Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण २

संस्कृत

Passage 44.11

अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समित् । अग्निर्धूमः । रात्रिरर्चिः । चन्द्रमा अङ्गाराः । नक्षत्राणि विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति । तस्या आहुत्या अन्नं संभवति ॥ ११ ॥

पदच्छेद

अयम्ayamवैvaiलोकःlokaḥअग्निःagniḥगौतमgautamaतस्यtasyaपृथिवीpṛthivīएवevaसमित्samitअग्निःagniḥधूमःdhūmaḥरात्रिःrātriḥअर्चिःarciḥचन्द्रमाःcandramāḥअङ्गाराःaṅgārāḥनक्षत्राणिnakṣatrāṇiविष्फुलिङ्गाःviṣphuliṅgāḥतस्मिन्tasminएतस्मिन्etasminअग्नौagnauदेवाःdevāḥवृष्टिम्vṛṣṭimजुह्वतिjuhvatiतस्याःtasyāḥआहुत्याःāhutyāḥअन्नम्annamसंभवतिsaṃbhavati

अन्वय

गौतम, अयम् लोकः वै अग्निः [अस्ति] । तस्य पृथिवी एव समित् [अस्ति]; अग्निः धूमः [अस्ति]; रात्रिः अर्चिः [अस्ति]; चन्द्रमाः अङ्गाराः [अस्ति]; नक्षत्राणि विष्फुलिङ्गाः [सन्ति] । तस्मिन् एतस्मिन् अग्नौ देवाः वृष्टिम् जुह्वति; तस्याः आहुत्याः अन्नम् सम्भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण २

Read the whole section →