Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ४

संस्कृत

Passage 4.14

स नैव व्यभवत् । तच्छ्रेयो रूपमत्यसृजत धर्मम् । तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः । तस्माद्धर्मात्परं नास्ति । अथो अबलीयान् बलीयांसमाशंसते धर्मेण । यथा राज्ञैवम् । यो वै स धर्मः सत्यं वै तत् । तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति । धर्मं वा वदन्तं सत्यं वदतीति । एतद्ध्येवैतदुभयं भवति ॥ १४ ॥

पदच्छेद

सःsaḥनnaएवevaव्यभवत्vyabhavatतत्tatश्रेयःśreyaḥरूपम्rūpamअत्यसृजतatyasṛjataधर्मम्dharmamतत्tatएतत्etatक्षत्रस्यkṣatrasyaक्षत्रम्kṣatramयत्yatधर्मःdharmaḥतस्मात्tasmātधर्मात्dharmātपरम्paramनnaअस्तिastiअथathaउuअबलीयान्abalīyānबलीयांसम्balīyāṃsamआशंसतेāśaṃsateधर्मेणdharmeṇaयथाyathāराज्ञाrājñāएवम्evamयःyaḥवैvaiसःsaḥधर्मःdharmaḥसत्यम्satyamवैvaiतत्tatतस्मात्tasmātसत्यम्satyamवदन्तम्vadantamआहुःāhuḥधर्मम्dharmamवदतिvadatiइतिitiधर्मम्dharmamवाvāवदन्तम्vadantamसत्यम्satyamवदतिvadatiइतिitiएतत्etatहिhiएवevaएतत्etatउभयम्ubhayamभवतिbhavati

अन्वय

सः न एव व्यभवत् । तत् श्रेयः रूपम् धर्मम् अत्यसृजत । यत् धर्मः [अस्ति], तत् एतत् क्षत्रस्य क्षत्रम् [अस्ति] । तस्मात् धर्मात् परम् न अस्ति । अथ उ अबलीयान् धर्मेण बलीयांसम् आशंसते, यथा राज्ञा एवम् । यः वै सः धर्मः [अस्ति], तत् सत्यम् वै [अस्ति] । तस्मात् सत्यम् वदन्तम् धर्मम् वदति इति आहुः, धर्मम् वा वदन्तम् सत्यम् वदति इति [आहुः] । हि एतत् उभयम् एव एतत् भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ४

Read the whole section →