेनेति । मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥

पदच्छेद

यत्yatसप्तsaptaअन्नानिannāniमेधयाmedhayāतपसाtapasāअजनयत्ajanayatपिताpitāइतिitiमेधयाmedhayāहिhiतपसाtapasāअजनयत्ajanayatपिताpitāएकम्ekamअस्यasyaसाधारणम्sādhāraṇamइतिitiइदम्idamएवevaअस्यasyaतत्tatसाधारणम्sādhāraṇamअन्नम्annamयत्yatइदम्idamअद्यतेadyateसःsaḥयःyaḥएतत्etatउपास्तेupāsteनnaसःsaḥपाप्मनःpāpmanaḥव्यावर्ततेvyāvartateमिश्रम्miśramहिhiएतत्etatद्वेdveदेवान्devānअभाजयत्abhājayatइतिitiहुतम्hutamचcaप्रहुतम्prahutamचcaतस्मात्tasmātदेवेभ्यःdevebhyaḥजुह्वतिjuhvatiचcaप्रpraचcaजुह्वतिjuhvatiअथathaउuआहुःāhuḥदर्शपूर्णमासौdarśapūrṇamāsauइतिitiतस्मात्tasmātनnaइष्टियाजुकःiṣṭiyājukaḥस्यात्syātपशुभ्यःpaśubhyaḥएकम्ekamप्रायच्छत्prāyacchatइतिitiतत्tatपयःpayaḥपयःpayaḥहिhiएवevaअग्रेagreमनुष्याःmanuṣyāḥचcaपशवःpaśavaḥचcaउपजीवन्तिupajīvantiतस्मात्tasmātकुमारम्kumāramजातम्jātamघृतम्ghṛtamवैvaiएवevaअग्रेagreप्रतिलेहयन्तिpratilehayantiस्तनम्stanamवाvāअनुधापयन्तिanudhāpayantiअथathaवत्सम्vatsamजातम्jātamआहुःāhuḥअतृणात्atṛṇātइतिitiतस्मिन्tasminसर्वम्sarvamप्रतिष्ठितम्pratiṣṭhitamयत्yatचcaप्राणितिprāṇitiयत्yatचcaनnaइतिitiपयसिpayasiहिhiइदम्idamसर्वम्sarvamप्रतिष्ठितम्pratiṣṭhitamयत्yatचcaप्राणितिprāṇitiयत्yatचcaनnaतत्tatयत्yatइदम्idamआहुःāhuḥसंवत्सरम्saṃvatsaramपयसाpayasāजुह्वत्juhvatअपapaपुनर्मृत्युम्punarmṛtyumजयतिjayatiइतिitiनnaतथाtathāविद्यात्vidyātयत्yatअहःahaḥएवevaजुहोतिjuhotiतत्tatअहःahaḥपुनर्मृत्युम्punarmṛtyumअपजयतिapajayatiएवम्evamविद्वान्vidvānसर्वम्sarvamहिhiदेवेभ्यःdevebhyaḥअन्नाद्यम्annādyamप्रयच्छतिprayacchatiकस्मात्kasmātतानिtāniनnaक्षीयन्तेkṣīyanteअद्यमानानिadyamānāniसर्वदाsarvadāइतिitiपुरुषःpuruṣaḥवैvaiअक्षितिःakṣitiḥसःsaḥहिhiइदम्idamअन्नम्annamपुनःpunaḥपुनःpunaḥजनयतेjanayateयःyaḥवैvaiएताम्etāmअक्षितिम्akṣitimवेदvedaइतिitiपुरुषःpuruṣaḥवैvaiअक्षितिःakṣitiḥसःsaḥहिhiइदम्idamअन्नम्annamधियाdhiyāधियाdhiyāजनयतेjanayateकर्मभिःkarmabhiḥयत्yatहhaएतत्etatनnaकुर्यात्kuryātक्षीयेतkṣīyetaहhaसःsaḥअन्नम्annamअत्तिattiप्रतीकेनpratīkenaइतिitiमुखम्mukhamप्रतीकम्pratīkamमुखेनmukhenaइतिitiएतत्etatसःsaḥदेवान्devānअपिगच्छतिapigacchatiसःsaḥऊर्जम्ūrjamउपजीवतिupajīvatiइतिitiप्रशंसाpraśaṃsā

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →