Sunday Meditation· Open to Everyone

विभूतिपादः

संस्कृत

Sutra 3.1

देशबन्धश्चित्तस्य धारणा ।। ३.१ ।।

पदच्छेद

देश-बन्धःdeśa-bandhaḥचित्तस्यcittasyaधारणाdhāraṇā

अन्वय

चित्तस्य देशबन्धः धारणा [अस्ति] ।

Sutra 3.2

तत्र प्रत्ययैकतानता ध्यानं ।। ३.२ ।।

पदच्छेद

तत्रtatraप्रत्यय-एकतानताpratyaya-ekatānatāध्यानम्dhyānam

अन्वय

तत्र प्रत्ययैकतानता ध्यानम् [अस्ति] ।

Sutra 3.3

तदेवार्थमात्रनिर्भासं स्वरूपशून्यं इव समाधिः ।। ३.३ ।।

पदच्छेद

तत्tatएवevaअर्थ-मात्र-निर्भासम्artha-mātra-nirbhāsamस्वरूप-शून्यम्svarūpa-śūnyamइवivaसमाधिःsamādhiḥ

अन्वय

तत् एव अर्थमात्रनिर्भासम् स्वरूपशून्यम् इव समाधिः [अस्ति] ।

Sutra 3.4

त्रयं एकत्र संयमः ।। ३.४ ।।

पदच्छेद

त्रयम्trayamएकत्रekatraसंयमःsaṃyamaḥ

अन्वय

एकत्र त्रयम् संयमः [अस्ति] ।

Sutra 3.5

तज्जयात्प्रज्ञालोकः ।। ३.५ ।।

पदच्छेद

तत्-जयात्tat-jayātप्रज्ञा-आलोकःprajñā-ālokaḥ

अन्वय

तत्-जयात् प्रज्ञालोकः [भवति] ।

Sutra 3.6

तस्य भूमिषु विनियोगः ।। ३.६ ।।

पदच्छेद

तस्यtasyaभूमिषुbhūmiṣuविनियोगःviniyogaḥ

अन्वय

तस्य [संयमस्य] भूमिषु विनियोगः [कर्तव्यः] ।

Sutra 3.7

त्रयं अन्तरङ्गं पूर्वेभ्यः ।। ३.७ ।।

पदच्छेद

त्रयम्trayamअन्तरङ्गम्antaraṅgamपूर्वेभ्यःpūrvebhyaḥ

अन्वय

त्रयम् पूर्वेभ्यः अन्तरङ्गम् [अस्ति] ।

Sutra 3.8

तदपि बहिरङ्गं निर्बीजस्य ।। ३.८ ।।

पदच्छेद

तत्tatअपिapiबहिरङ्गम्bahiraṅgamनिर्बीजस्यnirbījasya

अन्वय

तत् अपि निर्बीजस्य बहिरङ्गम् [अस्ति] ।

Sutra 3.9

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौनिरोधक्षणचित्तान्वयो निरोधपरिणामः ।। ३.९ ।।

पदच्छेद

व्युत्थान-निरोध-संस्कारयोःvyutthāna-nirodha-saṃskārayoḥअभिभव-प्रादुर्भावौabhibhava-prādurbhāvauनिरोध-क्षण-चित्त-अन्वयःnirodha-kṣaṇa-citta-anvayaḥनिरोध-परिणामःnirodha-pariṇāmaḥ

अन्वय

व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ [भवतः]; निरोधक्षणचित्तान्वयः निरोधपरिणामः [अस्ति] ।

Sutra 3.10

तस्य प्रशान्तवाहिता संस्कारात् ।। ३.१० ।।

पदच्छेद

तस्यtasyaप्रशान्त-वाहिताpraśānta-vāhitāसंस्कारात्saṃskārāt

अन्वय

संस्कारात् तस्य प्रशान्तवाहिता [भवति] ।

Sutra 3.11

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ।। ३.११ ।।

पदच्छेद

सर्वार्थता-एकाग्रतयोःsarvārthatā-ekāgratayoḥक्षय-उदयौkṣaya-udayauचित्तस्यcittasyaसमाधि-परिणामःsamādhi-pariṇāmaḥ

अन्वय

चित्तस्य सर्वार्थतैकाग्रतयोः क्षयोदयौ समाधिपरिणामः [अस्ति] ।

Sutra 3.12

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौचित्तस्यैकाग्रतापरिणामः ।। ३.१२ ।।

पदच्छेद

ततःtataḥपुनःpunaḥशान्त-उदितौśānta-uditauतुल्य-प्रत्ययौtulya-pratyayauचित्तस्यcittasyaएकाग्रता-परिणामःekāgratā-pariṇāmaḥ

