Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण ५

संस्कृत

Passage 11.15

स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः । एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५ ॥

पदच्छेद

सःsaḥवैvaiअयम्ayamआत्माātmāसर्वेषाम्sarveṣāmअधिपतिःadhipatiḥसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmराजाrājāतत्tatयथाyathāरथनाभौrathanābhauचcaरथनेमौrathanemauचcaअराःarāḥसर्वेsarveसमर्पिताःsamarpitāḥएवम्evamएवevaअस्मिन्asminआत्मनिātmaniसर्वाणिsarvāṇiभूतानिbhūtāniसर्वेsarveदेवाःdevāḥसर्वेsarveलोकाःlokāḥसर्वेsarveप्राणाःprāṇāḥसर्वेsarveएतेeteआत्मानःātmānaḥसमर्पिताःsamarpitāḥ

अन्वय

सः वै अयम् आत्मा सर्वेषाम् अधिपतिः सर्वेषाम् भूतानाम् राजा [अस्ति] । तत् यथा सर्वे अराः रथनाभौ च रथनेमौ च समर्पिताः [सन्ति], एवम् एव अस्मिन् आत्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्वे एते आत्मानः समर्पिताः [सन्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण ५

Read the whole section →