Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण २

संस्कृत

Passage 44.16

अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति । धूमाद्रात्रिम् । रात्रेरपक्षीयमाणपक्षम् । अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति । मासेभ्यः पितृलोकम् । पितृलोकाच्चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति । तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति । तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते । आकाशाद्वायुम् । वायोर्वृष्टिम् । वृष्टेः पृथिवीम् । ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते । लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ १६ ॥

पदच्छेद

अथathaयेyeयज्ञेनyajñenaदानेनdānenaतपसाtapasāलोकान्lokānजयन्तिjayantiतेteधूमम्dhūmamअभिसंभवन्तिabhisaṃbhavantiधूमात्dhūmātरात्रिम्rātrimरात्रेःrātreḥअपक्षीयमाणपक्षम्apakṣīyamāṇapakṣamअपक्षीयमाणपक्षात्apakṣīyamāṇapakṣātयान्yānषण्मासान्ṣaṇmāsānदक्षिणाdakṣiṇāआदित्यःādityaḥएतिetiमासेभ्यःmāsebhyaḥपितृलोकम्pitṛlokamपितृलोकात्pitṛlokātचन्द्रम्candramतेteचन्द्रम्candramप्राप्यprāpyaअन्नम्annamभवन्तिbhavantiतान्tānतत्रtatraदेवाःdevāḥयथाyathāसोमम्somamराजानम्rājānamआप्यायस्वāpyāyasvaअपक्षीयस्वapakṣīyasvaइतिitiएवम्evamएनान्enānतत्रtatraभक्षयन्तिbhakṣayantiतेषाम्teṣāmयदाyadāतत्tatपर्यवैतिparyavaitiअथathaइमम्imamएवevaआकाशम्ākāśamअभिनिष्पद्यन्तेabhiniṣpadyanteआकाशात्ākāśātवायुम्vāyumवायोःvāyoḥवृष्टिम्vṛṣṭimवृष्टेःvṛṣṭeḥपृथिवीम्pṛthivīmतेteपृथिवीम्pṛthivīmप्राप्यprāpyaअन्नम्annamभवन्तिbhavantiतेteपुनःpunaḥपुरुषाग्नौpuruṣāgnauहूयन्तेhūyanteततःtataḥयोषाग्नौyoṣāgnauजायन्तेjāyanteलोकान्lokānप्रत्युथायिनःpratyuthāyinaḥतेteएवम्evamएवevaअनुपरिवर्तन्तेanuparivartanteअथathaयेyeएतौetauपन्थानौpanthānauनnaविदुःviduḥतेteकीटाःkīṭāḥपतङ्गाःpataṅgāḥयत्yatइदम्idamदन्दशूकम्dandaśūkam

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण २

Read the whole section →