Sunday Meditation· Open to Everyone

साधनपादः

संस्कृत

Sutra 2.1

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।। २.१ ।।

पदच्छेद

तपः-स्वाध्याय-ईश्वरप्रणिधानानिtapaḥ-svādhyāya-īśvarapraṇidhānāniक्रियायोगःkriyāyogaḥ

अन्वय

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः [सन्ति] ।

Sutra 2.2

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ।। २.२ ।।

पदच्छेद

समाधि-भावनार्थःsamādhi-bhāvanārthaḥक्लेश-तनूकरणार्थःkleśa-tanūkaraṇārthaḥचca

अन्वय

[सः क्रियायोगः] समाधिभावनार्थः क्लेशतनूकरणार्थः च [अस्ति] ।

Sutra 2.3

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ।। २.३ ।।

पदच्छेद

अविद्या-अस्मिता-राग-द्वेष-अभिनिवेशाःavidyā-asmitā-rāga-dveṣa-abhiniveśāḥक्लेशाःkleśāḥ

अन्वय

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः [सन्ति] ।

Sutra 2.4

अविद्या क्षेत्रं उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणां ।। २.४ ।।

पदच्छेद

अविद्याavidyāक्षेत्रम्kṣetramउत्तरेषाम्uttareṣāmप्रसुप्त-तनु-विच्छिन्न-उदाराणाम्prasupta-tanu-vicchinna-udārāṇām

अन्वय

अविद्या प्रसुप्ततनुविच्छिन्नोदाराणाम् उत्तरेषाम् [क्लेशानाम्] क्षेत्रम् [अस्ति] ।

Sutra 2.5

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।। २.५ ।।

पदच्छेद

अनित्य-अशुचि-दुःख-अनात्मसुanitya-aśuci-duḥkha-anātmasuनित्य-शुचि-सुख-आत्म-ख्यातिःnitya-śuci-sukha-ātma-khyātiḥअविद्याavidyā

अन्वय

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिः अविद्या [अस्ति] ।

Sutra 2.6

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।। २.६ ।।

पदच्छेद

दृक्-दर्शन-शक्त्योःdṛk-darśana-śaktyoḥएकात्मताekātmatāइवivaअस्मिताasmitā

अन्वय

दृग्दर्शनशक्त्योः एकात्मता इव अस्मिता [अस्ति] ।

Sutra 2.7

सुखानुशयी रागः ।। २.७ ।।

पदच्छेद

सुखानुशयीsukhānuśayīरागःrāgaḥ

अन्वय

सुखानुशयी रागः [अस्ति] ।

Sutra 2.8

दुःखानुशयी द्वेषः ।। २.८ ।।

पदच्छेद

दुःखानुशयीduḥkhānuśayīद्वेषःdveṣaḥ

अन्वय

दुःखानुशयी द्वेषः [अस्ति] ।

Sutra 2.9

स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ।। २.९ ।।

पदच्छेद

स्वरसवाहीsvarasavāhīविदुषःviduṣaḥअपिapiतथाtathāआरूढःārūḍhaḥअभिनिवेशःabhiniveśaḥ

अन्वय

स्वरसवाही विदुषः अपि तथा आरूढः अभिनिवेशः [अस्ति] ।

Sutra 2.10

ते प्रतिप्रसवहेयाः सूक्ष्माः ।। २.१० ।।

पदच्छेद

तेteप्रतिप्रसवहेयाःpratiprasavaheyāḥसूक्ष्माःsūkṣmāḥ

अन्वय

ते सूक्ष्माः [क्लेशाः] प्रतिप्रसवहेयाः [सन्ति] ।

Sutra 2.11

ध्यानहेयास्तद्वृत्तयः ।। २.११ ।।

पदच्छेद

ध्यानहेयाःdhyānaheyāḥतत्-वृत्तयःtat-vṛttayaḥ

अन्वय

तत्-वृत्तयः ध्यानहेयाः [सन्ति] ।

Sutra 2.12

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ।। २.१२ ।।

पदच्छेद

क्लेशमूलःkleśamūlaḥकर्माशयःkarmāśayaḥदृष्ट-अदृष्ट-जन्म-वेदनीयःdṛṣṭa-adṛṣṭa-janma-vedanīyaḥ