अन्वय

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ [भवतः]; [अयम्] चित्तस्य एकाग्रतापरिणामः [अस्ति] ।

Sutra 3.13

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ।। ३.१३ ।।

पदच्छेद

एतेनetenaभूत-इन्द्रियेषुbhūta-indriyeṣuधर्म-लक्षण-अवस्था-परिणामाःdharma-lakṣaṇa-avasthā-pariṇāmāḥव्याख्याताःvyākhyātāḥ

अन्वय

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामाः व्याख्याताः [सन्ति] ।

Sutra 3.14

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ।। ३.१४ ।।

पदच्छेद

शान्त-उदित-अव्यपदेश्य-धर्म-अनुपातीśānta-udita-avyapadeśya-dharma-anupātīधर्मीdharmī

अन्वय

धर्मी शान्तोदिताव्यपदेश्यधर्मानुपाती [अस्ति] ।

Sutra 3.15

क्रमान्यत्वं परिणामान्यत्वे हेतुः ।। ३.१५ ।।

पदच्छेद

क्रम-अन्यत्वम्krama-anyatvamपरिणाम-अन्यत्वेpariṇāma-anyatveहेतुःhetuḥ

अन्वय

क्रमान्यत्वम् परिणामान्यत्वे हेतुः [अस्ति] ।

Sutra 3.16

परिणामत्रयसंयमादतीतानागतज्ञानं ।। ३.१६ ।।

पदच्छेद

परिणाम-त्रय-संयमात्pariṇāma-traya-saṃyamātअतीत-अनागत-ज्ञानम्atīta-anāgata-jñānam

अन्वय

परिणामत्रयसंयमात् अतीतानागतज्ञानम् [भवति] ।

Sutra 3.17

शब्दार्थप्रत्ययानां इतरेतराध्यासात्संकरः.तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानं ।। ३.१७ ।।

पदच्छेद

शब्द-अर्थ-प्रत्ययानाम्śabda-artha-pratyayānāmइतरेतर-अध्यासात्itaretara-adhyāsātसंकरःsaṃkaraḥतत्-प्रविभाग-संयमात्tat-pravibhāga-saṃyamātसर्व-भूत-रुत-ज्ञानम्sarva-bhūta-ruta-jñānam

अन्वय

शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् सङ्करः [भवति] । तत्-प्रविभागसंयमात् सर्वभूतरुतज्ञानम् [भवति] ।

Sutra 3.18

संस्कारसाक्षात्करणात्पूर्वजातिज्ञानं ।। ३.१८ ।।

पदच्छेद

संस्कार-साक्षात्करणात्saṃskāra-sākṣātkaraṇātपूर्व-जाति-ज्ञानम्pūrva-jāti-jñānam

अन्वय

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् [भवति] ।

Sutra 3.19

प्रत्ययस्य परचित्तज्ञानं ।। ३.१९ ।।

पदच्छेद

प्रत्ययस्यpratyayasyaपर-चित्त-ज्ञानम्para-citta-jñānam

अन्वय

प्रत्ययस्य [साक्षात्करणात्] परचित्तज्ञानम् [भवति] ।

Sutra 3.20

न च तत्सालम्बनं, तस्याविषयीभूतत्वात् ।। ३.२० ।।

पदच्छेद

नnaचcaतत्tatस-आलम्बनम्sa-ālambanamतस्यtasyaअविषयी-भूतत्वात्aviṣayī-bhūtatvāt

अन्वय

तत् [परचित्तज्ञानम्] सालम्बनम् न च [भवति], तस्य [आलम्बनस्य] अविषयीभूतत्वात् ।

Sutra 3.21

कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भेचक्षुःप्रकाशासंप्रयोगेऽन्तर्धानं ।। ३.२१ ।।

पदच्छेद

काय-रूप-संयमात्kāya-rūpa-saṃyamātतत्-ग्राह्य-शक्ति-स्तम्भेtat-grāhya-śakti-stambheचक्षुः-प्रकाश-असंप्रयोगेcakṣuḥ-prakāśa-asaṃprayogeअन्तर्धानम्antardhānam

अन्वय

कायरूपसंयमात् तत्-ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगे अन्तर्धानम् [भवति] ।

Sutra 3.22

सोपक्रमं निरुपक्रमं च कर्म. तत्संयमादपरान्तज्ञानम्,अरिष्टेभ्यो वा ।। ३.२२ ।।

पदच्छेद

सोपक्रमम्sopakramamनिरुपक्रमम्nirupakramamचcaकर्मkarmaतत्-संयमात्tat-saṃyamātअपरान्त-ज्ञानम्aparānta-jñānamअरिष्टेभ्यःariṣṭebhyaḥवाvā

