Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण ५

संस्कृत

Passage 11.12

इदं सत्यं सर्वेषां भूतानां मधु । अस्य सत्यस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ १२ ॥

पदच्छेद

इदम्idamसत्यम्satyamसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmमधुmadhuअस्यasyaसत्यस्यsatyasyaसर्वाणिsarvāṇiभूतानिbhūtāniमधुmadhuयःyaḥचcaअयम्ayamअस्मिन्asminसत्येsatyeतेजोमयःtejomayaḥअमृतमयःamṛtamayaḥपुरुषःpuruṣaḥयःyaḥचcaअयम्ayamअध्यात्मम्adhyātmamसात्यःsātyaḥतेजोमयःtejomayaḥअमृतमयःamṛtamayaḥपुरुषःpuruṣaḥअयम्ayamएवevaसःsaḥयःyaḥअयम्ayamआत्माātmāइदम्idamअमृतम्amṛtamइदम्idamब्रह्मbrahmaइदम्idamसर्वम्sarvam

अन्वय

इदम् सत्यम् सर्वेषाम् भूतानाम् मधु [अस्ति] । अस्य सत्यस्य सर्वाणि भूतानि मधु [सन्ति] । अस्मिन् सत्ये यः च अयम् तेजोमयः अमृतमयः पुरुषः [अस्ति], अध्यात्मम् यः च अयम् सात्यः तेजोमयः अमृतमयः पुरुषः [अस्ति], अयम् एव सः [अस्ति], यः अयम् आत्मा [अस्ति] । इदम् अमृतम् [अस्ति]; इदम् ब्रह्म [अस्ति]; इदम् सर्वम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण ५

Read the whole section →