अन्वय

कर्माशयः क्लेशमूलः दृष्टादृष्टजन्मवेदनीयः [अस्ति] ।

Sutra 2.13

सति मूले तद्विपाको जात्यायुर्भोगाः ।। २.१३ ।।

पदच्छेद

सतिsatiमूलेmūleतत्-विपाकःtat-vipākaḥजाति-आयुः-भोगाःjāti-āyuḥ-bhogāḥ

अन्वय

मूले सति तत्-विपाकः जात्यायुर्भोगाः [सन्ति] ।

Sutra 2.14

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ।। २.१४ ।।

पदच्छेद

तेteह्लाद-परिताप-फलाःhlāda-paritāpa-phalāḥपुण्य-अपुण्य-हेतुत्वात्puṇya-apuṇya-hetutvāt

अन्वय

ते पुण्यापुण्यहेतुत्वात् ह्लादपरितापफलाः [भवन्ति] ।

Sutra 2.15

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ।। २.१५ ।।

पदच्छेद

परिणाम-ताप-संस्कार-दुःखैःpariṇāma-tāpa-saṃskāra-duḥkhaiḥगुण-वृत्ति-विरोधात्guṇa-vṛtti-virodhātचcaदुःखम्duḥkhamएवevaसर्वम्sarvamविवेकिनःvivekinaḥ

अन्वय

विवेकिनः परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधात् च सर्वम् दुःखम् एव [अस्ति] ।

Sutra 2.16

हेयं दुःखं अनागतं ।। २.१६ ।।

पदच्छेद

हेयम्heyamदुःखम्duḥkhamअनागतम्anāgatam

अन्वय

अनागतम् दुःखम् हेयम् [अस्ति] ।

Sutra 2.17

द्रष्टृदृश्ययोः संयोगो हेयहेतुः ।। २.१७ ।।

पदच्छेद

द्रष्टृ-दृश्ययोःdraṣṭṛ-dṛśyayoḥसंयोगःsaṃyogaḥहेयहेतुःheyahetuḥ

अन्वय

द्रष्टृदृश्ययोः संयोगः हेयहेतुः [अस्ति] ।

Sutra 2.18

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थंदृश्यं ।। २.१८ ।।

पदच्छेद

प्रकाश-क्रिया-स्थिति-शीलम्prakāśa-kriyā-sthiti-śīlamभूत-इन्द्रिय-आत्मकम्bhūta-indriya-ātmakamभोग-अपवर्ग-अर्थम्bhoga-apavarga-arthamदृश्यम्dṛśyam

अन्वय

दृश्यम् प्रकाशक्रियास्थितिशीलम् भूतेन्द्रियात्मकम् भोगापवर्गार्थम् [अस्ति] ।

Sutra 2.19

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ।। २.१९ ।।

पदच्छेद

विशेष-अविशेष-लिङ्गमात्र-अलिङ्गानिviśeṣa-aviśeṣa-liṅgamātra-aliṅgāniगुणपर्वाणिguṇaparvāṇi

अन्वय

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि [सन्ति] ।

Sutra 2.20

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।। २.२० ।।

पदच्छेद

द्रष्टाdraṣṭāदृशिमात्रःdṛśimātraḥशुद्धःśuddhaḥअपिapiप्रत्ययानुपश्यःpratyayānupaśyaḥ

अन्वय

द्रष्टा दृशिमात्रः [अस्ति]; शुद्धः अपि प्रत्ययानुपश्यः [अस्ति] ।

Sutra 2.21

तदर्थ एव दृश्यस्यात्मा ।। २.२१ ।।

पदच्छेद

तदर्थःtadarthaḥएवevaदृश्यस्यdṛśyasyaआत्माātmā

अन्वय

दृश्यस्य आत्मा तत्-अर्थः एव [अस्ति] ।

Sutra 2.22

कृतार्थं प्रति नष्टं अप्यनष्टं तद्, अन्यसाधारणत्वात् ।। २.२२ ।।

पदच्छेद

कृतार्थम्kṛtārthamप्रतिpratiनष्टम्naṣṭamअपिapiअनष्टम्anaṣṭamतत्tatअन्य-साधारणत्वात्anya-sādhāraṇatvāt

अन्वय

कृतार्थम् [पुरुषम्] प्रति नष्टम् अपि तत् [दृश्यम्] अन्यसाधारणत्वात् अनष्टम् [अस्ति] ।