अन्वय

कर्म सोपक्रमम् निरुपक्रमम् च [अस्ति] । तत्-संयमात् अपरान्तज्ञानम् [भवति], अरिष्टेभ्यः वा [भवति] ।

Sutra 3.23

मैत्र्यादिषु बलानि ।। ३.२३ ।।

पदच्छेद

मैत्री-आदिषुmaitrī-ādiṣuबलानिbalāni

अन्वय

मैत्र्यादिषु [संयमात्] बलानि [भवन्ति] ।

Sutra 3.24

बलेषु हस्तिबलादीनि ।। ३.२४ ।।

पदच्छेद

बलेषुbaleṣuहस्ति-बल-आदीनिhasti-bala-ādīni

अन्वय

बलेषु [संयमात्] हस्तिबलादीनि [भवन्ति] ।

Sutra 3.25

प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानं ।। ३.२५ ।।

पदच्छेद

प्रवृत्ति-आलोक-न्यासात्pravṛtti-āloka-nyāsātसूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम्sūkṣma-vyavahita-viprakṛṣṭa-jñānam

अन्वय

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् [भवति] ।

Sutra 3.26

भुवनज्ञानं सूर्ये संयमात् ।। ३.२६ ।।

पदच्छेद

भुवन-ज्ञानम्bhuvana-jñānamसूर्येsūryeसंयमात्saṃyamāt

अन्वय

सूर्ये संयमात् भुवनज्ञानम् [भवति] ।

Sutra 3.27

चन्द्रे ताराव्यूहज्ञानं ।। ३.२७ ।।

पदच्छेद

चन्द्रेcandreतारा-व्यूह-ज्ञानम्tārā-vyūha-jñānam

अन्वय

चन्द्रे [संयमात्] ताराव्यूहज्ञानम् [भवति] ।

Sutra 3.28

ध्रुवे तद्गतिज्ञानं ।। ३.२८ ।।

पदच्छेद

ध्रुवेdhruveतत्-गति-ज्ञानम्tat-gati-jñānam

अन्वय

ध्रुवे [संयमात्] तत्-गतिज्ञानम् [भवति] ।

Sutra 3.29

नाभिचक्रे कायव्यूहज्ञानं ।। ३.२९ ।।

पदच्छेद

नाभि-चक्रेnābhi-cakreकाय-व्यूह-ज्ञानम्kāya-vyūha-jñānam

अन्वय

नाभिचक्रे [संयमात्] कायव्यूहज्ञानम् [भवति] ।

Sutra 3.30

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।। ३.३० ।।

पदच्छेद

कण्ठ-कूपेkaṇṭha-kūpeक्षुत्-पिपासा-निवृत्तिःkṣut-pipāsā-nivṛttiḥ

अन्वय

कण्ठकूपे [संयमात्] क्षुत्पिपासानिवृत्तिः [भवति] ।

Sutra 3.31

कूर्मनाड्यां स्थैर्यं ।। ३.३१ ।।

पदच्छेद

कूर्म-नाड्याम्kūrma-nāḍyāmस्थैर्यम्sthairyam

अन्वय

कूर्मनाड्याम् [संयमात्] स्थैर्यम् [भवति] ।

Sutra 3.32

मूर्धज्योतिषि सिद्धदर्शनं ।। ३.३२ ।।

पदच्छेद

मूर्ध-ज्योतिषिmūrdha-jyotiṣiसिद्ध-दर्शनम्siddha-darśanam

अन्वय

मूर्धज्योतिषि [संयमात्] सिद्धदर्शनम् [भवति] ।

Sutra 3.33

प्रातिभाद्वा सर्वं ।। ३.३३ ।।

पदच्छेद

प्रातिभात्prātibhātवाvāसर्वम्sarvam

अन्वय

वा प्रातिभात् सर्वम् [ज्ञानम् भवति] ।

Sutra 3.34

हृदये चित्तसंवित् ।। ३.३४ ।।

पदच्छेद

हृदयेhṛdayeचित्त-संवित्citta-saṃvit

अन्वय

हृदये [संयमात्] चित्तसंवित् [भवति] ।

Sutra 3.35

सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगःपरार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानं ।। ३.३५ ।।

