Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ४

संस्कृत

Passage 4.11

ब्रह्म वा इदमग्र आसीदेकमेव । तदेकं सन्न व्यभवत् । तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति । तस्माद्ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये । क्षत्र एव तद्यशो दधाति । सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनं हिनस्ति स्वां स योनिमृच्छति । स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ ११ ॥

पदच्छेद

ब्रह्मbrahmaवैvaiइदम्idamअग्रेagreआसीत्āsītएकम्ekamएवevaतत्tatएकम्ekamसत्satनnaव्यभवत्vyabhavatतत्tatश्रेयःśreyaḥरूपम्rūpamअत्यसृजतatyasṛjataक्षत्रम्kṣatramयानिyāniएतानिetāniदेवत्राdevatrāक्षत्राणिkṣatrāṇiइन्द्रःindraḥवरुणःvaruṇaḥसोमःsomaḥरुद्रःrudraḥपर्जन्यःparjanyaḥयमःyamaḥमृत्युःmṛtyuḥईशानःīśānaḥइतिitiतस्मात्tasmātक्षत्रात्kṣatrātपरम्paramनnaअस्तिastiतस्मात्tasmātब्राह्मणःbrāhmaṇaḥक्षत्रियम्kṣatriyamअधस्तात्adhastātउपास्तेupāsteराजसूयेrājasūyeक्षत्रेkṣatreएवevaतत्tatयशःyaśaḥदधातिdadhātiसाsāएषाeṣāक्षत्रस्यkṣatrasyaयोनिःyoniḥयत्yatब्रह्मbrahmaतस्मात्tasmātयदिyadiअपिapiराजाrājāपरमताम्paramatāmगच्छतिgacchatiब्रह्मbrahmaएवevaअन्ततःantataḥउपनिश्रयतिupaniśrayatiस्वाम्svāmयोनिम्yonimयःyaḥउuएनम्enamहिनस्तिhinastiस्वाम्svāmसःsaḥयोनिम्yonimऋच्छतिṛcchatiसःsaḥपापीयान्pāpīyānभवतिbhavatiयथाyathāश्रेयांसम्śreyāṃsamहिंसित्वाhiṃsitvā

अन्वय

अग्रे इदम् एकम् एव ब्रह्म वै आसीत् । तत् एकम् सत् न व्यभवत् । तत् श्रेयः रूपम् क्षत्रम् अत्यसृजत-यानि एतानि देवत्रा क्षत्राणि [सन्ति], इन्द्रः वरुणः सोमः रुद्रः पर्जन्यः यमः मृत्युः ईशानः इति । तस्मात् क्षत्रात् परम् न अस्ति । तस्मात् राजसूये ब्राह्मणः क्षत्रियम् अधस्तात् उपास्ते; तत् यशः क्षत्रे एव दधाति । यत् ब्रह्म [अस्ति], सा एषा क्षत्रस्य योनिः [अस्ति] । तस्मात् राजा परमताम् गच्छति यदि अपि, अन्ततः स्वाम् योनिम् ब्रह्म एव उपनिश्रयति । यः उ एनम् हिनस्ति, सः स्वाम् योनिम् ऋच्छति । सः पापीयान् भवति, यथा श्रेयांसम् हिंसित्वा [पापीयान् भवेत्] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ४

Read the whole section →