Sutra 2.23

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ।। २.२३ ।।

पदच्छेद

स्व-स्वामि-शक्त्योःsva-svāmi-śaktyoḥस्वरूप-उपलब्धि-हेतुःsvarūpa-upalabdhi-hetuḥसंयोगःsaṃyogaḥ

अन्वय

संयोगः स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः [अस्ति] ।

Sutra 2.24

तस्य हेतुरविद्या ।। २.२४ ।।

पदच्छेद

तस्यtasyaहेतुःhetuḥअविद्याavidyā

अन्वय

तस्य [संयोगस्य] हेतुः अविद्या [अस्ति] ।

Sutra 2.25

तदभावात्संयोगाभावो हानं. तद्दृशेः कैवल्यं ।। २.२५ ।।

पदच्छेद

तत्-अभावात्tat-abhāvātसंयोग-अभावःsaṃyoga-abhāvaḥहानम्hānamतत्tatदृशेःdṛśeḥकैवल्यम्kaivalyam

अन्वय

तत्-अभावात् संयोगाभावः हानम् [अस्ति]; तत् दृशेः कैवल्यम् [अस्ति] ।

Sutra 2.26

विवेकख्यातिरविप्लवा हानोपायः ।। २.२६ ।।

पदच्छेद

विवेकख्यातिःvivekakhyātiḥअविप्लवाaviplavāहानोपायःhānopāyaḥ

अन्वय

अविप्लवा विवेकख्यातिः हानोपायः [अस्ति] ।

Sutra 2.27

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।। २.२७ ।।

पदच्छेद

तस्यtasyaसप्तधाsaptadhāप्रान्तभूमिःprāntabhūmiḥप्रज्ञाprajñā

अन्वय

तस्य [विवेकख्यातिमतः] प्रान्तभूमिः प्रज्ञा सप्तधा [भवति] ।

Sutra 2.28

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिर्, आविवेकख्यातेः ।। २.२८ ।।

पदच्छेद

योग-अङ्ग-अनुष्ठानात्yoga-aṅga-anuṣṭhānātअशुद्धिक्षयेaśuddhikṣayeज्ञानदीप्तिःjñānadīptiḥआāविवेकख्यातेःvivekakhyāteḥ

अन्वय

योगाङ्गानुष्ठानात् अशुद्धिक्षये आ विवेकख्यातेः ज्ञानदीप्तिः [भवति] ।

Sutra 2.29

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ।। २.२९ ।।

पदच्छेद

यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयःyama-niyama-āsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayaḥअष्टौaṣṭauअङ्गानिaṅgāni

अन्वय

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः अष्टौ अङ्गानि [सन्ति] ।

Sutra 2.30

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।। २.३० ।।

पदच्छेद

अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाःahiṃsā-satya-asteya-brahmacarya-aparigrahāḥयमाःyamāḥ

अन्वय

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः [सन्ति] ।

Sutra 2.31

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतं ।। २.३१ ।।

पदच्छेद

जाति-देश-काल-समय-अनवच्छिन्नाःjāti-deśa-kāla-samaya-anavacchinnāḥसार्वभौमाःsārvabhaumāḥमहाव्रतम्mahāvratam

अन्वय

[ते यमाः] जातिदेशकालसमयानवच्छिन्नाः सार्वभौमाः महाव्रतम् [सन्ति] ।

Sutra 2.32

शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।। २.३२ ।।

पदच्छेद

शौच-संतोष-तपः-स्वाध्याय-ईश्वरप्रणिधानानिśauca-saṃtoṣa-tapaḥ-svādhyāya-īśvarapraṇidhānāniनियमाःniyamāḥ

अन्वय

शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः [सन्ति] ।

Sutra 2.33

वितर्कबाधने प्रतिपक्षभावनं ।। २.३३ ।।

पदच्छेद

वितर्कबाधनेvitarkabādhaneप्रतिपक्षभावनम्pratipakṣabhāvanam

अन्वय

वितर्कबाधने प्रतिपक्षभावनम् [कर्तव्यम्] ।

Sutra 2.34

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वकामृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इतिप्रतिपक्षभावनं ।। २.३४ ।।