पदच्छेद

सत्त्व-पुरुषयोःsattva-puruṣayoḥअत्यन्त-असंकीर्णयोःatyanta-asaṃkīrṇayoḥप्रत्यय-अविशेषःpratyaya-aviśeṣaḥभोगःbhogaḥपरार्थत्वात्parārthatvātस्वार्थ-संयमात्svārtha-saṃyamātपुरुष-ज्ञानम्puruṣa-jñānam

अन्वय

अत्यन्तासङ्कीर्णयोः सत्त्वपुरुषयोः प्रत्ययाविशेषः भोगः [अस्ति] । [सत्त्वस्य] परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् [भवति] ।

Sutra 3.36

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ।। ३.३६ ।।

पदच्छेद

ततःtataḥप्रातिभ-श्रावण-वेदन-आदर्श-आस्वाद-वार्ताःprātibha-śrāvaṇa-vedana-ādarśa-āsvāda-vārtāḥजायन्तेjāyante

अन्वय

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ताः जायन्ते ।

Sutra 3.37

ते समाधावुपसर्गा. व्युत्थाने सिद्धयः ।। ३.३७ ।।

पदच्छेद

तेteसमाधौsamādhauउपसर्गाःupasargāḥव्युत्थानेvyutthāneसिद्धयःsiddhayaḥ

अन्वय

ते समाधौ उपसर्गाः [सन्ति]; व्युत्थाने सिद्धयः [सन्ति] ।

Sutra 3.38

बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्यपरशरीरावेशः ।। ३.३८ ।।

पदच्छेद

बन्ध-कारण-शैथिल्यात्bandha-kāraṇa-śaithilyātप्रचार-संवेदनात्pracāra-saṃvedanātचcaचित्तस्यcittasyaपर-शरीर-आवेशःpara-śarīra-āveśaḥ

अन्वय

बन्धकारणशैथिल्यात् प्रचारसंवेदनात् च चित्तस्य परशरीरावेशः [भवति] ।

Sutra 3.39

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ।। ३.३९ ।।

पदच्छेद

उदान-जयात्udāna-jayātजल-पङ्क-कण्टक-आदिषुjala-paṅka-kaṇṭaka-ādiṣuअसङ्गःasaṅgaḥउत्क्रान्तिःutkrāntiḥचca

अन्वय

उदानजयात् जलपङ्ककण्टकादिषु असङ्गः उत्क्रान्तिः च [भवति] ।

Sutra 3.40

समानजयाज्ज्वलनं ।। ३.४० ।।

पदच्छेद

समान-जयात्samāna-jayātज्वलनम्jvalanam

अन्वय

समानजयात् ज्वलनम् [भवति] ।

Sutra 3.41

श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रं ।। ३.४१ ।।

पदच्छेद

श्रोत्र-आकाशयोःśrotra-ākāśayoḥसंबन्ध-संयमात्saṃbandha-saṃyamātदिव्यम्divyamश्रोत्रम्śrotram

अन्वय

श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यम् श्रोत्रम् [भवति] ।

Sutra 3.42

कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनं ।। ३.४२ ।।

पदच्छेद

काय-आकाशयोःkāya-ākāśayoḥसंबन्ध-संयमात्saṃbandha-saṃyamātलघु-तूल-समापत्तेःlaghu-tūla-samāpatteḥचcaआकाश-गमनम्ākāśa-gamanam

अन्वय

कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेः च आकाशगमनम् [भवति] ।

Sutra 3.43

बहिरकल्पिता वृत्तिर्महाविदेहा. ततः प्रकाशावरणक्षयः ।। ३.४३ ।।

पदच्छेद

बहिःbahiḥअकल्पिताakalpitāवृत्तिःvṛttiḥमहा-विदेहाmahā-videhāततःtataḥप्रकाश-आवरण-क्षयःprakāśa-āvaraṇa-kṣayaḥ

अन्वय

बहिः अकल्पिता वृत्तिः महाविदेहा [अस्ति] । ततः प्रकाशावरणक्षयः [भवति] ।

Sutra 3.44

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ।। ३.४४ ।।

पदच्छेद

स्थूल-स्वरूप-सूक्ष्म-अन्वय-अर्थवत्त्व-संयमात्sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṃyamātभूत-जयःbhūta-jayaḥ

अन्वय

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः [भवति] ।

Sutra 3.45

ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ।। ३.४५ ।।

पदच्छेद

ततःtataḥअणिमा-आदि-प्रादुर्भावःaṇimā-ādi-prādurbhāvaḥकाय-संपत्kāya-saṃpatतत्-धर्म-अनभिघातःtat-dharma-anabhighātaḥचca

