Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण २

संस्कृत

Passage 44.13

योषा वा अग्निर्गौतम । तस्या उपस्थ एव समित् । लोमानि धूमः । योनिरर्चिः । यदन्तः करोति तेऽङ्गाराः । अभिनन्दा विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुत्यै पुरुषः संभवति । स जीवति यावज्जीवति । अथ यदा म्रियते ॥ १३ ॥

पदच्छेद

योषाyoṣāवैvaiअग्निःagniḥगौतमgautamaतस्याःtasyāḥउपस्थःupasthaḥएवevaसमित्samitलोमानिlomāniधूमःdhūmaḥयोनिःyoniḥअर्चिःarciḥयत्yatअन्तःantaḥकरोतिkarotiतेteअङ्गाराःaṅgārāḥअभिनन्दाःabhinandāḥविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥरेतःretaḥजुह्वतिjuhvatiतस्याःtasyāḥआहुत्यैāhutyaiपुरुषःpuruṣaḥसंभवतिsaṃbhavatiसःsaḥजीवतिjīvatiयावत्yāvatजीवतिjīvatiअथathaयदाyadāम्रियतेmriyate

अन्वय

गौतम, योषा वा अग्निः [अस्ति] । तस्याः उपस्थः एव समित् [अस्ति]; लोमानि धूमः [सन्ति]; योनिः अर्चिः [अस्ति]; यत् अन्तः करोति, ते अङ्गाराः [सन्ति]; अभिनन्दाः विष्फुलिङ्गाः [सन्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः रेतः जुह्वति; तस्याः आहुत्यै पुरुषः सम्भवति । सः यावत् जीवति [तावत्] जीवति; अथ यदा म्रियते [तदा उत्तरत्र उक्तम् भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण २

Read the whole section →