Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ५

संस्कृत

Passage 5.12

अथैतस्य मनसो द्यौः शरीरम् । ज्योतीरूपमसावादित्यः । तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः । तौ मिथुनं समैताम् । ततः प्राणोऽजायत । स इन्द्रः । स एषोऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति य एवं वेद ॥ १२ ॥

पदच्छेद

अथathaएतस्यetasyaमनसःmanasaḥद्यौःdyauḥशरीरम्śarīramज्योतीरूपम्jyotīrūpamअसौasauआदित्यःādityaḥतत्tatयावत्yāvatएवevaमनःmanaḥतावतीtāvatīद्यौःdyauḥतावान्tāvānअसौasauआदित्यःādityaḥतौtauमिथुनम्mithunamसमैताम्samaitāmततःtataḥप्राणःprāṇaḥअजायतajāyataसःsaḥइन्द्रःindraḥसःsaḥएषःeṣaḥअसपत्नःasapatnaḥद्वितीयःdvitīyaḥवैvaiसपत्नःsapatnaḥनnaअस्यasyaसपत्नःsapatnaḥभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

अथ एतस्य मनसः द्यौः शरीरम् [अस्ति]; असौ आदित्यः ज्योतीरूपम् [अस्ति] । तत् यावत् एव मनः [अस्ति], तावती द्यौः [अस्ति], तावान् असौ आदित्यः [अस्ति] । तौ मिथुनम् समैताम् । ततः प्राणः अजायत । सः इन्द्रः [अस्ति]; सः एषः असपत्नः [अस्ति] । द्वितीयः वै सपत्नः [अस्ति] । यः एवम् वेद, अस्य सपत्नः न भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ५

Read the whole section →