Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ४

संस्कृत

Passage 4.17

आत्मैवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यादथ प्रजायेय । अथ वित्तं मे स्यादथ कर्म कुर्वीयेति । एतावान् वै कामः । नेच्छंश्चनातो भूयो विन्देत् । तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते । तस्यो कृत्स्नता । मन एवास्यात्मा । वाग्जाया । प्राणः प्रजा । चक्षुर्मानुषं वित्तम् । चक्षुषा हि तद्विन्दते । श्रोत्रं दैवम् । श्रोत्रेण हि तच्छृणोति । आत्मैवास्य कर्म । आत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः । पाङ्क्तः पशुः । पाङ्क्तः पुरुषः । पाङ्क्तमिदं सर्वं यदिदं किञ्च । तदिदं सर्वमाप्नोति य एवं वेद ॥ १७ ॥

पदच्छेद

आत्माātmāएवevaइदम्idamअग्रेagreआसीत्āsītएकःekaḥएवevaसःsaḥअकामयतakāmayataजायाjāyāमेmeस्यात्syātअथathaप्रजायेयprajāyeyaअथathaवित्तम्vittamमेmeस्यात्syātअथathaकर्मkarmaकुर्वीयkurvīyaइतिitiएतावान्etāvānवैvaiकामःkāmaḥनnaइच्छन्icchanचनcanaअतःataḥभूयःbhūyaḥविन्देत्vindetतस्मात्tasmātअपिapiएतर्हिetarhiएकाकीekākīकामयतेkāmayateजायाjāyāमेmeस्यात्syātअथathaप्रजायेयprajāyeyaअथathaवित्तम्vittamमेmeस्यात्syātअथathaकर्मkarmaकुर्वीयkurvīyaइतिitiसःsaḥयावत्yāvatअपिapiएतेषाम्eteṣāmएकैकम्ekaikamनnaप्राप्नोतिprāpnotiअकृत्स्नःakṛtsnaḥएवevaतावत्tāvatमन्यतेmanyateतस्यtasyaउuकृत्स्नताkṛtsnatāमनःmanaḥएवevaअस्यasyaआत्माātmāवाक्vākजायाjāyāप्राणःprāṇaḥप्रजाprajāचक्षुःcakṣuḥमानुषम्mānuṣamवित्तम्vittamचक्षुषाcakṣuṣāहिhiतत्tatविन्दतेvindateश्रोत्रम्śrotramदैवम्daivamश्रोत्रेणśrotreṇaहिhiतत्tatशृणोतिśṛṇotiआत्माātmāएवevaअस्यasyaकर्मkarmaआत्मनाātmanāहिhiकर्मkarmaकरोतिkarotiसःsaḥएषःeṣaḥपाङ्क्तःpāṅktaḥयज्ञःyajñaḥपाङ्क्तःpāṅktaḥपशुःpaśuḥपाङ्क्तःpāṅktaḥपुरुषःpuruṣaḥपाङ्क्तम्pāṅktamइदम्idamसर्वम्sarvamयत्yatइदम्idamकिञ्चkiñcaतत्tatइदम्idamसर्वम्sarvamआप्नोतिāpnotiयःyaḥएवम्evamवेदveda

अन्वय

अग्रे इदम् एकः एव आत्मा एव आसीत् । सः अकामयत-जाया मे स्यात्, अथ प्रजायेय, अथ वित्तम् मे स्यात्, अथ कर्म कुर्वीय इति । कामः एतावान् वै [अस्ति]; इच्छन् चन अतः भूयः न विन्देत् । तस्मात् अपि एतर्हि एकाकी कामयते-जाया मे स्यात्, अथ प्रजायेय, अथ वित्तम् मे स्यात्, अथ कर्म कुर्वीय इति । सः यावत् अपि एतेषाम् एकैकम् न प्राप्नोति, तावत् अकृत्स्नः एव [आत्मानम्] मन्यते । तस्य उ कृत्स्नता [उच्यते] । अस्य मनः एव आत्मा [अस्ति]; वाक् जाया [अस्ति]; प्राणः प्रजा [अस्ति]; चक्षुः मानुषम् वित्तम् [अस्ति], हि चक्षुषा तत् विन्दते । श्रोत्रम् दैवम् [वित्तम् अस्ति], हि श्रोत्रेण तत् शृणोति । अस्य आत्मा एव कर्म [अस्ति], हि आत्मना कर्म करोति । सः एषः पाङ्क्तः यज्ञः [अस्ति]; पशुः पाङ्क्तः [अस्ति]; पुरुषः पाङ्क्तः [अस्ति] । यत् इदम् किञ्च [अस्ति], इदम् सर्वम् पाङ्क्तम् [अस्ति] । यः एवम् वेद, [सः] तत् इदम् सर्वम् आप्नोति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ४

Read the whole section →