अन्वय

ततः अणिमादिप्रादुर्भावः [भवति], कायसम्पत् [भवति], तत्-धर्मानभिघातः च [भवति] ।

Sutra 3.46

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ।। ३.४६ ।।

पदच्छेद

रूप-लावण्य-बल-वज्र-संहननत्वानिrūpa-lāvaṇya-bala-vajra-saṃhananatvāniकाय-संपत्kāya-saṃpat

अन्वय

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् [सन्ति] ।

Sutra 3.47

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ।। ३.४७ ।।

पदच्छेद

ग्रहण-स्वरूप-अस्मिता-अन्वय-अर्थवत्त्व-संयमात्grahaṇa-svarūpa-asmitā-anvaya-arthavattva-saṃyamātइन्द्रिय-जयःindriya-jayaḥ

अन्वय

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमात् इन्द्रियजयः [भवति] ।

Sutra 3.48

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ।। ३.४८ ।।

पदच्छेद

ततःtataḥमनोजवित्वम्manojavitvamविकरण-भावःvikaraṇa-bhāvaḥप्रधान-जयःpradhāna-jayaḥचca

अन्वय

ततः मनोजवित्वम् [भवति], विकरणभावः [भवति], प्रधानजयः च [भवति] ।

Sutra 3.49

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वंसर्वज्ञातृत्वं च ।। ३.४९ ।।

पदच्छेद

सत्त्व-पुरुष-अन्यता-ख्याति-मात्रस्यsattva-puruṣa-anyatā-khyāti-mātrasyaसर्व-भाव-अधिष्ठातृत्वम्sarva-bhāva-adhiṣṭhātṛtvamसर्व-ज्ञातृत्वम्sarva-jñātṛtvamचca

अन्वय

सत्त्वपुरुषान्यताख्यातिमात्रस्य [योगिनः] सर्वभावाधिष्ठातृत्वम् सर्वज्ञातृत्वम् च [भवति] ।

Sutra 3.50

तद्वैराग्यादपि दोषबीजक्षये कैवल्यं ।। ३.५० ।।

पदच्छेद

तत्-वैराग्यात्tat-vairāgyātअपिapiदोष-बीज-क्षयेdoṣa-bīja-kṣayeकैवल्यम्kaivalyam

अन्वय

तत्-वैराग्यात् अपि दोषबीजक्षये कैवल्यम् [भवति] ।

Sutra 3.51

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ।। ३.५१ ।।

पदच्छेद

स्थान्युपनिमन्त्रणेsthānyupanimantraṇeसङ्ग-स्मय-अकरणम्saṅga-smaya-akaraṇamपुनःpunaḥअनिष्ट-प्रसङ्गात्aniṣṭa-prasaṅgāt

अन्वय

स्थान्युपनिमन्त्रणे पुनः अनिष्टप्रसङ्गात् सङ्गस्मय-अकरणम् [कर्तव्यम्] ।

Sutra 3.52

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानं ।। ३.५२ ।।

पदच्छेद

क्षण-तत्-क्रमयोःkṣaṇa-tat-kramayoḥसंयमात्saṃyamātविवेक-जम्viveka-jamज्ञानम्jñānam

अन्वय

क्षणतत्क्रमयोः संयमात् विवेकजम् ज्ञानम् [भवति] ।

Sutra 3.53

जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ।। ३.५३ ।।

पदच्छेद

जाति-लक्षण-देशैःjāti-lakṣaṇa-deśaiḥअन्यता-अनवच्छेदात्anyatā-anavacchedātतुल्ययोःtulyayoḥततःtataḥप्रतिपत्तिःpratipattiḥ

अन्वय

जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोः [वस्तुनोः] ततः प्रतिपत्तिः [भवति] ।

Sutra 3.54

तारकं सर्वविषयं सर्वथाविषयं अक्रमं चेति विवेकजंज्ञानं ।। ३.५४ ।।

पदच्छेद

तारकम्tārakamसर्व-विषयम्sarva-viṣayamसर्वथा-विषयम्sarvathā-viṣayamअक्रमम्akramamचcaइतिitiविवेक-जम्viveka-jamज्ञानम्jñānam

अन्वय

विवेकजम् ज्ञानम् तारकम् सर्वविषयम् सर्वथाविषयम् अक्रमम् च [अस्ति] इति ।

Sutra 3.55

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यं इति ।। ३.५५ ।।

पदच्छेद

सत्त्व-पुरुषयोःsattva-puruṣayoḥशुद्धि-साम्येśuddhi-sāmyeकैवल्यम्kaivalyamइतिiti

अन्वय

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् [भवति] इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Padas

Pada 3 · Sutras

Choose a number to read.

Read the whole pada →