पदच्छेद

वितर्काःvitarkāḥहिंसादयःhiṃsādayaḥकृत-कारित-अनुमोदिताःkṛta-kārita-anumoditāḥलोभ-क्रोध-मोह-पूर्वकाःlobha-krodha-moha-pūrvakāḥमृदु-मध्य-अधिमात्राःmṛdu-madhya-adhimātrāḥदुःखाज्ञानानन्तफलाःduḥkhājñānānantaphalāḥइतिitiप्रतिपक्षभावनम्pratipakṣabhāvanam

अन्वय

हिंसादयः वितर्काः कृतकारितानुमोदिताः लोभक्रोधमोहपूर्वकाः मृदुमध्याधिमात्राः दुःखाज्ञानानन्तफलाः [भवन्ति] इति प्रतिपक्षभावनम् [कर्तव्यम्] ।

Sutra 2.35

अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ।। २.३५ ।।

पदच्छेद

अहिंसा-प्रतिष्ठायाम्ahiṃsā-pratiṣṭhāyāmतत्-संनिधौtat-saṃnidhauवैरत्यागःvairatyāgaḥ

अन्वय

अहिंसाप्रतिष्ठायाम् तत्-सन्निधौ वैरत्यागः [भवति] ।

Sutra 2.36

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वं ।। २.३६ ।।

पदच्छेद

सत्य-प्रतिष्ठायाम्satya-pratiṣṭhāyāmक्रिया-फल-आश्रयत्वम्kriyā-phala-āśrayatvam

अन्वय

सत्यप्रतिष्ठायाम् क्रियाफलाश्रयत्वम् [भवति] ।

Sutra 2.37

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानं ।। २.३७ ।।

पदच्छेद

अस्तेय-प्रतिष्ठायाम्asteya-pratiṣṭhāyāmसर्व-रत्न-उपस्थानम्sarva-ratna-upasthānam

अन्वय

अस्तेयप्रतिष्ठायाम् सर्वरत्नोपस्थानम् [भवति] ।

Sutra 2.38

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ।। २.३८ ।।

पदच्छेद

ब्रह्मचर्य-प्रतिष्ठायाम्brahmacarya-pratiṣṭhāyāmवीर्यलाभःvīryalābhaḥ

अन्वय

ब्रह्मचर्यप्रतिष्ठायाम् वीर्यलाभः [भवति] ।

Sutra 2.39

अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ।। २.३९ ।।

पदच्छेद

अपरिग्रहस्थैर्येaparigrahasthairyeजन्म-कथंता-संबोधःjanma-kathaṃtā-saṃbodhaḥ

अन्वय

अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः [भवति] ।

Sutra 2.40

शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ।। २.४० ।।

पदच्छेद

शौचात्śaucātस्व-अङ्ग-जुगुप्साsva-aṅga-jugupsāपरैःparaiḥअसंसर्गःasaṃsargaḥ

अन्वय

शौचात् स्वाङ्गजुगुप्सा परैः असंसर्गः [च भवति] ।

Sutra 2.41

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ।। २.४१ ।।

पदच्छेद

सत्त्व-शुद्धि-सौमनस्य-एकाग्र्य-इन्द्रिय-जय-आत्म-दर्शन-योग्यत्वानिsattva-śuddhi-saumanasya-ekāgrya-indriya-jaya-ātma-darśana-yogyatvāniचca

