Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण १

संस्कृत

Passage 7.4

स होवाच गार्ग्यः य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । तेजस्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते तेजस्वी ह भवति । तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaगार्ग्यःgārgyaḥयःyaḥएवevaअसौasauविद्युतिvidyutiपुरुषःpuruṣaḥएतम्etamएवevaअहम्ahamब्रह्मbrahmaउपासेupāseइतिitiसःsaḥहhaउवाचuvācaअजातशत्रुःajātaśatruḥमाmāमाmāएतस्मिन्etasminसंवदिष्ठाःsaṃvadiṣṭhāḥतेजस्वीtejasvīइतिitiवैvaiअहम्ahamएतम्etamउपासेupāseइतिitiसःsaḥयःyaḥएतम्etamएवम्evamउपास्तेupāsteतेजस्वीtejasvīहhaभवतिbhavatiतेजस्विनीtejasvinīहhaअस्यasyaप्रजाprajāभवतिbhavati

अन्वय

सः ह गार्ग्यः उवाच-यः एव असौ विद्युति पुरुषः [अस्ति], एतम् एव अहम् ब्रह्म उपासे इति । सः ह अजातशत्रुः उवाच-मा मा एतस्मिन् संवदिष्ठाः । तेजस्वी इति वा अहम् एतम् उपासे इति । सः यः एतम् एवम् उपास्ते, [सः] ह तेजस्वी भवति; अस्य प्रजा ह तेजस्विनी भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण १

Read the whole section →