Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण १

संस्कृत

Passage 7.10

स होवाच गार्ग्यः य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । असुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति । नैनं पुरा कालात्प्राणो जहाति ॥ १० ॥

पदच्छेद

सःsaḥहhaउवाचuvācaगार्ग्यःgārgyaḥयःyaḥएवevaअयम्ayamयन्तम्yantamपश्चात्paścātशब्दःśabdaḥअनूदेतिanūdetiएतम्etamएवevaअहम्ahamब्रह्मbrahmaउपासेupāseइतिitiसःsaḥहhaउवाचuvācaअजातशत्रुःajātaśatruḥमाmāमाmāएतस्मिन्etasminसंवदिष्ठाःsaṃvadiṣṭhāḥअसुःasuḥइतिitiवैvaiअहम्ahamएतम्etamउपासेupāseइतिitiसःsaḥयःyaḥएतम्etamएवम्evamउपास्तेupāsteसर्वम्sarvamहhaएवevaअस्मिन्asminलोकेlokeआयुःāyuḥएतिetiनnaएनम्enamपुराpurāकालात्kālātप्राणःprāṇaḥजहातिjahāti

अन्वय

सः ह गार्ग्यः उवाच-यः एव अयम् शब्दः यन्तम् [पुरुषम्] पश्चात् अनूदेति, एतम् एव अहम् ब्रह्म उपासे इति । सः ह अजातशत्रुः उवाच-मा मा एतस्मिन् संवदिष्ठाः । असुः इति वा अहम् एतम् उपासे इति । सः यः एतम् एवम् उपास्ते, [सः] अस्मिन् लोके सर्वम् आयुः ह एव एति; प्राणः एनम् कालात् पुरा न जहाति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण १

Read the whole section →