Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण १

संस्कृत

Passage 7.18

स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकाः । तदुतेव महाराजो भवत्युतेव महाब्राह्मणः । उतेवोच्चावचं निगच्छति । स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥

पदच्छेद

सःsaḥयत्रyatraएतत्etatस्वप्न्ययाsvapnyayāचरतिcaratiतेteहhaअस्यasyaलोकाःlokāḥतत्tatउतutaइवivaमहाराजःmahārājaḥभवतिbhavatiउतutaइवivaमहाब्राह्मणःmahābrāhmaṇaḥउतutaइवivaउच्चावचम्uccāvacamनिगच्छतिnigacchatiसःsaḥयथाyathāमहाराजःmahārājaḥजानपदान्jānapadānगृहीत्वाgṛhītvāस्वेsveजनपदेjanapadeयथाकामम्yathākāmamपरिवर्तेतparivartetaएवम्evamएवevaएषःeṣaḥएतत्etatप्राणान्prāṇānगृहीत्वाgṛhītvāस्वेsveशरीरेśarīreयथाकामम्yathākāmamपरिवर्ततेparivartate

अन्वय

सः यत्र एतत् स्वप्न्यया [स्वप्नवृत्त्या] चरति, ते ह अस्य लोकाः [सन्ति] । तत् उत [सः] महाराजः इव भवति, उत [सः] महाब्राह्मणः इव [भवति], उत [सः] उच्चावचम् इव निगच्छति । सः यथा महाराजः जानपदान् गृहीत्वा स्वे जनपदे यथाकामम् परिवर्तेत, एवम् एव एषः एतत् प्राणान् गृहीत्वा स्वे शरीरे यथाकामम् परिवर्तते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण १

Read the whole section →