Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण २

संस्कृत

Passage 44.14

अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति । समित्समित् । धूमो धूमः । अर्चिरर्चिः । अङ्गारा अङ्गाराः । विष्फुलिङ्गा विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति । तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ १४ ॥

पदच्छेद

अथathaएनम्enamअग्नयेagnayeहरन्तिharantiतस्यtasyaअग्निःagniḥएवevaअग्निःagniḥभवतिbhavatiसमित्samitसमित्samitधूमःdhūmaḥधूमःdhūmaḥअर्चिःarciḥअर्चिःarciḥअङ्गाराःaṅgārāḥअङ्गाराःaṅgārāḥविष्फुलिङ्गाःviṣphuliṅgāḥविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥपुरुषम्puruṣamजुह्वतिjuhvatiतस्याःtasyāḥआहुत्यैāhutyaiपुरुषःpuruṣaḥभास्वरवर्णःbhāsvaravarṇaḥसंभवतिsaṃbhavati

अन्वय

अथ एनम् [मृतम्] अग्नये हरन्ति । तस्य अग्निः एव अग्निः भवति; समित् समित् [भवति]; धूमः धूमः [भवति]; अर्चिः अर्चिः [भवति]; अङ्गाराः अङ्गाराः [भवन्ति]; विष्फुलिङ्गाः विष्फुलिङ्गाः [भवन्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः पुरुषम् जुह्वति; तस्याः आहुत्यै भास्वरवर्णः पुरुषः सम्भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण २

Read the whole section →