Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ४

संस्कृत

Passage 4.7

तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियतासौ नामायमिदंरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियत असौ नामायमिदंरूप इति । स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये । तं न पश्यन्ति । अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति । वदन् वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनः । तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवति । आत्मेत्येवोपासीत । अत्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा । अनेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥

पदच्छेद

तत्tatहhaइदम्idamतर्हिtarhiअव्याकृतम्avyākṛtamआसीत्āsītतत्tatनामरूपाभ्याम्nāmarūpābhyāmएवevaव्याक्रियतvyākriyataअसौasauनामnāmaअयम्ayamइदंरूपःidaṃrūpaḥइतिitiतत्tatइदम्idamअपिapiएतर्हिetarhiनामरूपाभ्याम्nāmarūpābhyāmएवevaव्याक्रियतेvyākriyateअसौasauनामnāmaअयम्ayamइदंरूपःidaṃrūpaḥइतिitiसःsaḥएषःeṣaḥइहihaप्रविष्टःpraviṣṭaḥआāनखाग्रेभ्यःnakhāgrebhyaḥयथाyathāक्षुरःkṣuraḥक्षुरधानेkṣuradhāneअवहितःavahitaḥस्यात्syātविश्वम्भरःviśvambharaḥवाvāविश्वम्भरकुलायेviśvambharakulāyeतम्tamनnaपश्यन्तिpaśyantiअकृत्स्नःakṛtsnaḥहिhiसःsaḥप्राणन्prāṇanएवevaप्राणःprāṇaḥनामnāmaभवतिbhavatiवदन्vadanवाक्vākपश्यन्paśyanचक्षुःcakṣuḥशृण्वन्śṛṇvanश्रोत्रम्śrotramमन्वानःmanvānaḥमनःmanaḥतानिtāniअस्यasyaएतानिetāniकर्मनामानिkarmanāmāniएवevaसःsaḥयःyaḥअतःataḥएकैकम्ekaikamउपास्तेupāsteनnaसःsaḥवेदvedaअकृत्स्नःakṛtsnaḥहिhiएषःeṣaḥअतःataḥएकैकेनekaikenaभवतिbhavatiआत्माātmāइतिitiएवevaउपासीतupāsītaअत्रatraहिhiएतेeteसर्वेsarveएकम्ekamभवन्तिbhavantiतत्tatएतत्etatपदनीयम्padanīyamअस्यasyaसर्वस्यsarvasyaयत्yatअयम्ayamआत्माātmāअनेनanenaहिhiएतत्etatसर्वम्sarvamवेदvedaयथाyathāहhaवैvaiपदेनpadenaअनुविन्देत्anuvindetएवम्evamकीर्तिम्kīrtimश्लोकम्ślokamविन्दतेvindateयःyaḥएवम्evamवेदveda

अन्वय

तत् ह इदम् तर्हि अव्याकृतम् आसीत् । तत् नामरूपाभ्याम् एव असौ नाम अयम् इदंरूपः इति व्याक्रियत । तत् इदम् अपि एतर्हि नामरूपाभ्याम् एव असौ नाम अयम् इदंरूपः इति व्याक्रियते । सः एषः आ नखाग्रेभ्यः इह प्रविष्टः [अस्ति], यथा क्षुरः क्षुरधाने अवहितः स्यात्, विश्वम्भरः वा विश्वम्भरकुलाये [अवहितः स्यात्] । तम् न पश्यन्ति; हि सः अकृत्स्नः [अस्ति] । प्राणन् एव प्राणः नाम भवति; वदन् वाक् [नाम भवति]; पश्यन् चक्षुः [नाम भवति]; शृण्वन् श्रोत्रम् [नाम भवति]; मन्वानः मनः [नाम भवति] । तानि अस्य एतानि कर्मनामानि एव [सन्ति] । यः अतः एकैकम् उपास्ते, सः न वेद । हि एषः अतः एकैकेन अकृत्स्नः भवति । आत्मा इति एव उपासीत । हि अत्र एते सर्वे एकम् भवन्ति । यत् अयम् आत्मा [अस्ति], तत् एतत् अस्य सर्वस्य पदनीयम् [अस्ति] । हि अनेन एतत् सर्वम् वेद । यथा ह वै पदेन अनुविन्देत्, एवम् यः एवम् वेद, [सः] कीर्तिम् श्लोकम् विन्दते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ४

Read the whole section →