Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण १

संस्कृत

Passage 7.19

अथ यदा सुषुप्तो भवति । यदा न कस्य चन वेद । हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीत । एवमेवैष एतच्छेते ॥ १९ ॥

पदच्छेद

अथathaयदाyadāसुषुप्तःsuṣuptaḥभवतिbhavatiयदाyadāनnaकस्यkasyaचनcanaवेदvedaहिताःhitāḥनामnāmaनाड्यःnāḍyaḥद्वासप्ततिःdvāsaptatiḥसहस्राणिsahasrāṇiहृदयात्hṛdayātपुरीततम्purītatamअभिप्रतिष्ठन्तेabhipratiṣṭhanteताभिःtābhiḥप्रत्यवसृप्यpratyavasṛpyaपुरीततिpurītatiशेतेśeteसःsaḥयथाyathāकुमारःkumāraḥवाvāमहाराजःmahārājaḥवाvāमहाब्राह्मणःmahābrāhmaṇaḥवाvāअतिघ्नीम्atighnīmआनन्दस्यānandasyaगत्वाgatvāशयीतśayītaएवम्evamएवevaएषःeṣaḥएतत्etatशेतेśete

अन्वय

अथ यदा [एषः] सुषुप्तः भवति, यदा कस्य चन [विषयस्य सम्बन्धि किञ्चन] न वेद, हिता नाम नाड्यः द्वासप्ततिः सहस्राणि हृदयात् पुरीततम् अभिप्रतिष्ठन्ते; ताभिः प्रत्यवसृप्य पुरीतति शेते । सः यथा कुमारः वा महाराजः वा महाब्राह्मणः वा आनन्दस्य अतिघ्नीम् [अवस्थाम्] गत्वा शयीत, एवम् एव एषः एतत् शेते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण १

Read the whole section →