अन्वय

[शौचात्] सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च [भवन्ति] ।

Sutra 2.42

संतोषादनुत्तमः सुखलाभः ।। २.४२ ।।

पदच्छेद

संतोषात्saṃtoṣātअनुत्तमःanuttamaḥसुखलाभःsukhalābhaḥ

अन्वय

सन्तोषात् अनुत्तमः सुखलाभः [भवति] ।

Sutra 2.43

कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ।। २.४३ ।।

पदच्छेद

काय-इन्द्रिय-सिद्धिःkāya-indriya-siddhiḥअशुद्धिक्षयात्aśuddhikṣayātतपसःtapasaḥ

अन्वय

तपसः अशुद्धिक्षयात् कायेन्द्रियसिद्धिः [भवति] ।

Sutra 2.44

स्वाध्यायादिष्टदेवतासंप्रयोगः ।। २.४४ ।।

पदच्छेद

स्वाध्यायात्svādhyāyātइष्ट-देवता-संप्रयोगःiṣṭa-devatā-saṃprayogaḥ

अन्वय

स्वाध्यायात् इष्टदेवतासम्प्रयोगः [भवति] ।

Sutra 2.45

समाधिसिद्धिरीश्वरप्रणिधानात् ।। २.४५ ।।

पदच्छेद

समाधिसिद्धिःsamādhisiddhiḥईश्वरप्रणिधानात्īśvarapraṇidhānāt

अन्वय

ईश्वरप्रणिधानात् समाधिसिद्धिः [भवति] ।

Sutra 2.46

स्थिरसुखं आसनं ।। २.४६ ।।

पदच्छेद

स्थिर-सुखम्sthira-sukhamआसनम्āsanam

अन्वय

आसनम् स्थिरसुखम् [भवति] ।

Sutra 2.47

प्रयत्नशैथिल्यानन्तसमापत्तिभ्यां ।। २.४७ ।।

पदच्छेद

प्रयत्न-शैथिल्य-अनन्त-समापत्तिभ्याम्prayatna-śaithilya-ananta-samāpattibhyām

अन्वय

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् [आसनम् स्थिरसुखम् भवति] ।

Sutra 2.48

ततो द्वन्द्वानभिघातः ।। २.४८ ।।

पदच्छेद

ततःtataḥद्वन्द्व-अनभिघातःdvandva-anabhighātaḥ

अन्वय

ततः द्वन्द्वानभिघातः [भवति] ।

Sutra 2.49

तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ।। २.४९ ।।

पदच्छेद

तस्मिन्tasminसतिsatiश्वास-प्रश्वासयोःśvāsa-praśvāsayoḥगति-विच्छेदःgati-vicchedaḥप्राणायामःprāṇāyāmaḥ

अन्वय

तस्मिन् [आसने] सति श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामः [अस्ति] ।

Sutra 2.50

बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिःपरिदृष्टो दीर्घसूक्ष्मः ।। २.५० ।।

पदच्छेद

बाह्य-आभ्यन्तर-स्तम्भ-वृत्तिःbāhya-ābhyantara-stambha-vṛttiḥदेश-काल-संख्याभिःdeśa-kāla-saṃkhyābhiḥपरिदृष्टःparidṛṣṭaḥदीर्घ-सूक्ष्मःdīrgha-sūkṣmaḥ

अन्वय

[सः प्राणायामः] बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृष्टः दीर्घसूक्ष्मः [अस्ति] ।

Sutra 2.51

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ।। २.५१ ।।

पदच्छेद

बाह्य-आभ्यन्तर-विषय-आक्षेपीbāhya-ābhyantara-viṣaya-ākṣepīचतुर्थःcaturthaḥ

अन्वय

चतुर्थः [प्राणायामः] बाह्याभ्यन्तरविषयाक्षेपी [अस्ति] ।

Sutra 2.52

ततः क्षीयते प्रकाशावरणं ।। २.५२ ।।

पदच्छेद

ततःtataḥक्षीयतेkṣīyateप्रकाशावरणम्prakāśāvaraṇam

अन्वय

ततः प्रकाशावरणम् क्षीयते ।

Sutra 2.53

धारणासु च योग्यता मनसः ।। २.५३ ।।

पदच्छेद

धारणासुdhāraṇāsuचcaयोग्यताyogyatāमनसःmanasaḥ

अन्वय

[ततः] मनसः धारणासु योग्यता च [भवति] ।

Sutra 2.54

स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणांप्रत्याहारः ।। २.५४ ।।

पदच्छेद

स्व-विषय-असंप्रयोगेsva-viṣaya-asaṃprayogeचित्तस्यcittasyaस्वरूप-अनुकारःsvarūpa-anukāraḥइवivaइन्द्रियाणाम्indriyāṇāmप्रत्याहारःpratyāhāraḥ

अन्वय

स्वविषयासम्प्रयोगे इन्द्रियाणाम् चित्तस्य स्वरूपानुकारः इव प्रत्याहारः [अस्ति] ।

Sutra 2.55

ततः परमा वश्यतेन्द्रियाणां ।। २.५५ ।।

पदच्छेद

ततःtataḥपरमाparamāवश्यताvaśyatāइन्द्रियाणाम्indriyāṇām

अन्वय

ततः इन्द्रियाणाम् परमा वश्यता [भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Padas

Pada 2 · Sutras

Choose a number to read.

Read the whole pada →